मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १२७

3
नागरखण्डः · 127

कर्णोत्पलातीर्थमाहात्म्यवर्णनम्

ऋषय ऊचुः

या सा कर्णोत्पलानाम त्वयास्माकं प्रकीर्तिता ॥

किञ्चिज्जलाश्रयं प्राप्य तपस्तपति संस्थिता ॥

तस्याः सर्वं समाचक्ष्व यथा तपसि सा स्थिता

॥१॥

सूत उवाच

गौरीपादकृतस्थाना श्रद्धया परया युता ॥

तावत्तुष्टिं गता देवी गिरिजा शंकरप्रिया

॥२॥

ततः प्रोवाच ते पुत्रि तुष्टाहं वांछितं वद ॥

येन यच्छाम्यसंदिग्धं यद्यपि स्यात्सुदुर्लभम्

॥३॥

कर्णोत्पलोवाच

मम पत्युः कृते देवि मम तातः सुदुःखितः ॥

राज्याद्भ्रष्टः सुखाच्चापि कुटुंबेन विवर्जितः ॥

ततश्चैव तपस्तेपे वैराग्यं परमं गतः ॥

अहं वार्द्धक्यमापन्ना कौमार्येऽपि च संस्थिता

॥५॥

तस्माद्भवतु मे भर्त्ता कश्चिद्रूपोत्कटः स्मृतः ॥

सर्वेषां देवमर्त्यानां त्वत्प्रसादात्सुरेश्वरि

॥६॥

तथा स्यात्परमं रूपं तारुण्यं त्वत्प्रसादतः ॥

यथास्य जायते सौख्यं तापसस्यापि मे पितुः

॥७॥

देव्युवाच

माघमासतृतीयायां शनैश्चरदिने शुभे ॥

नक्षत्रे वसुदैवत्ये रूपं ध्यात्वाथ यौवनम्

॥८॥

त्वया स्नानं प्रकर्तव्यं सुपुण्येऽत्र जलाशये ॥

ततो दिव्य वपुर्भूत्वा यौवनेन समन्विता।

भविष्यसि न संदेहः सत्यमेतन्मयोदितम्

॥९॥

अन्यापि या महाभागे नारी स्नानं करिष्यति ॥

तस्मिन्नहनि साप्येवं रूपयुक्ता भविष्यति ॥

सूत उवाच ॥

एवमुक्त्वाथ सा देवी गता चादर्शनं ततः ॥

सापि चान्वेषयामास तृतीयां शनिना सह

॥११॥

वसुदेवात्मकेनैव नक्षत्रेण प्रयत्नतः ॥

ध्यायमाना च तां देवीं सर्वकामप्रदायिनीम्

॥१२॥

ततः कतिपयाहस्य जाता सा योगसंयुता ॥

तृतीया या यथोक्ता च तया देव्या पुरा द्विजाः

॥१३॥

ततः सा रूपसौभाग्यं यौवनं वांछितं पतिम् ॥

ध्यायमाना जले तस्मिन्नर्द्धरात्रे विवेश च

॥१४॥

ततो दिव्यवपुर्भूत्वा यौवनेन समन्विता ॥

निष्क्रांता सलिलात्तस्माज्जनविस्मयकारिणी

॥१५॥

एतस्मिन्नंतरे प्राप्तो गौरीवाक्यप्रबोधितः ॥

तदर्थं भगवान्कामः पत्न्यर्थं प्रीतिसंयुतः ॥

अब्रवीच्च महाभागे कामोहं स्वयमागतः

॥१६॥

पार्वत्यादेशिता भार्या तस्मान्मे भव मा चिरम्

॥१७॥

यस्मात्प्रीत्या समायातस्तवांतिकमहं शुभे ॥

तस्मात्प्रीतिरिति ख्याता मम भार्या भविष्यसि

॥१८॥

कर्णोत्पलोवाच

यद्येवं स्मर मत्तातं तं गत्वा प्रार्थय स्वयम् ॥

स्वच्छंदा स्याद्यतः कन्या न कथंचित्प्रवर्तिता

॥१९॥

य एष दृश्यते रम्यः प्रासादो नाति दूरतः ॥

अस्यांते तिष्ठतेऽस्माकं तातस्तपसि संस्थितः

॥२०॥

अत्राहं पूर्वतो गत्वा तस्य तिष्ठामि चांतिके ॥

भवानागत्य पश्चाच्च प्रार्थयिष्यति मां ततः

॥२१॥

बाढमित्येव कामोक्ते गता सा तत्समीपतः ॥

प्रणिपत्य ततः प्राह दिष्ट्या तात मया पुनः

॥२२॥

संप्राप्तं यौवनं कांतं समाराध्य हरप्रियाम् ॥

तस्मात्कुरु विवाहं मे हृत्स्थं सुखमवाप्नुहि

॥२३॥

मदर्थे प्रेषितो भर्त्ता तया देव्याऽतिसुन्दरः ॥

पुष्प चापः स्वयं प्राप्तः सोऽपि तात तवांतिकम्

॥२४॥

अथ तां स समालोक्य स्वां सुतां यौवनान्विताम् ॥

हर्षेण महता युक्तां कांतयुक्तां विशेषतः ॥

अब्रवीदद्य मे पुत्रि संजातं तपसः फलम्

॥२५॥

जीवितस्य च कल्याणि यत्वं प्राप्ता नवं वयः ॥

भर्तारं च तथाभीष्टं देव्या दत्तं मनोभवम्

॥२६॥

एतस्मिन्नंतरे कामस्तस्यांतिकमुपाद्रवत् ॥

अब्रवीद्देहि मे भूप स्वां कन्यां चारुहासिनीम्

॥२७॥

अस्या अर्थेऽहमादिष्टः स्वयं गौर्या नृपोत्तम ॥

कामदेव इति ख्यातस्त्रैलोक्यं येन मोहितम्

॥२८॥

ततस्तामर्पयामास तां कन्यां स महीपतिः ॥

कृत्वाग्निं साक्षिणं वाक्याद्ब्राह्मणानां द्विजोत्तमाः

॥२९॥

सा चास्य चाभवत्प्रीतिस्थानं यस्मात्सुलोचना ॥

रतेरनंतरा तस्मात्प्रीतिनामाऽभवच्छुभा

॥३०॥

एवं तया तपस्तप्तं तस्मात्तत्र जलाशये ॥

तन्नाम्ना ख्यातिमायातं समस्तेऽत्र महीतले

॥३१॥

सकलं माघमासं च या स्त्री स्नानं समाचरेत् ॥

पुमान्वा प्रातरुत्थाय स प्रयागफलं लभेत्

॥३२॥

रूपवाञ्जायते दक्षः सदा जन्मनि जन्मनि ॥

न वियोगमवाप्नोति कदात्रिद्बांधवैः सह

॥३३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कर्णोत्पलातीर्थमाहात्म्यवर्णनं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥ १२७ ॥