हराश्रयवेदिकामाहात्म्यवर्णनम्
ऋषय ऊचुः
यदेतद्भवता प्रोक्तं तत्र तौ परमेश्वरौ ॥
उमामहेश्वरौ सूत हरिश्चन्द्रेण भूभुजा
॥१॥कृतौ कथयसीत्येवं वेदिमध्यं समाश्रितौ ॥
उतान्यौ स्थापितौ तत्र चमत्कारपुरांतिकम्
॥२॥वेदिमध्यगतौ नित्यं पार्वतीपरमेश्वरौ ॥
एतत्संश्रूयते सूत विवाहः प्रागभूत्तयोः ॥
ओषधिप्रस्थमासाद्य पुरं हिम वतः प्रियम्
॥३॥अत्र नः संशयो जातः श्रद्धेयमपि ते वचः ॥
श्रुत्वा किं वा भ्रमस्तेऽयं किं वाऽस्माकं प्रकीर्तय
॥४॥सूत उवाच
नास्माकं विभ्रमो जातो युष्माकं तु द्विजोत्तमाः ॥
परं यत्कारणं कृत्स्नं तद्ब्रवीमि निबोध्यताम्
॥५॥य एष ओषधिप्रस्थे विवाहः प्रागभू त्तयोः ॥
उमात्रिनेत्रयो रम्यः सर्वदेवप्रमोदकृत्
॥६॥वैवस्वतेऽन्तरे पूर्वं संजातो द्विजसत्तमाः ॥
सप्तमस्य तु विख्यातो युष्माकं विदितोऽत्र यः
॥७॥हाटकेश्वरजे क्षेत्रे यश्चोद्वाहस्तयोरभूत् ॥
स्वायंभुवमनोराद्ये स संजातः सुविस्तरः
॥८॥ऋषय ऊचुः
विवाह ओषधिप्रस्थे यः पुरा समभूत्तयोः ॥
पार्वतीहरयोः सूत सोऽस्माभिर्विस्तराच्छ्रुतः
॥९॥हाटकेश्वरजे क्षेत्रे दक्षयज्ञे मनोहरे ॥
विवाहो वृषयानस्य मनौ स्वायंभुवे पुरा
॥१०॥सोऽस्माकं कीर्तनीयश्च त्वया सूतकुलोद्वह ॥
विस्तरेण यथा वृत्तः एतन्न कौतुकं परम्
॥११॥सूत उवाच
अत्र वः कीर्तयिष्यामि सर्वपातकनाशनम् ॥
विवाहसमयं सम्यग्देवदेवस्य शूलिनः
॥१२॥ब्रह्मणो दक्षिणांगुष्ठाद्दक्षः प्राचेतसोऽभवत् ॥
शतानि पञ्च कन्यानां तस्य जातानि च द्विजाः
॥१३॥तासां ज्येष्ठतमा साध्वी सतीनाम शुचिस्मिता ॥
बभूव कन्यका सर्वैर्गुणैर्युक्ताऽऽयतेक्षणा
॥१४॥न देवी न च गंधर्वी नासुरी न च नागजा ॥
तादृग्रूपाऽभवच्चान्या यादृशी सा सुमध्यमा
॥१५॥अथ तां प्रददौ दक्षः पत्न्यर्थं शूल पाणये ॥
प्रार्थितां बहुशो यत्नात्सस्पृहाय स्पृहान्विताम्
॥६॥ततः पुण्यतमं क्षेत्रं कन्यादानस्य स क्षमम् ॥
संध्याय ससुतामात्यः सभृत्यः समुपस्थितः
॥१७॥ततश्चोद्वाहयोग्यानि वसुनि विविधान्यपि ॥
आनयामास भूरीणि मांगल्यानि विशेषतः
॥१८॥अथ चैत्रस्य शुक्लस्य नक्षत्रे भगदैवते ॥
त्रयोदश्यां दिने भानोः समायातो महेश्वरः
॥१९॥सर्वैः सुरगणैः सार्धं देवविष्णुपुरःसरैः ॥
आदित्यैर्वसुभी रुद्रैरश्विभ्यां च तथाऽपरैः
॥२०॥सिद्धैः साध्यगणैर्भूतैः प्रेतैर्वैनायकैस्तथा ॥
गन्धर्वैश्चारणौघैश्च गुह्यकैर्यक्षराक्षसैः
॥२१॥एतस्मिन्नंतरे दक्षः संप्रहृष्टतनूरुहः ॥
प्रययौ संमुखस्तस्य युक्तः सर्वैः सुहृद्गणैः
॥२२॥वाद्यमानैर्महावाद्यैः सूतमागधबन्दिभिः ॥
पठद्भिः सर्वतोऽनेकैर्गायद्भिर्गायनैस्तथा
॥२३॥ततः सर्वे सुरास्तत्र स्वयं दक्षेण पूजिताः ॥
यथाश्रेष्ठं यथाज्येष्ठमुपविष्टा यथाक्रमम् ॥
परिवार्याखिलां वेदिं मंडपांतरवर्तिनीम्
॥२४॥ततः पितामहं प्राह दक्षः प्रीतिपुरःसरम् ॥
प्रणिपत्य त्वया कर्म कार्यं वैवाहिकं विभोः
॥२५॥स्वयमेव सुताऽस्माकं येन स्यात्सुभगा सती ॥
पुत्र पौत्रवती नित्यं सुशीला पतिवल्लभा
॥२६॥बाढमित्येव सोऽप्युक्त्वा प्रहृष्टेनांतरात्मना ॥
समुत्थाय ततश्चक्रे कृत्यमर्हणपूर्वकम्
॥२७॥संप्रदानक्रियां कृत्वा तत्रैव विधिपूर्वकम् ॥
ततो हस्तग्रहं ताभ्यां मिथश्चक्रे यथाक्रमम् ॥
मातॄणां पुरतो वेधाः सतीशाभ्यां यथोचितम्
॥२८॥अथ वेदिं समासाद्य गृह्योक्तविधिनाऽखिलम् ॥
अग्निकार्यं यथोद्दिष्टं चकाराथ सुविस्तरम्
॥२९॥यथायथा स रम्याणि वीक्षतेंऽगानि कौतुकात् ॥
सत्याः पितामहो हृष्टः कामार्तोऽभूत्तथातथा
॥३०॥तेनैकं वदनं मुक्त्वा तस्या वस्त्रावगुंठितम् ॥
वीक्षिताऽतिस्मरार्तेन यथा कश्चिन्न बुद्ध्यते
॥३१॥न शंभोर्लज्जया वक्त्रं प्रत्यक्षं स व्यलोकयत् ॥
न च सा लज्जयाविष्टा करोति प्रकटं मुखम्
॥३२॥ततस्तद्दर्शनार्थाय स उपायं व्यलो कयत् ॥
धूमद्वारेण कामार्तश्चकार च ततः परम्
॥३३॥आर्द्रेंधनानि भूरीणि क्षिप्त्वाक्षित्वा विभावसौ ॥
स्वल्पाज्याहुतिविन्यासादार्द्रद्रव्योद्भव स्तथा
॥३४॥एतस्मिन्नंतरे धूमः प्रादुर्भूतः समंततः ॥
तादृग्येन तमोभूतं वेदिमूलं विनिर्मितम्
॥३५॥ततो धूमाकुलेनेत्रे भगवांस्त्रिपु रान्तकः ॥
हस्ताभ्यां छादयामास येऽन्ये तत्र व्यवस्थिताः
॥३६॥ततो वस्त्रं समुत्क्षिप्य सतीवक्त्रं पितामहः ॥
वीक्षयामास कामार्तः प्रहृष्टेनांतरात्मना
॥३७॥तस्य रेतः प्रचस्कन्द ततस्तद्वीक्षणाद्द्रुतम् ॥
पतितं च धरापृष्ठे तुषारचयसंनिभम् ॥
३८ ततश्च सिकतौघेना तत्क्षणात्पद्मसंभवः ॥
छादयामास तद्रेतो यथा कश्चिन्न बुद्ध्यते
॥३९॥अथ तद्भगवाञ्च्छंभुर्ज्ञात्वा दिव्येन चक्षुषा ॥
रेतोऽवस्कन्दनात्तस्य कोपादेतदुवाच ह
॥४०॥किमेतद्विहितं पाप त्वया कर्म विगर्हितम् ॥
नैवार्हा मम कान्ताया वक्त्रवीक्षाऽनुरागतः
॥४१॥त्वं वेत्सि शंकरेणैतत्कर्मजालं न विंदितम् ॥
त्रैलोक्येऽपि मयाऽप्यस्ति गूढं तत्स्यात्कथं विधे ॥
यत्किञ्चित्त्रिषु लोकेषु जंगमं स्थावरं तथा ॥
तस्याहं मध्यगो मूढ तैलं यद्वत्तिलांतगम्
॥४३॥तस्मात्स्पृश निजं शीर्षं ब्रह्मन्नेतदसंशयम् ॥
यावदेवं गते ब्रह्मा शिरः स्पृशति पाणिना ॥
तावत्तत्र स्थितः साक्षात्तद्रूपो वृषवाहनः
॥४४॥ततो लज्जापरीतांगः स्थितश्चाधोमुखो द्विजाः ॥
इन्द्राद्यैरमरैः सर्वैः सहितः सर्वतः स्थितैः
॥४५॥अथाऽसौ लज्जयाविष्टः प्रणिपत्य महेश्वरम् ॥
प्रोवाच च स्तुतिं कृत्वा क्षम्यतां क्षम्यतामिति
॥४६॥अस्य पापस्य शुद्ध्यर्थं प्राय श्चित्तं वद प्रभो ॥
निग्रहं च यथान्यायं येन पापं प्रयाति मे
॥४७॥श्रीभगवानुवाच
अनेनैव तु रूपेण मस्तकस्थेन वै ततः ॥
तपः कुरु समाधिस्थो ममाराधनतत्परः
॥४८॥ख्यातिं यास्यति सर्वत्र नाम्ना रुद्रशिरः क्षितौ ॥
साधकः सर्वकृत्यानां तेजोभाजां द्विजन्म नाम्
॥४९॥मानुषाणामिदं कृत्यं यस्माच्चीर्णं त्वयाऽऽधुना ॥
तस्मात्त्वं मानुषो भूत्वा विचरिष्यसि भूतले
॥५०॥यस्त्वां चानेन रूपेण दृष्ट्वा पृच्छां करिष्यति ॥
किमेतद्ब्रह्मणो मूर्ध्नि भगवांस्त्रिपुरांतकः
॥५१॥ततस्ते चेष्टितं सर्वं कौतुकाच्च शृणोति यः ॥
परदारकृतात्पापात्ततो मुक्तिं प्रयास्यति
॥५२॥यथायथा जनस्त्वेतत्कृत्यं ते कीर्तयिष्यति ॥
तथातथा विशुद्धिस्ते पापस्यास्य भविष्यति
॥५३॥एतदेव हि ते ब्रह्मन्प्रायश्चित्तं प्रकीर्तितम् ॥
जनहास्यकरं लोके तव गर्हाकरं परम्
॥५४॥एतच्च तव वीर्यं तु पतितं वेदिमध्यगम् ॥
कामार्तस्य मया दृष्टं नैतद्व्यर्थं भविष्यति
॥५५॥यावन्मात्रैः परिस्पृष्टमेतत्सैकतरेणुभिः ॥
तावन्मात्रा भविष्यंति मुनयः संशितव्रताः
॥५६॥वालखिल्या इति ख्याताः सर्वेंऽगुष्ठप्रमाणकाः ॥
तपोवीर्यसमोपेताः शापानुग्रहकारकाः
॥५७॥एतस्मिन्नंतरे तस्माद्वेदिमध्याच्च तत्क्षणात् ॥
अष्टाशीतिसहस्राणि मुनीनां भावितात्मनाम् ॥
अंगुष्ठकप्रमाणानि निष्क्रान्तानि द्विजोत्तमाः
॥५८॥ततस्ते प्रणिपत्योच्चैः प्रोचुर्देवं पितामहम् ॥
स्थानं दर्शय नस्तात तपोऽर्थं कलिवर्जितम्
॥५९॥पितामह उवाच
अस्मिन्क्षेत्रे मया सार्धं कुरुध्वं पुत्रकास्तपः ॥
गमिष्यथ परां सिद्धिं येन लोके सुदुर्लभाम्
॥६०॥ते तथेति प्रतिज्ञाय कृत्वा तत्राश्रमं शुभम् ॥
वालखिल्यास्तपश्चक्रुः संसिद्धिं च परां गताः
॥६१॥अथ ब्रह्मापि तत्कर्म सर्वं वैवाहिकं क्रमात् ॥
समाप्तिमनयत्प्रोक्तं यच्छ्रुतौ तेन च स्वयम्
॥६२॥पतत्सु पुष्पवर्षेषु समन्ताद्गगनांगणात् ॥
वाद्यमानेषु वाद्येषु गीय मानैश्चगीतकैः
॥६३॥पठत्सु विप्रमुख्येषु नृत्यमानासु रागतः ॥
रंभादिषु पुरन्ध्रीषु देवानां दृङ्मनोहरम्
॥६४॥एवं महोत्सवो जज्ञे तत स्तुंबुरुपूर्वकैः ॥
गीयमानेषु गीतेषु यथापूर्वं त्रिविष्टपे
॥६५॥अथ कर्मावसाने स भगवांस्त्रिपुरांतकः ॥
प्रोवाच पद्मजं भक्त्या दक्षिणां ते ददामि किम्
॥६६॥वैवाहिकी सुरश्रेष्ठ यद्यपि स्यात्सुदुर्लभा ॥
ब्रूहि शीघ्रं महाभाग नादेयं विद्यते मम
॥६७॥पितामह उवाच
अनेनैव तु रूपेण वेद्यामस्यां सुरेश्वर ॥
त्वया स्थेयं सदैवात्र नृणां पापविशुद्धये
॥६८॥येन ते सन्निधौ कृत्वा स्वाश्रमं शशिशेखर ॥
तपः करोमि नाशाय पापस्यास्य महत्तमम्
॥६९॥चैत्रशुक्लत्रयोदश्यां नक्षत्रे भगदैवते ॥
सूर्यवारेण यो भक्त्या वीक्षयिष्यति मानवः ॥
तदैव तस्य पापानि प्रयास्यन्ति च संक्षयम्
॥७०॥या नारी दुर्भगा वन्ध्या काणा रूपविवर्जिता ॥
साऽपि त्वद्दर्शनादेव भविष्यति सुरूपधृक् ॥
प्रजावती सुभोगाढ्या सुभगा नात्र संशयः
॥७१॥महेश्वर उवाच
हिताय सर्वलोकानां वेद्यामस्यां व्यवस्थितः ॥
स्थास्यामि सहितः पत्न्या सत्यात्व द्वचनाद्विधे
॥७२॥सूत उवाच
एवं स भगवांस्तत्र सभार्यो वृषभध्वजः ॥
विद्यते वेदिमध्यस्थो लोकानां पापनाशनः ०
॥७३॥एतद्वः सर्वमाख्यातं यथा तस्य पुराऽभवत् ॥
विवाहो वृषनाथस्य मनौ स्वायंभुवे द्विजाः
॥७४॥विवाहसमये प्राप्ते प्रारम्भे वा शृणोति यः ॥
एतदाख्यानमव्यग्रं संपूज्य वृषभध्वजम् ॥
तस्याऽविघ्नं भवेत्सर्वं कर्म वैवाहिकं च यत्
॥७९॥कन्या च सुखसौभाग्य शीलाचारगुणान्विता ॥
तथा स्यात्पुत्रिणी साध्वी पतिव्रतपरायणा
॥७६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये हराश्रयवेदिकामाहात्म्यवर्णनंनाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥