आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने
ईश्वर उवाच
आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने ।
आज्ञार्थं दक्षिणाहीनं सदा जप्तं च निष्फलम्
॥१॥आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं ममात्मकम् ।
एवं चेद्दक्षिणायुक्तं मंत्रसिद्धिर्महत्फलम्
॥२॥उपगम्य गुरुं विप्रमाचार्यं तत्त्ववेदिनम् ।
जापितं सद्गुणोपेतं ध्यानयोगपरायणम्
॥३॥तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः ।
वाचा च मनसा चैव कायेन द्रविणेन च
॥४॥आचार्यं पूजयेद्विप्रः सर्वदातिप्रयत्नतः ।
हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च
॥५॥भूषणानि च वासांसि धान्यानि च धनानि च ।
एतानि गुरवे दद्याद्भक्त्या च विभवे सति
॥६॥वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः ।
पश्चान्निवेद्य स्वात्मानं गुरवे सपरिच्छदम्
॥७॥एवं संपूज्य विधिवद्यथाशक्तित्ववंचयन् ।
आददीत गुरोर्मंत्रं ज्ञानं चैव क्रमेण तु
॥८॥एवं तुष्टो गुरुः शिष्यं पूजकं वत्सरोषितम् ।
शुश्रूषुमनहंकारं स्नातं शुचिमुपोषितम्
॥९॥स्नापयित्वा विशुद्ध्यर्थं पूर्णकुंभघृतेन वै ।
जलेन मन्त्रशुद्धेन पुण्यद्रव्ययुतेन च
॥१०॥अलंकृत्य सुवेषं च गंधस्रग्वस्त्रभूषणैः ।
पुण्याहं वाचयित्वा च ब्राह्मणानभिपूज्य च
॥११॥समुद्रतीरे नद्यां च गोष्ठे देवालये ऽपि वा ।
शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ
॥१२॥नक्षत्रे शुभयोगे च सर्वदोषविवर्जिते ।
अनुगृह्य ततो दद्याज्ज्ञानं मम यथाविधि
॥१३॥स्वरेणोच्चारयेत्सम्यगेकांते ऽतिप्रसन्नधीः ।
उच्चार्योच्चारयित्वा तमावयोर्मंत्रमुत्तमम्
॥१४॥शिवं चास्तु शुभं चास्तु शोभनो ऽस्तु प्रियो ऽस्त्विति ।
एवं दद्याद्गुरुर्मंत्रमाज्ञां चैव ततः परम्
॥१५॥एवं लब्ध्वा गुरोर्मंत्रमाज्ञां चैव समाहितः ।
संकल्प्य च जपेन्नित्यं पुरश्चरणपूर्वकम्
॥१६॥यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम् ।
अनन्यस्तत्परो भूत्वा स याति परमां गतिम्
॥१७॥जपेदक्षरलक्षं वै चतुर्गुणितमादरात् ।
नक्ताशी संयमी यस्स पौरश्चरणिकः स्मृतः
॥१८॥यः पुरश्चरणं कृत्वा नित्यजापी भवेत्पुनः ।
तस्य नास्ति समो लोके स सिद्धः सिद्धदो भवेत्
॥१९॥स्नानं कृत्वा शुचौ देशे बद्ध्वा रुचिरमानसम् ।
त्वया मां हृदि संचिंत्य संचिंत्य स्वगुरुं ततः
॥२०॥उदङ्मुखः प्राङ्मुखो वा मौनी चैकाग्रमानसः ।
विशोध्य पञ्चतत्त्वानि दहनप्लावनादिभिः
॥२१॥मन्त्रन्यासादिकं कृत्वा सफलीकृतविग्रहः ।
आवयोर्विग्रहौ ध्यायन्प्राणापानौ नियम्य च
॥२२॥विद्यास्थानं स्वकं रूपमृषिञ्छन्दो ऽधिदैवतम् ।
बीजं शक्तिं तथा वाक्यं स्मृत्वा पञ्चाक्षरीं जपेत्
॥२३॥उत्तमं मानसं जाप्यमुपांशुं चैवमध्यमम् ।
अधमं वाचिकं प्राहुरागमार्थविशारदाः
॥२४॥उत्तमं रुद्रदैवत्यं मध्यमं विष्णुदैवतम् ।
अधमं ब्रह्मदैवत्यमित्याहुरनुपूर्वशः
॥२५॥यदुच्चनीचस्वरितैःस्पष्टास्पष्टपदाक्षरैः ।
मंत्रमुच्चारयेद्वाचा वाचिको ऽयं जपस्स्मृतः
॥२६॥जिह्वामात्रपरिस्पंदादीषदुच्चारितो ऽपि वा ।
अपरैरश्रुतः किंचिच्छ्रुतो वोपांशुरुच्यते
॥२७॥धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ।
शब्दार्थचिंतनं भूयः कथ्यते मानसो जपः
॥२८॥वाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते ।
साहस्रं मानसः प्रोक्तः सगर्भस्तु शताधिकः
॥२९॥प्राणायामसमायुक्तस्सगर्भो जप उच्यते ।
आद्यंतयोरगर्भो ऽपि प्राणायामः प्रशस्यते
॥३०॥चत्वारिंशत्समावृत्तीः प्राणानायम्य संस्मरेत् ।
मंत्रं मंत्रार्थविद्धीमानशक्तः शक्तितो जपेत्
॥३१॥पञ्चकं त्रिकमेकं वा प्राणायामं समाचरेत् ।
अगर्भं वा सगर्भं वा सगर्भस्तत्र शस्यते
॥३२॥सगर्भादपि साहस्रं सध्यानो जप उच्यते ।
एषु पञ्चविधेष्वेकः कर्तव्यः शक्तितो जपः
॥३३॥अङ्गुल्या जपसंख्यानमेकमेवमुदाहृतम् ।
रेखयाष्टगुणं विद्यात्पुत्रजीवैर्दशाधिकम्
॥३४॥शतं स्याच्छंखमणिभिः प्रवालैस्तु सहस्रकम् ।
स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते
॥३५॥पद्माक्षैर्दशलक्षन्तु सौवर्णैः कोटिरुच्यते ।
कुशग्रंथ्या च रुद्राक्षैरनंतगुणितं भवेत्
॥३६॥त्रिंशदक्षैः कृता माला धनदा जपकर्मणि ।
सप्तविंशतिसंख्यातैरक्षैः पुष्टिप्रदा भवेत्
॥३७॥पञ्चविंशतिसंख्यातैः कृता मुक्तिं प्रयच्छति ।
अक्षैस्तु पञ्चदशभिरभिचारफलप्रदा ।
३८ अंगुष्ठं मोक्षदं विद्यात्तर्जनीं शत्रुनाशिनीम् ।
मध्यमां धनदां शांतिं करोत्येषा ह्यनामिका
॥३९॥अष्टोत्तरशतं माला तत्र स्यादुत्तमोत्तमा ।
शतसंख्योत्तमा माला पञ्चाशद्भिस्तु मध्यमा
॥४०॥चतुः पञ्चाशदक्षैस्तु हृच्छ्रेष्ठा हि प्रकीर्तिता ।
इत्येवं मालया कुर्याज्जपं कस्मै न दर्शयेत्
॥४१॥कनिष्ठा क्षरिणी प्रोक्ता जपकर्मणि शोभना ।
अंगुष्ठेन जपेज्जप्यमन्यैरंगुलिभिस्सह
॥४२॥अंगुष्ठेन विना जप्यं कृतं तदफलं यतः ।
गृहे जपं समं विद्याद्गोष्ठे शतगुणं विदुः
॥४३॥पुण्यारण्ये तथारामे सहस्रगुणमुच्यते ।
अयुतं पर्वते पुण्ये नद्यां लक्षमुदाहृतम्
॥४४॥कोटिं देवालये प्राहुरनन्तं मम सन्निधौ ।
सूर्यस्याग्नेर्गुरोरिंदोर्दीपस्य च जलस्य च
॥४५॥विप्राणां च गवां चैव सन्निधौ शस्यते जपः ।
तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम्
॥४६॥पश्चिमं धनदं विद्यादौत्तरं शातिदं भवेत् ।
सूर्याग्निविप्रदेवानां गुरूणामपि सन्निधौ
॥४७॥अन्येषां च प्रसक्तानां मन्त्रं न विमुखो जपेत् ।
उष्णीषी कुंचुकी नम्रो मुक्तकेशो गलावृतः
॥४८॥अपवित्रकरो ऽशुद्धो विलपन्न जपेत्क्वचित् ।
क्रोधं मदं क्षुतं त्रीणि निष्ठीवनविजृंभणे
॥४९॥दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि ।
आचमेत्संभवे तेषां स्मरेद्वा मां त्वया सह
॥५०॥ज्योतींषि च प्रपश्येद्वा कुर्याद्वा प्राणसंयमम् ।
अनासनः शयाने वा गच्छन्नुत्थित एव वा
॥५१॥रथ्यायामशिवे स्थाने न जपेत्तिमिरान्तरे ।
प्रसार्य न जपेत्पादौ कुक्कुटासन एव वा
॥५२॥यानशय्याधिरूढो वा चिंताव्याकुलितो ऽथ वा ।
शक्तश्चेत्सर्वमेवैतदशक्तः शक्तितो जपेत्
॥५३॥किमत्र बहुनोक्तेन समासेन वचः शृणु ।
सदाचारो जपञ्छुद्धं ध्यायन्भद्रं समश्नुते
॥५४॥आचारः परमो धर्म आचारः परमं धनं ।
आचारः परमा विद्या आचारः परमा गतिः
॥५५॥आचारहीनः पुरुषो लोके भवति निंदितः ।
परत्र च सुखी न स्यात्तस्मादाचारवान्भवेत्
॥५६॥यस्य यद्विहितं कर्म वेदे शास्त्रे च वैदिकैः ।
तस्य तेन समाचारः सदाचारो न चेतरः
॥५७॥सद्भिराचरितत्वाच्च सदाचारः स उच्यते ।
सदाचारस्य तस्याहुरास्तिक्यं मूलकारणम्
॥५८॥आस्तिकश्चेत्प्रमादाद्यैः सदाचारादविच्युतः ।
न दुष्यति नरो नित्यं तस्मादास्तिकतां व्रजेत्
॥५९॥यथेहास्ति सुखं दुःखं सुकृतैर्दुष्कृतैरपि ।
तथा परत्र चास्तीति मतिरास्तिक्यमुच्यते
॥६०॥रहस्यमन्यद्वक्ष्यामि गोपनीयमिदं प्रिये ।
न वाच्यं यस्य कस्यापि नास्तिकस्याथ वा पशोः
॥६१॥सदाचारविहीनस्य पतितस्यान्त्यजस्य च ।
पञ्चाक्षरात्परं नास्ति परित्राणं कलौ युगे
॥६२॥गच्छतस्तिष्ठतो वापि स्वेच्छया कर्म कुर्वतः ।
अशुचेर्वा शुचेर्वापि मन्त्रो ऽयन्न च निष्फलः
॥६३॥अनाचारवतां पुंसामविशुद्धषडध्वनाम् ।
अनादिष्टो ऽपि गुरुणा मन्त्रो ऽयं न च निष्फलः
॥६४॥अन्त्यजस्यापि मूर्खस्य मूढस्य पतितस्य च ।
निर्मर्यादस्य नीचस्य मंत्रो ऽयं न च निष्फलः
॥६५॥सर्वावस्थां गतस्यापि मयि भक्तिमतः परम् ।
सिध्यत्येव न संदेहो नापरस्य तु कस्यचित्
॥६६॥न लग्नतिथिनक्षत्रवारयोगादयः प्रिये ।
अस्यात्यंतमवेक्ष्याः स्युर्नैष सप्तस्सदोदितः
॥६७॥न कदाचिन्न कस्यापि रिपुरेष महामनुः ।
सुसिद्धो वापि सिद्धो वा साध्यो वापि भविष्यति
॥६८॥सिद्धेन गुरुणादिष्टस्सुसिद्ध इति कथ्यते ।
असिद्धेनापि वा दत्तस्सिद्धसाध्यस्तु केवलः
॥६९॥असाधितस्साधितो वा सिध्यत्वेन न संशयः ।
श्रद्धातिशययुक्तस्य मयि मंत्रे तथा गुरौ
॥७०॥तस्मान्मंत्रान्तरांस्त्यक्त्वा सापायान् १ धिकारतः ।
आश्रमेत्परमां विद्यां साक्षात्पञ्चाक्षरीं बुधः
॥७१॥मंत्रान्तरेषु सिद्धेषु मंत्र एष न सिध्यति ।
सिद्धे त्वस्मिन्महामंत्रे ते च सिद्धा भवंत्युत
॥७२॥यथा देवेष्वलब्धो ऽस्मि लब्धेष्वपि महेश्वरि ।
मयि लब्धे तु ते लब्धा मंत्रेष्वेषु समो विधिः
॥७३॥ये दोषास्सर्वमंत्राणां न ते ऽस्मिन्संभवंत्यपि ।
अस्य मंत्रस्य जात्यादीननपेक्ष्य प्रवर्तनात्
॥७४॥तथापि नैव क्षुद्रेषु फलेषु प्रति योगिषु ।
सहसा विनियुंजीत तस्मादेष महाबलः
॥७५॥उपमन्युरुवाच
एवं साक्षान्महादेव्यै महादेवेन शूलिना ।
हिता य जगतामुक्तः पञ्चाक्षरविधिर्यथा
॥७६॥य इदं कीर्तयेद्भक्त्या शृणुयाद्वा समाहितः ।
सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम्
॥७७॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे पञ्चाक्षरमहिमवर्णनं नाम चतुर्दशोध्यायः