विशेषादिसंस्कृतिः
उपमन्युरुवाच
अथैवं संस्कृतं शिष्यं कृतपाशुपतव्रतम् ।
आचार्यत्वे ऽभिषिंचेत तद्योगत्वेन चान्यथा
॥१॥मण्डलं पूर्ववत्कृत्त्वा संपूज्य परमेश्वरम् ।
स्थापयत्पञ्चकलशान्दिक्षु मध्ये च पूर्ववत्
॥२॥निवृत्तिं पुरतो न्यस्य प्रतिष्ठां पश्चिमे घटे ।
विद्यां दक्षिणतः शांतिमुत्तरे मध्यतः पराम्
॥३॥कृत्वा रक्षादिकं तत्र बद्ध्वा मुद्रां च धैनवीम् ।
अभिमंत्र्य घटान्हुत्वा पूर्णांतं च यथा पुरा
॥४॥प्रवेश्य मंडले शिष्यमनुष्णीषं च देशिकः ।
तर्पणाद्यं तु मंत्राणां कुर्यात्पूर्वावसानकम्
॥५॥ततः संपूज्य देवेशमनुज्ञाप्य च पूर्ववत् ।
अभिषेकाय तं शिष्यमासनं त्वधिरोहयेत्
॥६॥सकलीकृत्य तं पश्चात्कलापञ्चकरूपिणम् ।
न्यस्तमंत्रतनुं बद्ध्वा शिवं शिष्यं समर्पयेत्
॥७॥ततो निवृत्तिकुंभादिघटानुद्धृत्य वै क्रमात् ।
मध्यमान्ताच्छिवेनैव शिष्यं तमभिषेचयत्
॥८॥शिवहस्तं समर्प्याथ शिशोः शिरसि देशिकः ।
शिवभावसमापन्नः शिवाचार्यं तमादिशेत्
॥९॥अथालंकृत्य तं देवमाराध्य शिवमण्डले ।
शतमष्टोत्तरं हुत्वा दद्यात्पूर्णाहुतिं ततः
॥१०॥पुनः सम्पूज्य देवेशं प्रणम्य भुवि दंडवत् ।
शिरस्यंजलिमाधाय शिवं विज्ञापयेद्गुरुः
॥११॥भगवंस्त्वत्प्रसादेन देशिको.यं मया कृतः ।
अनुगृह्य त्वया देव दिव्याज्ञास्मै प्रदीयताम्
॥१२॥एवं विज्ञाप्य शिष्येण सह भूयः प्रणम्य च ।
शिवं शिवागमं दिव्यं पूजयेच्छिववद्गुरुः
॥१३॥पुनः शिवमनुज्ञाप्य शिवज्ञानस्य पुस्तकम् ।
उभाभ्यामथ पाणिभ्यां दद्याच्छिष्याय देशिकः
॥१४॥स ताम्मूर्ध्नि समाधाय विद्यां विद्यासनोपरि ।
अधिरोप्य यथान्यायमभिवंद्य समर्चयेत्
॥१५॥अथ तस्मै गुरुर्दद्याद्राजोपकरणान्यपि ।
आचार्यपदवीं प्राप्तो राज्यं चापि यतो ऽर्हति
॥१६॥अथानुशासनं कुर्यात्पूर्वैराचरितं यथा ।
यथा च शिवशास्त्रोक्तं यथा लोकेषु पूज्यते
॥१७॥शिष्यान्परिक्ष्य यत्नेन शिवशास्त्रोक्तलक्षणैः ।
संस्कृत्य च शिवज्ञानं तेभ्यो दद्याच्च देशिकः
॥१८॥एवं सर्वमनायासं शौचं क्षांतिं दयां तथा ।
अस्पृहामप्यसूयां च यत्नेन च विभावयेत्
॥१९॥इत्थमादिश्य तं शिष्यं शिवमुद्वास्य मंडलात् ।
शिवकुंभानलादींश्च सदस्यानपि पूजयेत्
॥२०॥युगपद्वाथ संस्कारान्कुर्वीत सगणो गुरुः ।
तत्र यत्र द्वयं वापि प्रयोगस्योपदिश्यते
॥२१॥तदादावेव कलशान्कल्पयेदध्वशुद्धिवत् ।
कृत्वा समयसंस्कारमभिषेकं विनाखिलम्
॥२२॥समभ्यर्च्य शिवं भूयः कृत्वा चाध्वविशोधनम् ।
तस्मिन्परिसमाप्ते तु पुनर्देवं प्रपूजयेत्
॥२३॥हुत्वा मंत्रन्तु संतर्प्य संदीप्याशास्य चेश्वरम् ।
समर्प्य मंत्रं शिष्यस्य पाणौ शेषं समापयेत्
॥२४॥अथवा मंत्रसंस्कारमनुचिंत्याखिलं क्रमात् ।
अध्वशुद्धिं गुरुः कुर्यादभिषेकावसानिकम्
॥२५॥तत्र यः शान्त्यतीतादिकलासु विहितो विधिः ।
स सर्वो ऽपि विधातव्यस्तत्त्वत्रयविशोधने
॥२६॥शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमुदाहृतम् ।
शक्तौ शिवस्ततो विद्यात्तस्यास्त्वात्मा समुद्बभौ
॥२७॥शिवेन शांत्यतीताध्वा व्याप्तस्तदपरः परः ।
विद्यया परिशिष्टो ऽध्वा ह्यात्मना निखिलः क्रमात्
॥२८॥दुर्लभं शांभवं मत्वा मंत्रमूलं मनीषिणः ।
शाक्तं शंसीत संस्कारं शिवशास्त्रार्थपारगाः
॥२९॥इति ते सर्वमाख्यातं संस्काराख्यस्य कर्मणः ।
चातुर्विध्यमिदं कृष्ण किं भूय श्रोतुमिच्छसि
॥३०॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे विशेषादिसंस्कृतिर्नाम विंशो ऽध्यायः