मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १६९

3
नागरखण्डः · 169

कस्मात्सा तुष्टिदा प्रोक्ता नागराणां विशेषतः

ऋषय ऊचुः

कस्मात्सा तुष्टिदा प्रोक्ता नागराणां विशेषतः ॥

धारानामेति विख्याता कस्मात्सा धरणीतले

॥१॥

सूत उवाच

चमत्कारपुरे पूर्वं धारानामेति विश्रुता ॥

आसीत्तपस्विनी साध्वी नागरी ब्राह्मणोत्तमा ॥

तस्याः सख्यमरुन्धत्या आसीत्पूर्वं सुमेधया

॥२॥

अरुन्धती यदा प्राप्ता चमत्कारपुरे शुभे ॥

स्नानार्थं शंखतीर्थं तु वसिष्ठेन समागता

॥३॥

तया दृष्टाथ सा तत्र अंगुष्ठाग्रेण संस्थिता ॥

वायुभक्षा निराहारा दिव्येन वपुषान्विता

॥४॥

तया पृष्टा च सा साध्वी का त्वं कस्य सुता शुभे ॥

किमर्थं तु स्थिता चोग्रे तपसि ब्रूहि मे शुभे

॥५॥

धारोवाच

देवशर्माख्यविप्रस्य सुताहं नागरस्य च ॥

बालत्वे वर्तमानाया वैधव्यं मे व्यवस्थितम्

॥६॥

शंखतीर्थस्य माहात्म्यं श्रुत्वा शंखेश्वरस्य च ॥

ततोऽहं संस्थिता ह्यत्र तस्यैवाराधने स्थिता

॥७॥

अरुन्धत्युवाच

तवोपरि महान्स्नेहो दर्शनात्ते व्यवस्थितः ॥

तस्मादागच्छ गच्छावो ममाश्रमपदं शुभम्

॥८॥

सरस्वत्या स्तटे शुभ्रे सर्वपातकनाशने ॥

शास्त्रगोष्ठीरता नित्यं तत्र तिष्ठ मया सह

॥९॥

ततः संप्रस्थिता सा तु तया सार्धं तपस्विनी ॥

अनुज्ञाता स्वपित्रा तु जनन्या बांधवैस्तथा

॥१०॥

तस्याः सख्यं चिरं कालं तया सह बभूव ह ॥

कस्यचित्त्वथ कालस्य सा शक्तिस्तत्र चागता

॥११॥

विश्वामित्रेण संसृष्टा वसिष्ठस्य वधाय च ॥

सा स्तंभिता वसिष्ठेन कृता देवीस्वरूपिणी ॥

संपूज्या देवमर्त्यानां सर्वरक्षाप्रदा शुभा

॥१२॥

ततस्तु धारया तस्याः कैलासशिखरोपमः ॥

प्रासादो निर्मितो विप्रा नानारत्नविचित्रितः

॥१३॥

चकाराथ ततः स्तोत्रं तस्याः सा च तपस्विनी

॥१४॥

नमस्ते परमे ब्राह्मि धारयोगे नमोनमः ॥

अर्धमात्रे परे शून्ये तस्यार्धार्धे नमोस्तु ते

॥१५॥

नमस्ते जगदाधारे नमस्ते भूतधारिणि ॥

नमस्ते पद्मपत्राक्षि नमस्ते कांचनद्युते

॥१६॥

नमस्ते सिंहयानाढ्ये नमस्तेऽस्तुमहाभुजे ॥

नमस्ते देवताभीष्टे नमस्ते दैत्यसूदिनि

॥१७॥

नमस्ते महिषाक्रांतशरीरच्छिन्नमस्तके ॥

नमस्ते विंध्यनिरते सुरामांसबलिप्रिये

॥१८॥

त्वं लक्ष्मीस्त्वं शची गौरी त्वं सिद्धिस्त्वं विभावरी ॥

त्वं स्वाहा त्वं स्वधा तुष्टिस्त्वं पुष्टिस्त्वं सुरेश्वरी

॥१९॥

शक्तिरूपासि देवि त्वं सृष्टिसंहारका रिणी ॥

त्वयि दृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्

॥२०॥

यथा तिलेस्थितं तैलं दधिसंस्थं यथा घृतम् ॥

हविर्भुजश्च काष्ठस्थः सुगुप्तं लभ्यते न हि

॥२१॥

तथा त्वमपि देवेशि सर्वगापि न लक्ष्यसे

॥२२॥

सूत उवाच

एतेन स्तोत्रमुख्येन स्मृता सा परमेश्वरी ॥

बहूनि वर्ष पूगानि पूजयंत्या दिनेदिने

॥२३॥

कस्यचित्त्वथ कालस्य चैत्रशुक्लाष्टमी सिता ॥

तस्मिन्नहनि देवी सा नद्यां संस्नाप्य पूजिता

॥२४॥

बलि पूजां ततो दत्त्वा स्तोत्रेणानेन च स्तुता ॥

ततः प्रत्यक्षतां गत्वा तामुवाच तपस्विनीम्

॥२५॥

पुत्रि तुष्टास्मि भद्रं ते स्तोत्रेणानेन चानघे ॥

वरं वरय भद्रं ते तव दास्यामि वांछितम्

॥२६॥

धारोवाच

यदि तुष्टासि मे देवि यदि देयो वरो मम ॥

तन्मे नाम तवाप्यस्तु प्रासादेऽत्र हि केवलम्

॥२७॥

अपरं नागरो योऽत्र त्वस्मिन्नहनि संस्थिते ॥

प्रदक्षिणात्रयं कृत्वा तव दत्त्वा फलत्रयम्

॥२८॥

स्तोत्रेणानेन भवतीं स्तुत्वा च कुरुते नतिम् ॥

तस्य संवत्सरं यावद्रोगो रक्ष्यस्त्वयाऽखिलः

॥२९॥

या च वंध्या भवेन्नारी सा भूयात्पुत्रसंयुता ॥

दुर्भगा च ससौभाग्या कुरूपा रूपसंभवा ॥

रोगिणी रोगनिर्मुक्ता सर्वसौख्यसमन्विता

॥३०॥

देव्युवाच

अहं धारेति विख्याता प्रासादेऽत्र त्वया कृते ॥

भविष्यामि न सन्देहस्तव कीर्तिकृते सदा

॥३१॥

अत्र यो नागरो भक्त्या समागत्य तपस्विनि ॥

प्रदक्षिणात्रयं कुर्याद्दत्त्वा मम फलत्रयम्

॥३२॥

सोऽपि संवत्सरं यावद्भविता रोगवर्जितः ॥

एवमुक्ता तु सा देवीततश्चादर्शनं गता

॥३३॥

धारापि संस्थिता तत्र अरुन्धत्या समन्विता ॥

अद्यापि दृश्यते व्योम्नि तस्याश्चापि समीपगा

॥३४॥

एतद्धारोद्भवं योऽत्र वृत्तांतं कीर्तयिष्यति ॥

शृणुयाद्वा द्विजश्रेष्ठा मुच्येत्पापाद्दिनोद्भवात्

॥३५॥

तस्मात्सर्वप्रयत्नेन पठनीयं विशेषतः ॥

श्रोतव्यं च प्रभक्त्येदं नागरैश्च विशेषतः

॥३६॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धारानामोत्पत्तिवृत्तांत धारादेवीमाहात्म्यवर्णनं नामैकोनसप्तत्युत्तरशततमोऽध्यायः ॥ १६९ ॥