मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ५३

3
नागरखण्डः · 53

भ्रूणगर्तामाहात्म्यवर्णनम्

सूत उवाच

तत्रैवोज्जयनीपीठमस्ति कामप्रदं नृणाम् ॥

प्रभूताश्चर्यसंयुक्तं बहुसिद्धनिषेवितम्

॥१॥

यस्य मध्यगतो नित्यं स्वयमेव महेश्वरः ॥

महाकालस्वरूपेण स तिष्ठति द्विजोत्तमाः

॥२॥

वैशाख्यां यो नरस्तत्र कृत्वा श्राद्धं समाहितः ॥

ततः पश्यति देवेशं महाकाल इति स्मृतम् ॥

पूजयेद्दक्षिणां मूर्तिं समाश्रित्य द्विजोत्तमाः

॥३॥

दश पूर्वान्दशातीतानात्मानं च द्विजोत्तमाः ॥

पुरुषान्स समुद्धृत्य शिवलोके महीयते

॥४॥

यो यं काममभिध्याय तत्र पीठं प्रपूजयेत् ॥

संपूज्य योगिनीवृंदं कन्यकावृन्दमेव च

॥५॥

स तत्कृत्स्नमवाप्नोति यदपि स्यात्सुदुर्लभम् ॥

तत्र वैशाखमासस्य पौर्णमास्यां समाहितः

॥६॥

श्रद्धायुक्तो नरो यो वा उपवासपरः शुचिः ॥

करोति जागरं तस्य पुरतः श्रद्धयान्वितः ॥

स याति परमं स्थानं जरामरणवर्जितम्

॥७॥

किं व्रतैः किं वृथा दानैः किं जपैर्नियमेन वा ॥

महाकालस्य ते सर्वे कलां नार्हंति षोडशीम्

॥८॥

सूत उवाच

तत्रैवास्ति महाभागा भ्रूणगर्तेति विश्रुता ॥

गर्ता सुविपुलाकारा सर्वपातकनाशिनी

॥९॥

ब्रह्महत्याविनिर्मुक्तः सौदासो यत्र पार्थिवः ॥

स्त्रीहत्यया विनिर्मुक्तः सुषेणो वसुधाधिपः

॥१०॥

ऋषय ऊचुः

ब्रह्महत्या कथं तस्य सौदासस्य महीपतेः ॥

ब्रह्मण्यस्यापि संजाता तदस्माकं प्रकीर्तय

॥११॥

श्रूयते स महीपालो ब्राह्मणानां हिते रतः ॥

कर्मणा मनसा वाचा ब्रह्मघ्नः सोऽभवत्कथम्

॥१२॥

विमुक्तश्च कथं भूयो भ्रूणगर्तामुपाश्रितः ॥

सापि गर्ता कथं जाता सर्वं नो वद विस्तरात्

॥१३॥

सूत उवाच

यदा लिंगस्य पातोऽभूद्देवदेवस्य शूलिनः ॥

तदा स लज्जयाविष्टो लिंगाभावाद्द्विजोत्तमाः

॥१४॥

कृत्वाऽतिविपुलां गर्तां प्रविवेश ततः परम् ॥

न कस्यचित्तदात्मानं दर्शयामास शूलधृक्

॥१५॥

एवं सा तत्र संजाता गर्ता ब्राह्मणसत्तमाः ॥

यथा तस्यां विपाप्माभूत्सौ दासस्तद्वदाम्यहम्

॥१६॥

आसीन्मित्रसहोनाम राजा परमधार्मिकः ॥

सौदासस्तत्सुतः साक्षात्सूर्यवंशसमुद्भवः

॥१७॥

तेनेष्टं विपुलैर्यज्ञैः सुवर्णवरदक्षिणैः ॥

असंख्यातानि दानानि प्रदत्तानि महात्मना

॥१८॥

कस्यचित्त्वथ कालस्य सत्रे द्वादशवार्षिके ॥

वर्तमाने यथान्यायं विधिदृष्टेन कर्मणा

॥१९॥

क्रूराक्षः क्रूरबुद्धिश्च राक्षसौ बलवत्तरौ ॥

यज्ञविघ्नाय संप्राप्तौ संप्राप्ते रजनीमुखे

॥२०॥

राक्षसैर्बहुभिः सार्धं तथान्यैर्भूतसंज्ञितैः ॥

पिशाचैश्च दुराधर्षैर्यज्ञविध्वंसतत्परैः

॥२१॥

अथ ते राक्षसाः सर्वे किंचिच्छिद्रमवेक्ष्य च ॥

विविशुर्यज्ञवाटं तं प्रसर्पन्तः समंततः

॥२२॥

निघ्नन्तो ब्राह्मणश्रेष्ठान्भक्षयन्तो हवींषि च ॥

तथा यानि विचित्राणि यज्ञार्थे कल्पितानि च

॥२३॥

एतस्मिन्नंतरे तत्र हाहाकारो महानभूत् ॥

भक्ष्यमाणेषु विप्रेषु राक्षसैर्बलवत्तरैः

॥२४॥

ततो मैत्रसहिः क्रुद्धस्त्यक्त्वा दीक्षाव्रतं नृपः ॥

आदाय सशरं चापं ध्वंसयामास वीक्ष्य तान्

॥२५॥

कृतरक्षो वसिष्ठेन स्वयमेव पुरोधसा ॥

क्रूराक्षं सूदयामास राक्षसैर्बहुभिः सह

॥२६॥

क्रूरबुद्धिरथो वीक्ष्य हतं श्रेष्ठं सहोदरम् ॥

तं च पार्थिवशार्दूलमगम्यं ब्रह्मतेजसा

॥२७॥

हतशेषान्समादाय राक्षसान्बलसंयुतः ॥

पलायनं भयाच्चक्रे क्षतांगस्तस्य सायकैः

॥२८॥

ततस्तद्वैरमाश्रित्य भ्रातुर्ज्येष्ठस्य राक्षसः ॥

छिद्रमन्वेषयामास तद्वधाय दिवानिशम्

॥२९॥

एवं सवीक्षमाणस्य तस्य च्छिद्रं महात्मनः ॥

समाप्तिमगमद्विप्राः सत्रं तद्द्वादशाब्दिकम्

॥३०॥

न सूक्ष्ममपि संप्राप्तं छिद्रं तेन दुरात्मना ॥

वसिष्ठविहिता रक्षा सत्रे तस्य महीपतेः

॥३१॥

अथासौ ब्राह्मणान्सर्वान्विसृज्याहितदक्षिणान् ॥

कृतांजलिपुटो भूत्वा वसिष्ठमिदमब्रवीत्

॥३२॥

स्वहस्तेन गुरोद्याहं त्वां भोजयितुमुत्सहे ॥

क्रियतां तत्प्रसादो मे भुक्त्वाद्य मम मन्दिरे

॥३३॥

सूत उवाच

स तथेति प्रतिज्ञाय वसिष्ठो मुनिसत्तमः ॥

क्षालितांघ्रिः स्वयं तेन निविष्टो भोजनाय वै

॥३४॥

कूरबुद्धिरथो वीक्ष्य तदर्थं चामिषं शुभम् ॥

सुसंस्कृतं विधानेन सूपकारैर्द्विजोत्तमाः

॥३५॥

उखां कृत्वा ततस्तादृक्तत्प्रमाणामतर्किताम् ॥

महामांसाभृतां कृत्वा तां जहारामिषान्विताम्

॥३६॥

अथासौ मुनिशार्दूलो भुंजानो बुबुधे हि तत् ॥

महामांसमिति क्रुद्धस्तत्र प्रोवाच मन्युमान्

॥३७॥

महामांसाशनं यस्मात्कारितोऽहं त्वयाधम ॥

रक्षोवद्राक्षसस्तस्मात्त्वमद्यैव भविष्यसि

॥३८॥

ततः संशोधयामास तस्य मांसस्य चागमम् ॥

निपुणं सूपकारांस्तान्दृष्ट्वा राजा पृथक्पृथक्

॥३९॥

तेऽब्रुवन्नैतदस्माभिः श्रपितं मांसमीदृशम् ॥

श्रद्धीयतां महीपाल नान्येन मनुजेन वा

॥४०॥

राक्षसं वा पिशाचं वा दानवं वा विना विभो ॥

एतज्ज्ञात्वा ततो नाथ यद्युक्तं तत्समाचर

॥४१॥

एतस्मिन्नंतरे तस्य नारदो मुनिसत्तमः ॥

समागत्याब्रवीत्सर्वं तद्राक्षसविचेष्टितम्

॥४२॥

. तच्छ्रुत्वा कोपमापन्नः स राजा शप्तुमुद्यतः ॥

वसिष्ठं स्वकरे कृत्वा जलं सौदासभूपतिः ॥

शापोद्यतं च तं दृष्ट्वा नारदो वाक्यमब्रवीत्

॥४३॥

निघ्नन्तो वा शपन्तो वा द्विषन्तो वा द्विजातयः ॥

नमस्कार्या महीपाल तथापि स्वहितेच्छुना ॥

गुरुरेष पुनर्मान्यस्तव पार्थिवसत्तम

॥४४॥

तस्मान्नार्हसि शप्तुं त्वं प्रतिशापेन सन्मुनिम् ॥

निषिद्धः स तथा भूपस्ततस्तत्सलिलं करात् ॥

पादयोः कृत्स्नमुपरि प्रमुमोच ततः परम्

॥४५॥

अथ तौ चरणौ तस्य तप्त शापोदकप्लुतौ ॥

दग्धौ कृष्णत्वमापन्नौ तत्क्षणाद्द्विजसत्तमाः

॥४६॥

कल्माषपाद इत्युक्तस्ततःप्रभृति स क्षितौ ॥

भूपालो द्विजशार्दूला ना्म्ना तेन विशेषतः

॥४७॥

सूत उवाच

एतस्मिन्नंतरे विप्रो वसिष्ठो लज्जयान्वितः ॥

ज्ञात्वा दत्तं वृथा शापं तस्य भूमिपतेस्तदा

॥४८॥

उवाच व्यर्थः शापोऽयं तव दत्तो मया नृप ॥

न च मे जायते वाक्यमसत्यं हि कथंचन

॥४९॥

तस्मात्त्वं राक्षसो भूत्वा कञ्चित्कालं नृपो त्तम ॥

स्वरूपं लप्स्यसे भूयो यस्मिन्काले शृणुष्व तम्

॥५०॥

यदा त्वं क्रूरबुद्धिं तं राक्षसं निहनिष्यसि ॥

तदा त्वं लप्स्यसे मोक्षं राक्षसत्वात्सुदारुणात्

॥५१॥

सूत उवाच

एतस्मिन्नन्तरे राजा यातुधानो बभूव सः ॥

ऊर्ध्वकेशो महाकायः कृष्णदन्तो भया नकः

॥५२॥

ततो जघान विप्रेन्द्रान्राक्षसं भावमाश्रितः ॥

यज्ञान्विध्वंसयामास मुनीनामाश्रमानपि

॥५३॥

कस्यचित्त्वथ कालस्य क्रूर बुद्धिः स राक्षसः ॥

ज्ञात्वा तं राक्षसीभूतमेकदाऽऽयुधवर्जितम्

॥५४॥

भ्रातुर्वधकृतं वैरं स्मरमाणस्ततः परम् ॥

तद्वधार्थं समायातो राक्षसैर्बहुभिर्वृतः

॥५५॥

ततस्तं वेष्टयित्वापि समंताद्राक्षसो नृपम् ॥

प्रोवाच वचनं क्रुद्धो नादेनापूरयन्दिशः

॥५६॥

त्वया यो निहतोऽस्माकं ज्येष्ठो भ्राता सुदुर्मते ॥

वसिष्ठस्य बलाद्यज्ञे तस्याद्य फलमाप्नुहि

॥५७॥

राजोवाच

यद्ब्रवीषि दुराचार कर्मणा तत्समाचर ॥

शारदस्येव मेघस्य गर्जितं तव निष्फलम्

॥५८॥

एवमुक्त्वा समादाय ततो वृक्षं स पार्थिवः ॥

प्राद्रवत्संमुखं तस्य गर्जमानो यथा घनः

॥५९॥

सोऽपि वृक्षं समुत्पाट्य क्रोधसंरक्तलोचनः ॥

त्रिशंखां भृकुटीं कृत्वा तस्याप्यभिमुखं ययौ

॥६०॥

एवं द्वावपि तौ शूरौ वृक्षयुद्धं महाबलौ ०।

कृतवन्तौ वने तत्र बहुवृक्षक्षयावहम्

॥६१॥

अथ तं श्रांतमालोक्य कूरबुद्धिं महीपतिः ॥

प्रगृह्य पादयोर्वेगाद्भ्रामयामास पुष्करे

॥६२॥

ततश्चास्फोटयामास भूमौ कोपसमन्वितः ॥

चक्रे चामिषखण्डं स पिष्ट्वापिष्ट्वा मुहुर्मुहुः

॥६३॥

तस्मिंस्तु निहते शूरे राक्षसे स महीपतिः ॥

राक्षसत्वाद्विनिर्मुक्तो लेभे कायं नृपोद्भवम्

॥६४॥

ततस्ते राक्षसाः शेषाः समंतात्तं महीपतिम् ॥

परिवार्य महावृक्षैर्जघ्नुः पाषाणवृष्टिभिः

॥६५॥

ततस्तानपि भूपालो जघान प्रहसन्निव ॥

वृक्षहस्तस्तु विश्रब्धो लीलया द्विजसत्तमाः

॥६६॥

ततश्च स्वपुरं प्राप्तः संप्रहृष्टतनूरुहः ॥

राक्षसानां वधं कृत्वा लब्ध्वा देहं पुरातनम्

॥६७॥

ततस्तं तेजसा हीनं दुर्गंधेन समावृतम् ॥

ब्रह्महत्योद्भवैश्चिह्नैरन्यैरपि पृथग्विधैः

॥६८॥

दृष्ट्वा ते मंत्रिणस्तस्य पुत्र पौत्रास्तथा परे ॥

नोपसर्पंति भूपालं पापस्पर्शभयान्विताः

॥६९॥

ऊचुश्च पार्थिवश्रेष्ठ न त्वमर्हसि संगमम् ॥

कर्तुं सार्धमिहास्माभिर्ब्रह्महत्या न्वितो यतः

॥७०॥

तस्माद्वसिष्ठमाहूय प्रायश्चित्तं समाचर ॥

अशुद्धं शुद्धिमायाति येन गात्रमिदं तव

॥७१॥

ततः स पार्थिवस्तूर्णं वसिष्ठं मुनिपुंगवम् ॥

समाहूयाब्रवीद्वाक्यं दूरस्थो विनयान्वितः

॥७२॥

तव प्रसादतो विप्र स हतो राक्षसो मया ॥

मुक्तशापोऽस्मि संजातः परं शृणु वचो मुने

॥७३॥

मम गात्रात्सुदुर्गंधः समुद्गच्छति सर्वतः ॥

भाराक्रांतानि गात्राणि सर्वाण्येवाचलानि च

॥७४॥

तत्किमेतद्द्विजश्रेष्ठ तेजो हानिरतीव मे ॥

मंत्रिणोऽपि तथा पुत्रा न स्पृशंति यतोऽद्य माम्

॥७५॥

वसिष्ठ उवाच

राक्षसत्वं प्रपन्नेन त्वया पार्थिवसत्तम ॥

ब्राह्मणा बहवो ध्वस्तास्तथा विध्वंसिता मखाः ॥

तेषां त्वं पार्थिवश्रेष्ठ संस्पृष्टो ब्रह्महत्यया

॥७६॥

राजोवाच

तदर्थं देहि मे विप्र प्रायश्चित्तं विशुद्धये ॥

येन निर्मुक्तपापोऽहं राज्यं प्राप्नोमि चात्मनः

॥७७॥

वसिष्ठ उवाच

अत्रार्थे तीर्थयात्रां त्वं कुरु पार्थिव सत्तम ॥

निर्ममो निरहंकारस्ततः सिद्धिमवाप्स्यसि

॥७८॥

ततः स पार्थिवश्रेष्ठः संयतात्मा जितेंद्रियः ॥

प्रयागादिषु तीर्थेषु स्नानं चक्रे समा हितः

॥७९॥

न नश्यति स दुर्गंधो न च तेजः प्रवर्धते ॥

न कायो लघुतां याति नालस्येन विमुच्यते

॥८०॥

ततः संभ्रममाणश्च कदाचि द्द्विजसत्तमाः ॥

चमत्कारपुरे क्षेत्रे स्नानार्थं समुपागतः

॥८१॥

सुश्रांतः क्षुत्पिपासार्तो निशीथे तमसावृते ॥

गर्तायां पतितोऽकस्मात्पूर्णायां पयसा नृपः

॥८२॥

कृच्छ्रात्ततो विनिष्क्रांतस्तीर्थात्तस्मान्महीपतिः ॥

यावत्पश्यति चात्मानं द्वादशार्कसमप्रभम्

॥८३॥

दुर्गंधेन परित्यक्तं सोद्यमं लघुतां गतम् ॥

दृष्ट्वा च चिंतयामास नूनं मुक्तोऽस्मि पातकात्

॥८४॥

एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥

हर्षयन्ती महीपालं विमुक्तं ब्रह्महत्यया

॥८५॥

विमुक्तोऽसि महाराज सांप्रतं पूर्वपातकैः ॥

तीर्थस्यास्य प्रभावेन तस्माद्गच्छ निजं गृहम्

॥८६॥

अत्र संनिहितो नित्यं भ्रूणरूपेण शंकरः ॥

कृष्णपक्षे विशेषेण चतुर्दश्यां महीपते

॥८७॥

यदा प्रपतितं लिंगं देवदेवस्य शूलिनः ॥

द्विजशापेन गर्तैषा तदानेन विनिर्मिता

॥८८॥

लज्जितेन स्ववासार्थं महद्दुःखयुतेन च ॥

सतीवियोगयुक्तेन भ्रूणत्वं प्रगतेन च

॥८९॥

सर्वपापहरा तेन गर्तेयं पृथि वीपते ॥

भ्रूणगर्तेति विख्याता तस्य नामा जगत्त्रये

॥९०॥

सूत उवाच

एवमुक्त्वाथ सा वाणी विररामांऽतरिक्षगा ॥

सोऽपि पार्थिवशार्दूलः प्रहृष्टः स्वपुरं ययौ

॥९१॥

ततस्तं पापनिर्मुक्तं तेजसा भास्करोपमम् ॥

दृष्ट्वा पुत्रास्तथा मर्त्याः प्रणेमुस्तुष्टिसंयुताः

॥९२॥

सोऽपि ब्राह्मणशार्दूलो वसिष्ठस्तं महीपतिम् ॥

समभ्येत्य ततः प्राह हर्षगद्गदया गिरा

॥९३॥

दिष्ट्या मुक्तोसि राजेंद्र पापाद्ब्रह्मवधोद्भवात् ॥

दिष्ट्या त्वं तेजसा युक्तः पुनः प्राप्तो निजं पुरम्

॥९४॥

तस्मात्कीर्तय भूपाल कस्मिंस्तीर्थे समागतः ॥

त्वं मुक्तः पातकाद्घोराद्ब्रह्महत्यासमुद्भवात्

॥९५॥

ततः स कथयामास भ्रूणगर्तासमुद्भवम् ॥

वृत्तांतं तस्य विप्रर्षेरनुभूतं यथा तथा

॥९६॥

ततस्ते मंत्रिणो वृद्धाः स च राजा मुनीश्वरः ॥

पुत्रं प्रतर्दनंनाम राज्ये संस्थाप्य तत्क्षणात्

॥९७॥

भ्रूणगर्तां समासाद्य तामेव द्विजसत्तमाः ॥

तपश्चेरुर्महादेवं ध्यायमाना दिवा निशम्

॥९८॥

गताश्च परमां सिद्धिं कालेनाल्पेन दुर्लभाम् ॥

भ्रूणरूपधरं देवं पूजयित्वा महेश्वरम्

॥९९॥

ततःप्रभृति सा गर्ता प्रख्याता धरणीतले ॥

भ्रूणगर्तेति विप्रेंद्राः सर्वपातकनाशिनी

॥१००॥

तत्र कृष्णचतुर्दश्यां यः श्राद्धं कुरुते नरः ॥

स पितॄंस्तारयेन्नूनं दश पूर्वान्दशा परान्

॥१०१॥

तस्मात्सर्वप्रयत्नेन तत्र श्राद्धं समाचरेत् ॥

स्नानं च ब्राह्मणश्रेष्ठा दानं वापि स्वशक्तितः

॥१०२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये भ्रूणगर्तामाहात्म्यवर्णनंनाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥