मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय २१

3
वायवीयसंहिता · उत्तरभागः · 21

भगवञ्छ्रोतुमिच्छामि शिवाश्रमनिषेविणाम्

कृष्ण उवाच

भगवञ्छ्रोतुमिच्छामि शिवाश्रमनिषेविणाम् ।

शिवशास्त्रोदितं कर्म नित्यनैमित्तिकं तथा

॥१॥

उपमन्युरुवाच

प्रातरुत्थाय शयनाद्ध्यात्वा देवं सहाम्बया ।

विचार्य कार्यं निर्गच्छेद्गृहादभ्युदिते ऽरुणे

॥२॥

अबाधे विजने देशे कुर्यादावश्यकं ततः ।

कृत्वा शौचं विधानेन दंतधावनमाचरेत्

॥३॥

अलाभे दंतकाष्ठानामष्टम्यादिदिनेषु च ।

अपां द्वादशगण्डूषैः कुर्यादास्यविशोधनम्

॥४॥

आचम्य विधिवत्पश्चाद्वारुणं स्नानमाचरेत् ।

नद्यां वा देवखाते वा ह्रदे वाथ गृहे ऽपि वा

॥५॥

स्नानद्रव्याणि तत्तीरे स्थापयित्वा बहिर्मलम् ।

व्यापोह्य मृदमालिप्य स्नात्वा गोमयमालिपेत्

॥६॥

स्नात्वा पुनः पुनर्वस्त्रं त्यक्त्वावाथ विशोध्य च ।

सुस्नातो नृपवद्भूयः शुद्धं वासो वसीत च

॥७॥

मलस्नानं सुगंधाद्यैः स्नानं दन्तविशोधनम् ।

न कुर्याद्ब्रह्मचारी च तपस्वी विधवा तथा

॥८॥

सोपवीतश्शिखां बद्धा प्रविश्य च जलांतरम् ।

अवगाह्य समाचांतो जले न्यस्येत्त्रिमंडलम्

॥९॥

सौम्ये मग्नः पुनर्मंत्रं जपेच्छक्त्या शिवं स्मरेत् ।

उत्थायाचम्य तेनैव स्वात्मानमभिषेचयेत्

॥१०॥

गोशृंगेण सदर्भेण पालाशेन दलेन वा ।

पाद्मेन वाथ पाणिभ्यां पञ्चकृत्वस्त्रिरेव वा

॥११॥

उद्यानादौ गृहे चैव वर्धन्या कलशेन वा ।

अवगाहनकाले ऽद्भिर्मंत्रितैरभिषेचयेत्

॥१२॥

अथ चेद्वारुणं कर्तुमशक्तः शुद्धवाससा ।

आर्द्रेण शोधयेद्देहमापादतलमस्तकम्

॥१३॥

आग्नेयं वाथ वा मांत्रं कुर्यात्स्नानं शिवेन वा ।

शिवचिंतापरं स्नानं युक्तस्यात्मीयमुच्यते

॥१४॥

स्वसूत्रोक्तविधानेन मंत्राचमनपूर्वकम् ।

आचरेद्ब्रह्मयज्ञांतं कृत्वा देवादितर्पणम्

॥१५॥

मंडलस्थं महादेवं ध्यात्वाभ्यर्च्य यथाविधि ।

दद्यादर्घ्यं ततस्तस्मै शिवायादित्यरूपिणे

॥१६॥

अथ वैतत्स्वसूत्रोक्तं कृत्वा हस्तौ विशोधयेत् ।

करन्यासं ततः कृत्वा सकलीकृतविग्रहः

॥१७॥

वामहस्तगतांभोभिर्गंधसिद्धार्थकान्वितैः ।

कुशपुंजेन वाभ्युक्ष्य मूलमंत्रसमन्वितैः

॥१८॥

आपोहिष्ठादिभिर्मन्त्रैः शेषमाघ्राय वै जलम् ।

वामनासापुटेनैव देवं संभावयेत्सितम्

॥१९॥

अर्घमादाय देहस्थं सव्यनासापुटेन च ।

कृष्णवर्णेन बाह्यस्थं भावयेच्च शिलागतम्

॥२०॥

तर्पयेदथ देवेभ्य ऋषिभिश्च विशेषतः ।

भूतेभ्यश्च पितृभ्यश्च दद्यादर्घ्यं यथाविधि

॥२१॥

रक्तचंदनतोयेन हस्तमात्रेण मंडलम् ।

सुवृत्तं कल्पयेद्भूमौ रक्तचूर्णाद्यलंकृतम्

॥२२॥

तत्र संपूजयेद्भानुं स्वकीयावरणैः सह ।

स्वखोल्कायेति मंत्रेण सांगतस्सुखसिद्धये

॥२३॥

पुनश्च मंडलं कृत्वा तदंगैः परिपूज्य च ।

तत्र स्थाप्य हेमपात्रं मागधप्रस्थसंमितम्

॥२४॥

पूरयेद्गंधतोयेन रक्तचंदनयोगिना ।

रक्तपुष्पैस्तिलैश्चैव कुशाक्षतसमन्वितैः

॥२५॥

दूर्वापामार्गगव्यैश्च केवलेन जलेन वा ।

जानुभ्यां धरणीं गत्वा नत्वा देवं च मंडले

॥२६॥

कृत्वा शिरसि तत्पात्रं दद्यादर्घ्यं शिवाय तत् ।

अथवांजलिना तोयं सदर्भं मूलविद्यया

॥२७॥

उत्क्षिपेदम्बरस्थाय शिवायादित्यमूर्तये ।

कृत्वा पुनः करन्यासं करशोधनपूर्वकम्

॥२८॥

बुद्ध्वेशानादिसद्यांतं पञ्चब्रह्ममयं शिवम् ।

गृहीत्वा भसितं मन्त्रैर्विमृज्याङ्गानि संस्पृशेत्

॥२९॥

या दिनांतैश्शिरोवक्त्रहृद्गुह्यचरणान्क्रमात् ।

ततो मूलेन सर्वांगमालभ्य वसनान्तरम्

॥३०॥

परिधाय द्विराचम्य प्रोक्ष्यैकादशमन्त्रितैः ।

जलैराच्छाद्य वासो ऽयद्द्विराचम्य शिवं स्मरेत्

॥३१॥

पुनर्न्यस्तकरो मन्त्री त्रिपुंड्रं भस्मना लिखेत् ।

अवक्रमाय तं व्यक्तं ललाटे गन्धवारिणा

॥३२॥

वृत्तं वा चतुरस्रं वा बिन्दुमर्धेन्दुमेव वा ।

ललाटे यादृशं पुण्ड्रं लिखितं भस्मना पुनः

॥३३॥

तादृशं भुजयोर्मूर्ध्नि स्तनयोरंतरे लिखेत् ।

सर्वांगोद्धूलनं चैव न समानं त्रिपुण्ड्रकैः

॥३४॥

तस्मात्त्रिपुण्ड्रमेवैकं लिखेदुद्धूलनं विना ।

रुद्राक्षान्धारयेद्मूर्ध्नि कंठे श्रोते करे तथा

॥३५॥

सुवर्णवर्णमच्छिन्नं शुभं नान्यैर्धृतं शुभम् ।

विप्रादीनां क्रमाच्छ्रेष्ठं पीतं रक्तमथासितम्

॥३६॥

तदलाभे यथालाभं धारणीयमदूषितम् ।

तत्रापि नोत्तरं नीचैर्धार्यं नीचमथोत्तरैः

॥३७॥

नाशुचिर्धारयेदक्षं सदा कालेषु धारयेत् ।

इत्थं त्रिसंध्यमथवा द्विसंध्यं सकृदेव वा

॥३८॥

कृत्वा स्नानादिकं शक्त्या पूजयेत्परमेश्वरम् ।

प्रजास्थानं समासाद्य बद्ध्वा रुचिरमासनम्

॥३९॥

ध्यायेद्देवं च देवीं च प्राङ्मुखो वाप्युदङ्मुखः ।

श्वेतादीन्नकुलीशांतांस्तच्छिष्यान्प्रणमेद्गुरुम्

॥४०॥

पुनर्देवं शिवं नत्वा ततो नामाष्टकं जपेत् ।

शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः

॥४१॥

संसारवैद्यस्सर्वज्ञः परमात्मेति चाष्टकम् ।

अथवा शिवमेवैकं जपित्वैकादशाधिकम्

॥४२॥

जिह्वाग्रे तेजसो राशिं ध्यात्वाव्याध्यादिशांतये ।

प्रक्षाल्य चरणौ कृत्वा करौ चंदनचर्चितौ ।

प्रकुर्वीत करन्यासं करशोधनपूर्वकम्

॥४३॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिककर्मवर्णनं नामैकविंशो ऽध्यायः