मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय ४१

3
वायवीयसंहिता · उत्तरभागः · 41

तत्र स्कंदसरो नाम सरस्सागरसन्निभम्

सूत उवाच

तत्र स्कंदसरो नाम सरस्सागरसन्निभम् ।

अमृतस्वादुशिशिरस्वच्छा गाधलघूदकम्

॥१॥

समंततः संघटितं स्फटिको पलसंचयैः ।

सर्वर्तुकुसुमैः फुल्लैश्छादिताखिलदिङ्मुखम्

॥२॥

शैवलैरुत्पलैः पद्मैः कुमुदैस्तारकोपमैः ।

तरंगैरभ्रसंकाशैराकाशमिव भूमिगम्

॥३॥

सुखावतरणारोहैः स्थलैर्नीलशिलामयैः ।

सोपानमार्गौ रुचिरैश्शोभमानाष्टदिङ्मुखम्

॥४॥

तत्रावतीर्णैश्च यथा तत्रोत्तीर्णश्च भूयसा ।

स्नातैः सितोपवीतैश्च शुक्लाकौपीनवल्कलैः

॥५॥

जटाशिखायनैर्मुंडैस्त्रिपुंड्रकृतमंडनैः ।

विरागविवशस्मेरमुखैर्मुनिकुमारकैः

॥६॥

घटैः कमलिनीपत्रपुटैश्च कलशैः शिवैः ।

कमण्डलुभिरन्यैश्च तादृशैः करकादिभिः

॥७॥

आत्मार्थं च परार्थं च देवतार्थं विशेषतः ।

आनीयमानसलिलमात्तपुष्पं च नित्यशः

॥८॥

अंतर्जलशिलारूढैर्नीचानां स्पर्शशंकया ।

आचारवद्भिर्मुनिभिः कृतभस्मांगधूसरैः

॥९॥

इतस्ततो ऽप्सु मज्जद्भिरिष्टशिष्टैः शिलागतैः ।

तिलैश्च साक्षतैः पुष्पैस्त्यक्तदर्भपवित्रकैः

॥१०॥

देवाद्यमृषिमध्यं च निर्वर्त्य पितृतर्पणम् ।

निवेदयेदभिज्ञेभ्यो नित्यस्नानगतान् द्विजान्

॥११॥

स्थानेस्थाने कृतानेकबलिपुष्पसमीरणैः ।

सौरार्घ्यपूर्वं कुर्वद्भिःस्थंडलेभ्यर्चनादिकम्

॥१२॥

क्वचिन्निमज्जदुन्मज्जत्प्रस्रस्तगजयूथपम् ।

क्वचिच्च तृषयायातमृगीमृगतुरंगमम्

॥१३॥

क्वचित्पीतजनोत्तीर्णमयूरवरवारणम् ।

क्वचित्कृततटाघातवृषप्रतिवृषोज्ज्वलम्

॥१४॥

क्वचित्कारंडवरवैः क्वचित्सारसकूजितैः ।

क्वचिच्च कोकनिनदैः क्वचिद्भ्रमरगीतिभिः

॥१५॥

स्नानपानादिकरणैः स्वसंपद्द्रुमजीविभिः ।

प्रणयात्प्राणिभिस्तैस्तैर्भाषमाणमिवासकृत्

॥१६॥

कूलशाखिशिखालीनकोकिलाकुलकूजितैः ।

आतपोपहतान्सर्वान्नामंत्रयदिवानिशम्

॥१७॥

उत्तरे तस्य सरसस्तीरे कल्पतरोरधः ।

वेद्यां वज्रशिलामय्यां मृदुले मृगचर्मणि

॥१८॥

सनत्कुमारमासीनं शश्वद्बालवपुर्धरम् ।

तत्कालमात्रोपरतं समाधेरचलात्मनः

॥१९॥

उपास्यमानं मुनिभिर्योगींद्रैरपि पूजितम् ।

ददृशुर्नैमिषेयास्ते प्रणताश्चोपतस्थिरे

॥२०॥

यावत्पृष्टवते तस्मै प्रोचुः स्वागतकारणम् ।

तुमुलः शुश्रुवे तावद्दिवि दुंदुभिनिस्वनः

॥२१॥

ददृशे तत्क्षणे तस्मिन्विमानं भानुसन्निभम् ।

गणेश्वरैरसंख्येयैः संवृतं च समंततः

॥२२॥

अप्सरोगणसंकीर्णं रुद्रकन्याभिरावृतम् ।

मृदंगमुरजोद्घुष्टं वेणुवीणारवान्वितम्

॥२३॥

चित्ररत्नवितानाढ्यं मुक्तादामविराजितम् ।

मुनिभिस्सिद्धगंधर्वैर्यक्षचारणकिन्नरैः

॥२४॥

नृत्यद्भिश्चैव गायद्भिर्वादयद्भिश्च संवृतम् ।

वीरगोवृषचिह्नेन विद्रमद्रुमयष्टिना

॥२५॥

कृतगोपुरसत्कारं केतुना मान्यहेतुना ।

तस्य मध्ये विमानस्य चामरद्वितयांतरे

॥२६॥

छत्त्रस्य मणिदंडस्य चंद्रस्येव शुचेरधः ।

दिव्यसिंहासनारूढं देव्या सुयशया सह

॥२७॥

श्रिया च वपुषा चैव त्रिभिश्चापि विलोचनैः ।

प्राकारैरभिकृत्यानां प्रत्यभिज्ञापकं प्रभोः

॥२८॥

अविलंघ्य जगत्कर्तुराज्ञापनमिवागतम् ।

सर्वानुग्रहणं शंभोः साक्षादिव पुरःस्थितम्

॥२९॥

शिलादतनयं साक्षाच्छ्रीमच्छूलवरायुधम् ।

विश्वेश्वरगणाध्यक्षं विश्वेश्वरमिवापरम्

॥३०॥

विश्वस्यापि विधात्ःणां निग्रहानुग्रहक्षमम् ।

चतुर्बाहुमुदारांगं चन्द्ररेखाविभूषितम्

॥३१॥

कंठे नागेन मौलौ च शशांकेनाप्यलंकृतम् ।

सविग्रहमिवैश्वर्यं सामर्थ्यमिव सक्रियम्

॥३२॥

समाप्तमिव निर्वाणं सर्वज्ञमिव संगतम् ।

दृष्ट्वा प्रहृष्टवदनो ब्रह्मपुत्रः सहर्षिभिः

॥३३॥

तस्थौ प्राञ्जलिरुत्थाय तस्यात्मानमिवार्पयन् ।

अथ तत्रांतरे तस्मिन्विमाने चावनिं गते

॥३४॥

प्रणम्य दण्डवद्देवं स्तुत्वा व्यज्ञापयन्मुनीम् ।

षट्कुलीया इमे दीर्घं नैमिषे सत्रमास्थिताः ।

आगता ब्रह्मणादिष्टाः पूर्वमेवाभिकांक्षया

॥३५॥

श्रुत्वा वाक्यं ब्रह्मपुत्रस्य नंदीछित्त्वा पाशान्दृष्टिपातेन सद्यः ।

शैवं धर्मं चैश्वरं ज्ञानयोगं दत्त्वा भूयो देवपार्श्वं जगाम

॥३६॥

सनत्कुमारेण च तत्समस्तं व्यासाय साक्षाद्गुरवे ममोक्तम् ।

व्यासेन चोक्तं महितेन मह्यं मया च तद्वः कथितं समासात्

॥३७॥

नावेदविद्भ्यः कथनीयमेतत्पुराणरत्नं पुरशासनस्य ।

नाभक्तशिष्याय च नास्तिकेभ्यो दत्तं हि मोहान्निरयं ददाति

॥३८॥

मार्गेण सेवानुगतेन यैस्तद्दत्तं गृहीतं पठितं श्रुतं वा ।

तेभ्यः सुखं धर्ममुखं त्रिवर्गं निर्वाणमंते नियतं ददाति

॥३९॥

परस्परस्योपकृतं भवद्भिर्मया च पौराणिकमार्गयोगात् ।

अतो गमिष्ये ऽहमवाप्तकामः समस्तमेवास्तु शिवं सदा नः

॥४०॥

सूते कृताशिषि गते मुनयः सुवृत्ता यागे च पर्यवसिते महति प्रयोगे ।

काले कलौ च विषयैः कलुषायमाणे वाराणसीपरिसरे वसतिं विनेतुः

॥४१॥

अथ च ते पशुपाशमुमुक्षयाखिलतया कृतपाशुपतव्रताः ।

अधिकृताखिलबोधसमाधयः परमनिर्वृतिमापुरनिंदिताः

॥४२॥

व्यास उवाच

एतच्छिवपुराणं हि समाप्तं हितमादरात् ।

पठितव्यं प्रयत्नेन श्रोतव्यं च तथैव हि

॥४३॥

नास्तिकाय न वक्तव्यमश्रद्धाय शठाय च ।

अभक्ताय महेशस्य तथा धर्मध्वजाय च

॥४४॥

एतच्छ्रुत्या ह्येकवारं भवेत्पापं हि भस्मसात् ।

अभक्तो भक्तिमाप्नोति भक्तो भक्तिसमृद्धिभाक्

॥४५॥

पुनः श्रुते च सद्भक्तिर्मुक्तिस्स्याच्च श्रुतेः पुनः ।

तस्मात्पुनःपुनश्चैव श्रोतव्यं हि मुमुक्षुभिः

॥४६॥

पञ्चावृत्तिः प्रकर्तव्या पुराणस्यास्य सद्धिया ।

परं फलं समुद्दिश्य तत्प्राप्नोति न संशयः

॥४७॥

पुरातनाश्च राजानो विप्रा वैश्याश्च सत्तमाः ।

सप्तकृत्वस्तदावृत्त्यालभन्त शिवदर्शनम्

॥४८॥

श्रोष्यत्यथापि यश्चेदं मानवो भक्तितत्परः ।

इह भुक्त्वाखिलान्भोगानंते मुक्तिं लभेच्च सः

॥४९॥

एतच्छिवपुराणं हि शिवस्यातिप्रियं परम् ।

भुक्तिमुक्तिप्रदं ब्रह्मसंमितं भक्तिवर्धनम्

॥५०॥

एतच्छिवपुराणस्य वक्तुः श्रोतुश्च सर्वदा ।

सगणस्ससुतस्सांबश्शं करोतु स शंकरः

॥५१॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे व्यासोपदेशश्रीशिवमहापुराणमाहात्म्यवर्णनं नामैकचत्वारिंशोऽध्यायः समाप्तोऽयं ग्रन्थः