एवं सर्वेषु तीर्थेषु संस्थितेषु द्विजोत्तमाः
सूत उवाच
एवं सर्वेषु तीर्थेषु संस्थितेषु द्विजोत्तमाः ॥
तत्क्षेत्रं ख्यातिमापन्नं समस्ते धरणीतले
॥१॥समस्तेभ्यस्ततोऽदूरान्मुनयः शंसितव्रताः ॥
संश्रयंति ततो भूपास्तपोऽर्थं जरयाऽन्विताः
॥२॥तथा ते लिंगिनो दान्ताः सिद्धिकामाः समंततः ॥
समाश्रयंति तत्क्षेत्रं सवर्तीर्थसमा श्रयम्
॥३॥तत्र सिद्धेश्वरंनाम लिंगमस्ति द्विजोत्तमाः ॥
सर्वसिद्धिप्रदं नृणां स्वयं सिद्धिप्रदायकम्
॥४॥निर्विद्य भूतले शर्वः सर्वव्यापी सदा शिवः ॥
हाटकेश्वरसंज्ञेऽस्मिन्क्षेत्रे देवः स्वयं स्थितः
॥५॥लिंगरूपेण भगवान्प्रादुर्भूतः स्वयं हरः ॥
स्मरणाद्दर्शनाच्चैव सर्वसिद्धिप्रदः सदा
॥६॥सिद्धेनाराधितो यस्मात्तस्मात्सिद्धेश्वरः स्मृतः ॥
तस्यैव वरदानाद्धि अत्रैवावस्थितो हरः
॥७॥यस्तं पश्यति सद्भक्त्या शुचिः स्पृशति वा नरः ॥
वांछितं लभते सद्यो यद्यपि स्यात्सुदुर्लभम्
॥८॥तत्र सिद्धिं गताः पूर्वं शतशः पुरुषा भुवि ॥
दर्शनात्स्पर्शनाच्चान्ये प्रणामादपरे नराः
॥९॥दक्षिणामूर्तिमासाद्य मन्त्रं तस्य षडक्षरम् ॥
यो जपेच्छ्रद्धयोपेतस्तस्यायुः संप्रवर्धते
॥१०॥यावत्संख्यं जपेन्मत्रं तावत्संख्यान्यहानि सः ॥
आयुषः परतो मर्त्यो जीवते नात्र संशयः
॥११॥ऋषय ऊचुः
अत्याश्चर्यमिदं सूत यत्त्वया परिकीर्तितम् ॥
आयुषोऽप्यधिकं मर्त्यो जीवते यदि मानवः
॥१२॥सूत उवाच
अत्र वः कीर्तयिष्यामि स्वयमेव मया श्रुतम् ॥
वदतस्तत्समुद्दिश्य यद्वत्सस्य महात्मनः
॥१३॥पुरा मे वसमानस्य पुरतोऽत्र पितुर्गृहे ॥
आयातः स मुनिस्तत्र वत्सो नाम महाद्युतिः
॥१४॥वहमानो युवावस्थां द्वादशार्कसमद्युतिः ॥
अंगैः सर्वैस्तु रूपाढ्यः कामदेव इवापरः
॥१५॥मत्पित्रा स तदा दृष्टस्ततो भक्त्याऽभिवादितः ॥
अर्घ्यं दत्त्वा ततः प्रोक्तो विश्रांतो विनयेन च
॥१६॥स्वागतं तव विप्रेंद्र कुतस्त्वमिह चागतः ॥
आदेशो दीयतां मह्यं किं करोमि यथोचितम्
॥१७॥वत्स उवाच
तवाश्रमपदे सूत चातुर्मास्यसमुद्भवम् ॥
कर्तुमिच्छाम्यनुष्ठानं शुश्रूषां चेत्करोषि मे
॥१८॥लोमहर्षण उवाच
एवं विप्र करिष्यामि तवादेशमसंशयम् ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यस्त्वं मे गृहमागतः
॥१९॥एवमुक्ताथ मामाह स पिता द्विजसत्तमाः ॥
त्वया वत्सस्य कर्तव्या शुश्रूषा नित्यमेव हि
॥२०॥ततोऽहं विनयोपेतस्तस्य कृत्यानि कृत्स्नशः ॥
करोमि स च मे रात्रौ चित्राः कीर्तयते कथाः
॥२१॥राजर्षीणां पुराणानां देवदानवरक्षसाम् ॥
द्वीपानां पर्वतानां च स्वयं दृष्ट्वा सहस्रशः
॥२२॥एकदा तु मया पृष्टः कथांते प्राप्य कौतुकम् ॥
विस्मयाविष्टचित्तेन स द्विजो द्विजसत्तमाः
॥२३॥भगवन्सुकुमारं ते शरीरं प्रथमं वयः ॥
द्वीपानां च करोषि त्वं कथाश्चित्राः पृथक्पृथक्
॥२४॥कथं सर्वं धरापृष्ठं ससमुद्रं निरीक्षितम् ॥
स्वल्पेन वयसा तात ( ?) विस्तरतो वद
॥२५॥त्वया ये कीर्तिता द्वीपाः समुद्राः पर्वतास्तथा ॥
मनसापि न शक्यास्ते गन्तुं मर्त्यैः कथंचन
॥२६॥अत्र कौतूहलं जातमश्रद्धेयं वचस्तथा ॥
श्रुत्वा श्रद्धेयवाक्यस्य तस्मात्सत्यं प्रकीर्तय
॥२७॥तपसः किं प्रभावोऽयं किं वा मंत्रपराक्रमः ॥
येन पृथ्वीतलं कृत्स्नं त्वया दृष्टं मुनीश्वर
॥२८॥किं वा देवप्रसादस्तु तवौषधिकृतोऽथवा ॥
तच्च पुण्यतमं तात त्वं मे ब्रूहि सविस्तरम्
॥२९॥अथ मां स मुनिः प्राह विहस्य मुनिसत्तमाः ॥
सत्यमेतत्त्वया ज्ञातं मम मंत्रपराक्रमम्
॥३०॥सदाहमष्टसंयुक्तं सहस्रं शिवसन्निधौ ॥
जपामि शिवमंत्रस्य षडक्षरमितस्य च
॥३१॥त्रिकालं तेन मे जातं सुस्थिरं यौवनं मुने ॥
अतीतानागतं ज्ञानं जीवितं च सुखोदयम्
॥३२॥मम वर्षसहस्राणि बहूनि प्रयुतानि च ॥
संजातानि महाभाग दृश्यते प्रथमं वयः
॥३३॥अत्र ते कीर्तयिष्यामि विस्तरेण महामते ॥
यथा सिद्धिर्मया प्राप्ता प्रसादाच्छंकरस्य च
॥३४॥अहं हि ब्राह्मणो नाम्ना वत्सः ख्यातो महीतले ॥
नानाशास्त्रकृताभ्यासः पुराऽऽसं वेदपारगः
॥३५॥एतस्मिन्नेव काले तु मेनका च वराप्सराः ॥
वसंतसमये प्राप्ता मर्त्यलोके यदृच्छया
॥३६॥सा गता भ्रममाणाथ काम्यकंनाम तद्वनम् ॥
मत्तकोकिलनादाढ्यं मनोज्ञद्रुमसं कुलम्
॥३७॥यत्रास्ते मुनिशार्दूलो देवरात इति स्मृतः ॥
व्रतस्वाध्यायसंपन्नस्तपसा ध्वस्तकिल्विषः
॥३८॥उपविष्टो नदीतीरे देवतार्च्चापरायणः ॥
श्रद्धया परया युक्त एकाकी निर्जने वने
॥३९॥अथ सा पश्यतस्तस्य विवस्त्रा प्राविशज्जलम् ॥
दिव्यरूपसमोपेता घर्मार्ता वरवर्णिनी
॥४०॥अथ तस्य मुनींद्रस्य रेतश्चस्कन्द तत्क्षणात् ॥
दृष्ट्वा तां चारुसर्वांगीं जलमध्यं समाश्रिताम्
॥४१॥एतस्मिन्नंतरे प्राप्ता सारंगी सुपिपासिता ॥
जलमिश्रं तया रेतः पीतं सर्वमशेषतः
॥४२॥अथ साऽपि दधे गर्भं मानुषं वै प्रभावतः ॥
अमोघरेतसो मासे सुषुवे दशमे ततः
॥४३॥जनयामास दीप्तांगी कन्यां पद्मदलेक्षणाम् ॥
तस्मिन्नेव जले पुण्ये देवराताश्रमं प्रति
॥४४॥अथ तां स मुनिर्ज्ञात्वा स्वज्ञानेन स्ववीर्यजाम् ॥
कृपया परयाविष्टो जग्राह च पुपोष च
॥४५॥स्नेहेन महता युक्तः कृतकौतुकमंगलः ॥
रक्षमाणो वने चैनां श्वापदेभ्यः प्रयत्नतः
॥४६॥आजहार सुमृष्टानि तत्कृते सुफलानि सः ॥
स्वयं गत्वा सुदूरं च कानने श्वापदाकुले
॥४७॥तत्रस्था ववृधे सा च नाम्ना ख्याता मृगावती ॥
शुक्लपक्षे यथा व्योम्नि कलेव शशलक्ष्मणः
॥४८॥अथ सा भ्रममाणेन मया दृष्टा मृगेक्षणा ॥
ततोऽहं कामबाणेन तत्क्षणात्ताडितो हृदि
॥४९॥विज्ञाय च कुमारीं तां सवर्णां चारुहासिनीम् ॥
आदरेण गृहं गत्वा स मुनिर्याचितस्ततः
॥५०॥प्रयच्छैनां मम ब्रह्मन्पत्न्यर्थं निज कन्यकाम् ॥
यथात्मा पोषयिष्यामि भोजनाच्छादनादिभिः
॥५१॥ततस्तेन प्रदत्ता मे तत्क्षणादेव सुन्दरी ॥
विधिना शास्त्रदृष्टेन नक्षत्रे भग दैवते
॥५२॥ततः कतिपयाहस्य मयोढा सा सुविस्मिता ॥
सखीजनसमायुक्ता फलार्थं निर्गता वने
॥५३॥अथ वीरुधसंछन्ने वने तस्मिन्सुसंस्थिते ॥
तया न्यस्तं पदं मूर्ध्नि तृणाच्छन्नस्य भोगिनः
॥५४॥सा दष्टा सहसा तेन पतिता वसुधातले ॥
विषार्दिता गतप्राणा तत्क्षणादेव भामिनी
॥५५॥अथ सख्यः समागत्य तस्या दुःखेन दुःखिताः ॥
शशंसुस्ता यथावृत्तं रुदन्त्यो मम सूतज
॥५६॥ततोऽहं सत्वरं गत्वा दृष्ट्वा तां पतितां भुवि ॥
विलापान्कृतवान्दीनो रुदितं करुणस्वरम्
॥५७॥इयं मे सुविशालाक्षी मनःप्राणसमा प्रिया ॥
मृता भूमौ यया हीनो नाहं जीवितुमुत्सहे
॥५८॥सोऽहमद्य गमिष्यामि परलोकं सहानया ॥
प्रियारहितहर्म्यस्य जीवितस्य च किं फलम्
॥५९॥पुत्रपौत्रवधूभिश्च भृत्यवर्गयुतस्य च ॥
पत्नीहीनानि नो रेजुर्गृहाणि गृहमेधिनाम्
॥६०॥यदीयं कर्णनेत्रांता तन्वंगी मधुरस्वरा ॥
न जीवति पृथुश्रोणी मरिष्येऽ हमसंशयम्
॥६१॥एवं विलपमानस्य मम सूत कुलोद्वह ॥
आगताः सुहृदः सर्वे रुरुदुस्तेऽपि दुःखिताः
॥६२॥रुदित्वा सुचिरं तत्र तैः समं महतीं चिताम् ॥
कृत्वा तां संनिधायाथ प्रदत्तो हव्यवाहनः
॥६३॥तत आदाय मां कृच्छ्रान्निन्युश्च स्वगृहं प्रति ॥
रुदन्तं प्रस्खलन्तं च मुह्यमानं पदेपदे
॥६४॥ततो निशावशेषेऽहमुत्थाय त्वरयाऽन्वितः ॥
कांतादुःखपरीतात्मा गतोऽरण्यं तदेव हि
॥६५॥कामेनोन्मत्ततां प्राप्तो भ्रममाण इतस्ततः ॥
विलपन्नेव दुःखार्तो वने जनविवर्जिते
॥६६॥क्व गतासि विशालाक्षि विजनेऽस्मिन्विहाय माम् ॥
नाहं गृहं गमिष्यामि मम दुःखाय निर्दयः
॥६७॥एषोऽरुणकरस्पर्शात्स्वाभां त्यजति चंद्रमाः ॥
निशाक्षये निरुत्साहो यथाहं विधिना कृतः
॥६८॥अयं तनुः समायाति सविता रक्तमंडलः ॥
निगदिष्यति मे वार्तां नूनं कच्चित्त्वदुद्भवाम्
॥६९॥गगनं व्यापयन्सूर्यः संतापयति मां भृशम् ॥
बाह्ये चाभ्यंतरे कामः कथं वक्ष्यामि जीवितम्
॥७०॥करींदः स्वयमभ्येति तत्कुचाभौ समुद्वहन् ॥
कुम्भौ गत्वा तु पृच्छामि यदि शंसति तां प्रियाम्
॥७१॥एवं प्रलपमानस्य मम मोहो महानभूत् ॥
भास्करांशुप्रतप्तस्य मदनाकुलितस्य च
॥७२॥यंयं पश्यामि तत्राहं भ्रममाणो महावने ॥
वृक्षं वा प्राणिनो वापि तंतं पृच्छामि मोहतः
॥७३॥त्वद्दंतमुसलप्रख्यं यस्या ऊरुयुगं गज ॥
तां बालां वद चेद्दृष्टा दयां कृत्वा ममोपरि ॥
७४ त्वया जंबूक चेद्दृष्टा बिंबाफलनिभाधरा ॥
दयिता मम तद्ब्रूहि श्रेयस्ते भविता महत्
॥७५॥अथवा बिल्व शंस त्वं यदि बिल्वोपमस्तनी ॥
भ्रममाणा वने दृष्टा मम प्राणसमा प्रिया
॥७६॥त्वत्पुष्पसदृशांगी सा मम भार्या मनस्विनी ॥
स त्वं चंपक जानीषे यदि त्वं शंस मे द्रुतम्
॥७७॥मधूक तव पुष्पेण दयितायाः समौ शुभौ ॥
कपोलौ पांडुरच्छायौ दृष्ट्वा त्वां स्मृतिमागतौ
॥७८॥कदलीस्तंभ सुव्यक्तं प्रियायाश्च सुकोमलौ ॥
ऊरू त्वत्तोऽपि तन्वंग्याः सत्येनात्मानमालभे
॥७९॥भोभो मृग न मे भार्या त्वया दृष्टाऽत्र कानने ॥
त्वत्समे लोचने स्पष्टे कज्जलेन समावृते
॥८०॥तृणादोऽपि सुवृद्धोऽपि वने वृद्धोऽपि यः पशुः ॥
सोऽपि कांतापरित्यक्तो न मृगो रमते क्षणम्
॥८॥कांतायाः पुरतो नित्यं विधत्तेंऽगं कलापकृत् ॥
विहंगयोनि जातोऽपि वृद्ध्यर्थं पुष्पधन्वनः
॥८२॥योऽयं संदृश्यते हंसो हंसीमनुस्मरत्यसौ ॥
गतिस्तादृङ्न चाप्यस्य मत्प्रियायाश्च यादृशी
॥८३॥एक एव सुधन्योऽयं चक्रवाको विहंगमः ॥
मुहूर्तमपि योऽभीष्टां न त्यजेच्चक्रवाकिकाम्
॥८४॥य एष श्रूयते रावो विभ्रमं जनयन्मम ॥
किंवा पिकसमुत्थो ऽयं किं वा मे दयितोद्भवः
॥८५॥मां दृष्ट्वाऽयं मृगो याति तं मृगी याति पृष्ठतः ॥
धावमाना ममाप्येवमनुयाति पुरा प्रिया
॥८६॥वारणोऽयं प्रियां कांतामनुरागानुयायिनीम् ॥
स्पर्शयत्यग्रहस्तेन मम संस्मारयन्प्रियाम
॥८७॥हा प्रिये मृगशावाक्षि तप्तकांचनसंनिभे ॥
कथं मां न विजानासि भ्रमंतमिह कानने
॥८८॥क्व सा भक्तिः क्व सा प्रीतिः क्व सा तुष्टिः क्व सा दया ॥
निगदन्तं सुदीनं मां संभाषयसि नो यतः
॥८९॥एवं प्रलपमानस्य मम प्राप्ताः सुहृज्जनाः ॥
अन्वेषंतः पदं तत्र वनेषु विषमेषु च
॥९०॥ततस्तैः कोपरक्ताक्षैः प्रोक्तोऽहं सूतनंदन ॥
भर्त्सद्भिः परुषैर्वाक्यैर्धिक्त्वां काममयाधुना
॥९१॥त्वं किं शोचसि मूढात्मन्नशोच्यं जीवितं नृणाम् ॥
यतस्त्वामपि शोचंतं शोचयिष्यंति चापरे
॥९२॥यूयं वयं तथा चान्ये संजाताः प्राणिनो भुवि ॥
सर्व एव मरिष्यामस्तत्र का परिदेवना
॥९३॥अदर्शनात्प्रिया प्राप्ता पुनश्चादर्शनं गता ॥
न सा तव न तस्यास्त्वं वृथा किमनुशोचसि
॥९४॥नायमत्यंतसंवासः कस्यचित्केनचित्सह ॥
अपि स्वेन शरीरेण किमुतान्यैर्वृथा जनैः
॥९५॥मृतं वा यदि वा नष्टं योतीतमनुशोचति ॥
स दुःखेन लभेद्दुःखं द्वावनर्थो प्रपद्यते
॥९६॥एवं संबोधयित्वा मां गृहीत्वा ते मुहुर्जनैः ॥
निन्यु र्गृहं ततः सर्वे वनात्तस्मात्सुदारुणात्
॥९७॥ततो मम गृहस्थस्य स्मरमाणस्य तां प्रियाम् ॥
उत्पन्नः सुमहान्कोपः सर्पान्प्रति महामते
॥९८॥ततः कोपपरीतेन प्रतिज्ञातं मया स्फुटम् ॥
सर्पानुद्दिश्य यत्सर्वं तन्निबोधय दारुणम्
॥९९॥अद्यप्रभृति चेन्नाहं सर्पं दृष्टिवशं गतम् ॥
निहन्मि दण्डघातेन तत्पापं स्याद्ध्रुवं मम
॥१००॥यच्च निक्षेपहर्तॄणां यच्च विश्वासघातिनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम्
॥१०१॥यत्पापं साधुनिंदायां मातापितृवधे च यत् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम्
॥१०२॥परदाररतानां च यत्पापं जीवघातिनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम्
॥१०३॥उक्तौ चाभिरतानां च यत्पापं गरदायिनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम्
॥१०४॥कृतघ्नानां च यत्पापं परवित्तापहारिणाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम्
॥१०५॥यत्पापं शस्त्रकर्तृणां तथा वह्निप्रदायिनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम्
॥१०६॥व्रतभंगेन यत्पापं व्रतिनां निंदयापि यत् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम्
॥१०७॥यत्पापं भ्रूणहत्यायां मृष्टमांसाशिनां च यत् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम्
॥१०८॥वृक्षच्छेद प्रसक्तानां यत्पापं शल्यकारिणाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम्
॥१०९॥पाखंडिनां च यत्पापं नास्तिकानां च यद्भवेत् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम्
॥११०॥मांसमद्यप्रसक्तानां यत्पापं विटभोजिनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम्
॥१११॥मृषावादप्रसक्तानां पररंध्रावलोकिनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम्
॥११२॥यत्पापं साक्ष्यकर्तृणां धान्यसंग्रहकारिणाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम्
॥११३॥आखेटकरतानां च यत्पापं पाशदायिनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम्
॥११४॥नित्यं प्रेषणकर्तॄणां यत्पापं मधुजीविनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम्
॥११५॥अदृष्टदेववक्त्राणां यत्पापं मत्स्यजीविनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम्
॥११६॥विवादे पृच्छमानानां पक्षपातेन जल्पताम् ॥
भयाद्वा यदि वा लोभाद्द्वेषाद्वा कामतोऽपि वा
॥११७॥यत्पापं तु भवेत्तेषां निर्दयानां दुरात्मनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम्
॥११८॥कन्याविक्रयकर्तृणां यत्पापं पापसंगिनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम्
॥११९॥विद्याविक्रयकर्तॄणां यत्पापं समुदाहृतम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम्
॥१२०॥एवं मया प्रतिज्ञाय कोपाविष्टेन सूतज ॥
गृहीतो लगुडः स्थूलो वधार्थं पवनाशिनाम्
॥१२१॥ततःप्रभृत्यहं भूमौ भ्रमामि लगुडायुधः ॥
ब्राह्मीं वृत्तिं परित्यज्य मार्गमाणो भुजंगमान्
॥१२२॥मया कोपपरीतेन बहवः पन्नगा हताः ॥
विषोल्बणा महाकायास्तथान्ये मध्यमाधमाः
॥१२३॥एकदाहं वनं प्राप्तो गहनं लगुडायुधः ॥
शयानं तत्र चापश्यं जलसर्पं वयोऽधिकम्
॥१२४॥ततोऽहं दंडमुद्यम्य कालदंडोपमं रुषा ॥
हन्मि तं यावदेवाहं स मां प्रोवाच पन्नगः
॥१२५॥नापराध्यामि ते किंचिदहं ब्राह्मणसत्तम ॥
संरंभात्तत्किमर्थं मां जिघांससि वयोऽधिकम्
॥१२६॥ततो मया स संप्रोक्तः कोपात्सलिलपन्नगः ॥
महामन्युपरीतेन स्मृत्वा भार्यां मृगावतीम् ॥
मम भार्या प्रिया पूर्वं सर्पेणासीद्विनाशिता
॥१२७॥ततोऽहं तेन वैरेण सूदयामि महो रगान् ॥
अद्य त्वामपि नेष्यामि वैवस्वतगृहं प्रति ॥
हत्वा दंडप्रहारेण तस्मादिष्टतमं स्मर
॥१२८॥ततः स मां पुनः प्राह भयेन महतावृतः ॥
शृणु तावद्वचोऽस्माकं ततः कुरु यथोचितम्
॥१२९॥अन्ये ते पन्नगा विप्र ये दशंतीह मानवान् ॥
वयं सलिलसंभूता निर्विषाः सर्परूपिणः
॥१३०॥एवं प्रजल्पमानोऽपि स दंडेन मया हतः ॥
सूत तत्सूदनार्थाय निर्विकल्पेन चेतसा
॥१३१॥अथासौ लगुडस्पर्शात्तत्क्षणादेव पन्नगः ॥
द्वादशार्कप्रतीकाशो बभूव पुरुषो महान्
॥१३२॥तदाश्चर्यं समालोक्य ततोऽहं विस्मयान्वितः ॥
उक्तवांस्तं प्रणम्योच्चैः क्षम्यतामिति सादरम्
॥१३३॥को भवान्किमिदं रूपं कृतं सर्पमयं विभो ॥
किं वा ते ब्रह्मशापोऽयं किं वा क्रीडासदेदृशी
॥१३४॥ततः प्रोवाच मां हृष्टः स नरः प्रश्रयान्वितः ॥
शृणुष्वावहितो भूत्वा वृत्तांतं स्वं वदामि ते
॥१३५॥अहमासं पुरा विप्र चमत्कारपुरोत्तमे ॥
युवा परमतेजस्वी धनवान्सुसमृद्धिभाक्
॥१३६॥तत्रैव नगरे रम्ये ह्यस्ति पुण्यं शिवालयम् [।
सिद्धेश्वरस्य देवस्य पताकाभिरलंकृतम
॥३७॥कस्यचित्त्वथ कालस्य तत्र यात्रा व्यजायत ॥
तत्र वादित्रघोषेण नादितं भुवनत्रयम्
॥१३८॥अथ तत्र समायाता मुनयः संशितव्रताः ॥
देवस्य दर्शनार्थाय शतशोऽथ सहस्रशः
॥१३९॥शैवाः पाशुपताश्चैव तथा कापालिकाश्च ये ॥
महाव्रतधराश्चान्ये शिवभक्तिपरायणाः
॥१४०॥एकाहारा निराहारा वायुभक्षास्तथापरे ॥
अब्भक्षाः फल भक्षाश्च शीर्णपर्णाशिनस्तथा
॥१४१॥तेऽभिवन्द्य यथान्यायं देवदेवं महेश्वरम् ॥
उपाविष्टाः पुरस्तस्य कथाश्चक्रुः पृथग्विधाः
॥१४२॥राजर्षीणां पुराणानां देवेन्द्राणां च हर्षिताः ॥
दयाधर्मसमोपेतास्तथान्येऽपि च भूरिशः
॥१४३॥केचित्तत्र प्रनृत्यंति गायंति च तथाऽपरे ॥
साधवो भक्तिसंयुक्ता वाद्यं चक्रुश्च भूरिशः
॥९४॥अन्ये दानानि यच्छंति धनिनः श्रद्धयान्विताः ॥
दीनांधकृपणेभ्यश्च तपस्विभ्यो विशेषतः
॥४५॥एवं महोत्सवे तत्र वर्तमाने महोदये ॥
आगतो बहुभिः सार्धमहं यौवनगर्वितः
॥१४६॥शिवदर्शनविद्वेषी तमसा संवृताशयः ॥
यात्रोत्सव विनाशाय प्रेरितोऽन्यैः सुदुर्जनैः
॥१४७॥जलसर्पं समादाय सुदीर्घं भीषणाकृतिम् ॥
लेलिहानं मुहुर्जिह्वां जरया परया वृतम्
॥१४८॥ततश्च क्षिप्तवांस्तत्र महाजनसमागमे ॥
तं दृष्ट्वा विद्रुताः सर्वे जना मृत्युभयार्दिताः
॥१४९॥तत्रासीत्तापसो नाम्ना सुप्रभः शंसितव्रतः ॥
समाधिस्थः सुशिष्याढ्यस्तपसा दग्धकिल्बिषः
॥१५०॥निष्कंपां सुदृढामृज्वीं नातिस्तब्धां न कुंचिताम् ॥
ग्रीवां दधत्स्थिरां यत्नाद्गात्रयष्टिं च सर्वतः
॥१५१॥संपश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥
तालुमध्यगतेनैव जिह्वाग्रेणाचलेन च
॥१५२॥आवर्तपंकजांतःस्थमष्टपत्र मधोमुखम् ॥
तन्मध्यकर्णिकासंस्थं संपश्यन्रविमंडलम्
॥५८३॥तस्यापि मध्यतश्चान्यं नरमंगुष्ठमात्रकम् ॥
द्वादशार्कप्रतीकाशमप्रतर्क्यतमाकृतिम्
॥५४॥पश्यन्पद्मासनस्थं च वैदनाथं महेश्वरम् ॥
यमक्षरं वदंत्येव सर्वगं सर्ववेदिनम्
॥१५५॥अनिंद्यं चाप्यभेद्यं च जरामरणवर्जितम् ॥
पुलकांचितसर्वांगो योगनिद्रावशंगतः
॥१५६॥आनंदाश्रुपरिक्लिन्नः संनिरुद्धेंद्रियाकृतिः ॥
कुंभयित्वोदरांतःस्थं स्वभ्यासाद्वायुपञ्चकम्
॥५७॥अंगुष्ठतर्जनीयोगं कृत्वा हृदयसंगतम् ॥
एवं तत्रोपविष्टस्य स सर्पस्तस्य विग्रहम्
॥१५८॥वेष्टयामास भोगेन निश्चलस्य महात्मनः ॥
एतस्मिन्नंतरे शिष्यस्तस्यासीत्सुतपोऽन्वितः
॥१५९॥श्रीवर्धनइतिख्यातो नानाशास्त्रकृतश्रमः ॥
स दृष्ट्वा सर्पभोगेन समंताद्वेष्टितं गुरुम्
॥१६०॥नातिदूरस्थितं मां च ज्ञात्वा तत्कर्मकारिणम् ॥
उवाच परुषं वाक्यं कोपसंरक्तलोचनः
॥१६१॥स्फुरताधरयुग्मेन बाष्पगद्गदया गिरा ॥
मया चेत्सुतपस्तप्तं गुरुशुश्रूषया सदा
॥१६२॥निर्विकल्पेन चित्तेन यदि ध्यातो महेश्वरः ॥
तेन सत्येन दुष्टोऽयं पापात्मा ब्राह्मणाधमः ॥
ईदृक्कायो भवत्वाशु गुरुर्मे येन धर्षितः
॥१६३॥अथाहं सर्पतां प्राप्तस्तत्क्षणादेव दारुणाम् ॥
पश्यतां सर्वलोकानां वदतां साधुसाध्विति
॥१६४॥अथ गत्वा समाधेः स पर्यंतं संयतो मुनिः ॥
ददर्श निज गात्रस्थं द्विजिह्वं दारुणाकृतिम्
॥१६५॥अथ सर्पाकृतिं मां च दुःखेन महतान्वितम् ॥
तटस्थं भयसंत्रस्तं तथा सर्वजनं तदा
॥१६६॥ततो विज्ञाय तत्सर्वं स मुनिर्ज्ञानचक्षुषा ॥
अब्रवीत्कृपायाविष्टः शिष्यं श्रीवर्धनं रुषा
॥६७॥न मे प्रियं कृतं शिष्य त्वयैतत्कर्म कुर्वता ॥
शपता ब्राह्मणं दीनं नैष धर्मस्तपस्विनाम्
॥१६८॥समो मानेऽपमाने च समलोष्टाश्मकांचनः ॥
तपस्वी सिद्धिमायाति सुहृच्छत्रुसमाकृतिः
॥१६९॥तस्मादजानता वत्स शप्तोऽयं ब्राह्मणस्त्वया ॥
बाल्यभावात्प्रसादोऽस्य भूयोयुक्तो ममाज्ञया
॥१७०॥अथ श्रीवर्धनः प्राह प्रणिपत्य निजं गुरुम् ॥
अमर्षवशमापन्नः कृतांजलिपुटः स्थितः
॥१७१॥अज्ञानाद्यदिवा ज्ञानान्मया यद्व्याहृतं वचः ॥
तत्तथैव न संदेहस्तस्मान्मौनं गुरो कुरु
॥१७२॥न मृषा वचनं प्रोक्तं स्वैरेणापि गुरो मया ॥
किं पुनर्यत्तवार्थाय तस्मान्मौनं समाचर
॥१७३॥पश्चादुदयते सूर्यः शोषं याति महार्णवः ॥
अपि मेरुश्च शीर्येत न मे स्यादन्यथा वचः
॥१७४॥तमुवाच गुरुः शिष्यं स पुनः श्लक्ष्णया गिरा ॥
जानाम्यहं न ते वाणी कथंचिज्जायतेऽन्यथा
॥१७५॥सदा शिष्यो वयःस्थोपि शासनीयः प्रयत्नतः ॥
किं पुनर्बाल एव त्वं तेन त्वां वच्मि भूरिशः
॥१७६॥धर्मं न व्ययते कोऽपि मुनीनां पूर्वसंचितम् ॥
तपोधर्मविहीनानां गतिस्तेषां न विद्यते
॥१७७॥क्षमैका सिद्धिदा प्रोक्ता यतीनां च विशेषतः ३ ॥
तस्मात्क्षमां पुरस्कृत्य वर्तितव्यं तपस्विभिः
॥१७८॥न पापं प्रति पापः स्याद्बुद्धिरेषा सनातनी ॥
आत्मनैव हतः पापो यः पापं तु समाचरेत्
॥१७९॥दग्धः स दहते भूयो हतमेव निहंति च ॥
सम्यग्ज्ञानपरित्यक्तो यः पापे पापमाचरेत्
॥१८०॥उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ॥
अपकारिषु यः साधुः कीर्त्यते जनैः
॥१८१॥एवमुक्त्वा स तं शिष्यं ततो मामिदमब्रवीत् ॥
दयया परया युक्तः सुव्रतः शंसितव्रतः
॥१८२॥नान्यथा वचनं भावि मम शिष्यस्य पन्नग ॥
कञ्चित्कालं प्रतीक्षस्व तस्मात्सर्पवपुःस्थितः
॥१८३॥सर्प उवाच
कस्मिन्काले मुनिश्रेष्ठ शापो मेऽस्तमुपैष्यति ॥
प्रसादं कुरु दीनस्य शापस्याज्ञानिनस्तथा
॥१८४॥सुव्रत उवाच
मुहूर्तमपि गीतादि यः करोति शिवालये ॥
न तस्य शक्यते कर्तुं संख्या धर्मस्य भद्रक
॥१८५॥मुहूर्तमपि यो विघ्नं करोति च महोत्सवे ॥
तस्य पापस्य नो संख्या कर्तुं शक्या हि केनचित्
॥१८६॥तस्मात्त्वं पापको विप्रो नैव मुक्तिमवाप्स्यसि ॥
वार्तासंगेन दुर्बुद्धे तस्माच्छृणु वचो मम
॥८७॥शैवं षडक्षरं मंत्रं योजपेच्छ्रद्धयान्वितः ॥
अपि ब्रह्मवधा त्पापं जातं तस्य प्रणश्यति
॥१८८॥दशभिर्दिनजं पापं विंशत्या वत्सरोद्भवम् ॥
षडक्षरस्य जाप्येन पापं क्षालयते नरः
॥१८९॥तस्मात्त्वं जलमध्यस्थस्तं मंत्रं जप सादरम् ॥
येन पापं क्षयं याति कृतमप्यन्यजन्मनि
॥१९०॥यदा त्वां जलमध्यस्थं वत्सोनाम द्विजो रुषा ॥
ताडयिष्यति दण्डेन तदा मोक्षमवाप्स्यसि
॥१९१॥तस्माद्गच्छ द्रुतं सर्प स्थानादस्माज्जलाशये ॥
किञ्चिदिष्टं मया प्रोक्तो विरराम स सन्मुनिः
॥१९२॥ततोऽहं दुःखसंयुक्तः संप्राप्तोऽत्र जलाशये ॥
षडक्षरं जपन्मन्त्रं नित्यमेव व्यवस्थितः
॥१९३॥त्वत्प्रसादादहं मुक्तः सर्पत्वाद्ब्राह्मणोत्तम ॥
किं करोमि प्रियं तेऽद्य तस्माच्छीघ्रतरं वद
॥१९४॥वत्सोनाम न सन्देहः स त्वं यः कीर्तितो मम ॥
सुव्रतेन विमानं मे पश्यैतदुपसर्पति
॥१९५॥ततः प्रोक्तो मया सम्यक्स सर्पो दिव्यरूपधृक् ॥
भगवन्नुपदेशं मे किञ्चिद्देहि शुभावहम्
॥१९६॥येन नो जायते दुःखं प्रियलोपसमुद्भवम् ॥
न दारिद्यं न च व्याधिर्न च शत्रुपराभवः
॥१९७॥अथोवाच स मां भूयः सोत्सुकः पुरुषोत्तमः ॥
प्रश्नभारः समाख्यातस्त्वया मम द्विजोत्तम
॥१९८॥न चैतच्छक्यते वक्तुं विमाने समुपस्थिते ॥
विस्तरात्तु ततो वच्मि संक्षेपेण तव द्विज
॥१९९॥शैवः षडक्षरो मन्त्रो नृणामशुभहारकः ॥
स त्वया शक्तितो विप्र जपनीयो दिवानिशम्
॥२००॥ततः प्राप्स्यत्यसंदिग्धं यद्यद्वांछसि चेतसा ॥
स्वर्गं वा यदि वा मोक्षं विमुक्तः सर्वपातकैः
॥२०१॥मया हि सुमहत्पापं सर्वदा समनुष्ठितम् ॥
तत्रापि मंत्रमाहात्म्यात्प्राप्ता लोका महोदयाः
॥२०२॥एको दानानि सर्वाणि यच्छति श्रद्धयान्वितः ॥
षडक्षरं जपेन्मंत्रमन्यस्ताभ्यां समं फलम्
॥२०३॥सर्वतीर्थाभिषेकं च कुरुतेऽन्यो नरो द्विज ॥
षडक्षरं जपेन्मंत्रमन्यस्ताभ्यां समं फलम्
॥२०४॥चांद्रायणसहस्रं तु कुरुतेऽन्यो यथोचितम् ॥
षडक्षरं जपेदन्यो मंत्रं ताभ्यां समं फलम्
॥२०५॥वर्षास्वाकाशशायी च हेमंते सलिलाशयः ॥
पञ्चाग्निसाधको ग्रीष्मे यावद्वर्षशतं नरः
॥२०६॥अन्यः षडक्षरं मन्त्रं शुचिः श्रद्धासमन्वितः ॥
जपेदहर्निशं मर्त्यः फलं ताभ्यां समं स्मृतम्
॥२०७॥पितृपक्षे सदा चैको गयायां श्राद्धमाचरेत् ॥
अन्यः षडक्षरं मन्त्रं जपेत्ताभ्यां समं फलम्
॥२०८॥गोसहस्रं ददात्येकः कार्तिक्यां ज्येष्ठपुष्करे ॥
षडक्षरं जपेन्मंत्रमन्यस्ताभ्यां समं फलम्
॥२०९॥संनिहित्यां नरः स्नाति राहुग्रस्ते दिवाकरे ॥
एको अन्यस्तु जपेन्मन्त्रं षडर्णं तुल्यमेव तत्
॥२१०॥सोमे सोमग्रहेऽन्यस्तु सोमनाथं प्रपश्यति ॥
अन्यः षडक्षरं मन्त्रं जपेत्ताभ्यां समं फलम्
॥२११॥एकश्चण्डीश्वरं पश्येदयने चोत्तरे नरः ॥
अन्यः षडक्षरं मन्त्रं जपेत्ताभ्यां समं फलम्
॥२१२॥भृगुपातं पतेदेकः केदारं वीक्ष्य भक्तितः ॥
अन्यः षडक्षरं मंत्रं जपेत्ताभ्यां समं फलम्
॥२१३॥करीषं साधयेदन्यो दत्त्वा सर्वस्वमादितः ॥
षडक्षरं जपेन्मंत्रमन्यस्ताभ्यां समं फलम्
॥२१४॥सर्व संगपरित्यागं कृत्वैको ज्ञानमाप्नुयात् ॥
अन्यः षडक्षरं मन्त्रं जपेत्ताभ्यां समं फलम्
॥२१५॥एतत्ते परमं गुह्यं मया विप्र प्रकीर्तितम् ॥
नास्तिकाय न दातव्यं भक्तिहीनाय नैव च
॥२१६॥तथान्यदपि वक्ष्यामि हितबुद्ध्या द्विजोत्तम ॥
मम वाक्यं कुरुष्वाद्य यदीच्छसि परां गतिम्
॥२१७॥अहिंसा परमो धर्मः सर्ववेदे प्रकीर्तितः ॥
ब्राह्मणस्य विशेषेण तस्मात्सर्पवधं त्यज
॥२१८॥अहिंसकानि भूतानि यो हिनस्ति सुनिर्दयः ॥
स याति नरकं घोरं यावदाभूतसंप्लवम्
॥२१९॥चराचराणां भूतानामभयं यः प्रयच्छति ॥
सर्वदा सर्वसौख्याढ्यो जायते दिवि चेह च
॥२२०॥नास्ति भर्गसमो देवो नास्ति गंगासमा नदी ॥
नास्ति हिंसासमं पापं नास्ति धर्मो दयापरः
॥२२१॥अथाहमब्रुवं तं च तच्छ्रुत्वा तस्य जल्पितम् ॥
अहिंसालक्षणं धर्मं परलोकभयातुरः
॥२२२॥मन्यते वृद्धलोकानामेतद्वाक्यं श्रुतं मया ॥
भूपतेर्नेव दोषः स्याद्वने व्यापादितैर्मृगैः ॥
प्रवदंति तथा वैद्या वैद्यशास्त्रविचक्षणाः ॥
भवंति पुष्टिसंयुका मांसादाश्चिरजीविनः
॥२२४॥तदत्र विषये ब्रूहि परं निःश्रेयसं वचः ॥
सर्वं कर्तास्म्यसंदिग्धं तव वक्त्राद्विनिर्गतम्
॥२२५॥अथ मां स पुनः प्राह वद मैवं द्विजोत्तम ॥
मतमेतद साधूनां पापानां मांसगृद्धिनाम्
॥२२६॥अहो शोच्यतमा लोके पापात्मानः सुनिर्दयाः ॥
सर्वदोषाकरं मांसं मूढाः स्वादंति ये नराः
॥२२७॥न मांसमायुषो हेतुरारोग्यस्य बलस्य वा ॥
सर्वमेतदसत्यं स्याच्छ्रणुष्वाद्य निदर्शनम्
॥२२८॥मांसाशिनोऽपि दृश्यंते रोगार्ता दुर्बलास्तथा ॥
स्वल्पायुषश्च मत्वैवं मांसं वर्जय दूरतः
॥२२९॥अमांसादा अपि क्ष्मायां दृश्यंते रोगवर्जिताः ॥
चिरायुषश्च पीनांगास्त स्मान्मांसं विवर्जयेत्
॥२३०॥यो भक्षयति मांसानि सत्त्वानां जीवितैषिणाम् ॥
स याति नरकं घोरं तत्रस्थो भक्ष्यते च तैः
॥२३१॥न हि मांसं तृणात्काष्ठादुपलादपि जायते ॥
हते जंतौ भवेन्मांसं तस्मात्तत्परिवर्जयेत्
॥२३२॥एतदेव हि दृष्टांतं मांसस्य परिवर्जने ॥
यदंगं ह्रियते स्वं च कंटकेनापि विक्षतम्
॥२३३॥आत्मौपम्येन भूतानि तस्मात्सर्वाणि पंडितैः ॥
द्रष्टव्यानि न हिंस्यानि रक्षणीयानि शक्तितः
॥२३४॥हंता चैवानुमंता च विशस्ता क्रयविक्रयी ॥
संस्कर्ता चोपहर्ता च खादकश्चाष्ट घातकाः
॥२३५॥धनेन क्रयकृद्धंति भक्षणेन च खादकः ॥
घातको वधबंधाभ्यामित्यन्यस्त्रिविधो वधः
॥२३६॥कर्मणा मनसा वाचा यो हिनस्ति न किंचन ॥
स प्राप्नोति परं स्थानं जरा मरणवर्जितम्
॥२३७॥शाकमूलफलाहारो ब्रह्मचर्यपरायणः ॥
न तस्य फलमाप्नोति यदि हिंसापरो नरः
॥२३८॥एको वर्षशतं साग्रं तपस्तपति दुस्तरम् ॥
अहिंसानिरतो यस्तु तयोः श्रेष्ठो दयान्वितः
॥२३९॥यंयं कामयते कामं दुष्प्रापमपि मानवः ॥
तं तमाप्नोत्यसंदिग्धं यदि स्यात्सुदयान्वितः
॥२४०॥कामगेन विमानेन दिव्यस्त्रीशतसेवितः ॥
देववन्मोदते स्वर्गे सवभूताभयप्रदः
॥२४१॥एवमुक्त्वा महात्मा स पश्यतो मम सूतज ॥
विमानवरमारुह्य गतश्च त्रिदिवालयम्
॥२४२॥गन्धर्वैर्गीयमानस्तु स्तूयमानश्च किन्नरैः ॥
षडक्षरस्य मंत्रस्य माहात्म्ये न महामते
॥२४३॥तस्मिन्गते तदा स्वर्गं दुःखं मे समुपस्थितम् ॥
स्मृत्वा पूर्वं हतान्सर्पान्भग्नगात्रोऽभवं तदा
॥२४४॥ततोऽहं कृतवांस्तत्र विप्रलापाननेकशः ॥
स्वकर्मभयसंत्रस्तस्तस्मिन्नेव महावने
॥२४५॥अहो मया नृशंसेन बहवः प्राणिनो हताः ॥
निन्दितश्च महादेवो नर कार्तिर्भविष्यति
॥२४६॥सोऽहं हिंसां परित्यज्य चरिष्यामि महत्तपः ॥
शिवदीक्षां समासाद्य पूजयिष्ये महेश्वरम्
॥२४७॥यत्किंचित्त्रिषु लोकेषु प्रार्थयंति नराः सुखम् ॥
तत्सर्वं तपसा साध्यं तस्मात्कार्यं मया तपः
॥२४८॥अधुनैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ ॥
चरन्भैक्षं मुनिर्मौनी चरिष्याम्याश्रमानिमान्
॥२४९॥पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः ॥
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः
॥२५०॥एवं विलप्य यत्नेन मया सूतकुलोद्वह ॥
गृहीतं भक्तियुक्तेन शिवदीक्षाव्रतं ततः
॥२५१॥षडक्षरस्य मंत्रस्य अयुतं प्रजपाम्यहम् ॥
त्रिसन्ध्यं श्रद्धया युक्तः सिद्धेश्वरसमीपतः
॥२५२॥तत्प्रभावेन मे स्थैर्यं संजातं यौवनोद्भवम् ॥
तथा लोकातंरज्ञानं खेचरत्वं च सूतज
॥२५३॥सिद्धेश्वरं प्रयास्यामि द्वापरांते ह्यवस्थिते ॥
सदाशिवं प्रयास्यामि सत्यमेतन्मयोदितम्
॥२५४॥एतत्ते सर्वमाख्यातं मया सूतज मोक्षदम् ॥
षडक्षरस्य माहात्म्यं सर्वपापप्रणाशनम्
॥२५५॥यश्चैतच्छृणुयान्नित्यं सम्यक्छ्रद्धासमन्वितः ॥
आजन्ममरणात्पापात्सोऽपि मुच्येत मानवः
॥२५६॥तस्मात्त्वं हि महाभाग मन्त्रमेनं सदा जप ॥
संप्राप्स्यसि परान्कामान्मनसा वांछितान्सदा
॥२५७॥सूत उवाच
एतच्छ्रुतं मया पूर्वं सकाशात्तस्य सद्गुरोः ॥
षडक्षरस्य माहात्म्यं यद्युष्माकं प्रकीर्तितम्
॥२५८॥धन्यं यशस्यमायुष्यं शत्रुपक्षक्षयावहम् ॥
पठतां शृण्वतां नित्यं सर्वकामाभयप्रदम्
॥२५९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये षडक्षरमन्त्रमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनामैकोनत्रिंशोऽध्यायः ॥ २९ ॥