मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय २२

3
वायवीयसंहिता · उत्तरभागः · 22

शिवशास्त्रोक्तनित्यनैमित्तिककर्मवर्णनम्

उपमन्युरुवाच

न्यासस्तु त्रिविधः प्रोक्तः स्थित्युत्पत्तिलयक्रमात् ।

स्थितिर्न्यासो गृहस्थानामुत्पत्तिर्ब्रह्मचारिणाम्

॥१॥

यतीनां संहृतिन्यासो वनस्थानां तथैव च ।

स एव भर्तृहीनायाः कुटुंबिन्याः स्थितिर्भवेत्

॥२॥

कन्यायाः पुनरुत्पत्तिं वक्ष्ये न्यासस्य लक्षणम् ।

अंगुष्ठादिकनिष्ठांतं स्थितिन्यास उदाहृतः

॥३॥

दक्षिणांगुष्ठमारभ्य वामांगुष्ठान्तमेव च ।

उत्पत्तिन्यास आख्यातो विपरीतस्तु संहृतिः

॥४॥

सबिंदुकान्नकारादीन्वर्णान्न्यस्येदनुक्रमात् ।

अंगुलीषु शिवं न्यस्येत्तलयोरप्यनामयोः

॥५॥

अस्त्रन्यासं ततः कृत्वा दशदिक्ष्वस्त्रमंत्रतः ।

निवृत्त्यादिकलाः पञ्च पञ्चभूतस्वरूपिणीः

॥६॥

पञ्चभूताधिपैस्सार्धं ततच्चिह्नसमन्विताः ।

हृत्कण्टतालुभ्रूमध्यब्रह्मरन्ध्रसमाश्रयाः

॥७॥

तद्तद्बीजेन संग्रंथीस्तद्तद्बीजेषु भावयेत् ।

तासां विशोधनार्थाय विद्यां पञ्चाक्षरीं जपेत्

॥८॥

निरुद्ध्वा प्राणवायुं च गुणसंख्यानुसारतः ।

भूतग्रंथिं ततश्छिद्यादस्त्रेणैवास्त्रमुद्रया

॥९॥

नाड्या सुषुम्नयात्मानं प्रेरितं प्राणवायुना ।

निर्गतं ब्रह्मरन्ध्रेण योजयेच्छिवतेजसा

॥१०॥

विशोष्य वायुना पश्चाद्देहं कालाग्निना दहेत् ।

ततश्चोपरिभावेन कलास्संहृत्य वायुना

॥११॥

देहं संहृत्य वै दग्धं कलास्स्पृष्ट्वा सहाब्धिना ।

प्लावयित्वामृतैर्देहं यथास्थानं निवेशयेत्

॥१२॥

अथ संहृत्य वै दग्धः कलासर्गं विनैव तु ।

अमृतप्लावनं कुर्याद्भस्मीभूतस्य वै ततः

॥१३॥

ततो विद्यामये तस्मिन्देहे दीपशिखाकृतिम् ।

शिवान्निर्गतमात्मानं ब्रह्मरंध्रेण योजयेत्

॥१४॥

देहस्यान्तः प्रविष्टं तं ध्यात्वा हृदयपंकजे ।

पुनश्चामृतवर्षेण सिंचेद्विद्यामयं वपुः

॥१५॥

ततः कुर्यात्करन्यासं करशोधनपूर्वकम् ।

देहन्यासं ततः पश्चान्महत्या मुद्रया चरेत्

॥१६॥

अंगन्यासं ततः कृत्वा शिवोक्तेन तु वर्त्मना ।

वर्णन्यासं ततः कुर्याद्धस्तपादादिसंधिषु

॥१७॥

षडंगानि ततो न्यस्य जातिषट्कयुतानि च ।

दिग्बंधमाचरेत्पश्चादाग्नेयादि यथाक्रमम्

॥१८॥

यद्वा मूर्धादिपञ्चांगं न्यासमेव समाचरेत् ।

तथा षडंगन्यासं च भूतशुद्ध्यादिकं विना

॥१९॥

एवं समासरूपेण कृत्वा देहात्मशोधनम् ।

शिवभावमुपागम्य पूजयेत्परमेश्वरम्

॥२०॥

अथ यस्यास्त्यवसरो नास्ति वा मतिविभ्रमः ।

स विस्तीर्णेन कल्पेन न्यासकर्म समाचरेत्

॥२१॥

तत्राद्यो मातृकान्यासो ब्रह्मन्यासस्ततः परः ।

तृतीयः प्रणवन्यासो हंसन्यासस्तदुत्तरः

॥२२॥

पञ्चमः कथ्यते सद्भिर्न्यासः पञ्चाक्षरात्मकः ।

एतेष्वेकमनेकं वा कुर्यात्पूजादि कर्मसु

॥२३॥

अकारं मूर्ध्नि विन्यस्य आकारं च ललाटके ।

इं ईं च नेत्रयोस्तद्वतुं ऊं श्रवणयोस्तथा

॥२४॥

ऋं ःं कपोलयोश्चैव ळं ॡं नासापुटद्वये ।

एमेमोष्ठद्वयोरोमौं दंतपंक्तिद्वयोः क्रमात्

॥२५॥

अं जिह्वायामथो तालुन्यः प्रयोज्यो यथाक्रमम् ।

कवर्गं दक्षिणे हस्ते न्यसेत्पञ्चसु संधिषु

॥२६॥

चवर्गं च तथा वामहस्तसंधिषु विन्यसेत् ।

टवर्गं च तवर्गं च पादयोरुभयोरपि

॥२७॥

पफौ तु पार्श्वयोः पृष्ठे नाभौ चापि बभौ ततः ।

न्यसेन्मकारं हृदये त्वगादिषु यथाक्रमम्

॥२८॥

यकरादिसकारांतान्न्यसेत्सप्तसु धातुषु ।

हंकारं हृदयस्यांतः क्षकारं भ्रूयुगांतरे

॥२९॥

एवं वर्णान्प्रविन्यस्य पञ्चाशद्रुद्रवर्त्मना ।

अंगवक्त्रकलाभेदात्पञ्च ब्रह्माणि विन्यसेत्

॥३०॥

करन्यासाद्यमपि तैः कृत्वा वाथ न वा क्रमात् ।

शिरोवदनहृद्गुह्यपादेष्वेतानि कल्पयेत्

॥३१॥

ततश्चोर्ध्वादिवक्त्राणि पश्चिमांतानि कल्पयेत् ।

ईशानस्य कलाः पञ्च पञ्चस्वेतेषु च क्रमात्

॥३२॥

ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ।

चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः

॥३३॥

हृत्कंठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ।

अघोरस्य कलाश्चाष्टौ पादयोरपि हस्तयोः

॥३४॥

पश्चात्त्रयोःदशकलाः पायुमेढ्रोरुजानुषु ।

जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत्

॥३५॥

घ्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः ।

अष्टत्रिंशत्कलान्यासमेवं कृत्वानुपूर्वशः

॥३६॥

पश्चात्प्रणवविद्धीमान्प्रणवन्यासमाचरेत् ।

बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः

॥३७॥

पार्श्वोदरोरुजंघेषु पादयोः पृष्ठतस्तथा ।

इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः

॥३८॥

हंसन्यासं प्रकुर्वीत शिवशास्त्रे यथोदितम् ।

बीजं विभज्य हंसस्य नेत्रयोर्घ्राणयोरपि

॥३९॥

विभज्य बाहुनेत्रास्यललाटे घ्राणयोरपि ।

कक्षयोः स्कन्धयोश्चैव पार्श्वयोस्तनयोस्तथा

॥४०॥

कठ्योः पाण्योर्गुल्फयोश्च यद्वा पञ्चांगवर्त्मना ।

हंसन्यासमिमं कृत्वा न्यसेत्पञ्चाक्षरीं ततः

॥४१॥

यथा पूर्वोक्तमार्गेण शिवत्वं येन जायते ।

नाशिवः शिवमभ्यस्येन्नाशिवः शिवमर्चयेत्

॥४२॥

नाशिवस्तु शिवं ध्यायेन्नाशिवम्प्राप्नुयाच्छिवम् ।

तस्माच्छैवीं तनुं कृत्वा त्यक्त्वा च पशुभावनाम्

॥४३॥

शिवो ऽहमिति संचिन्त्य शैवं कर्म समाचरेत् ।

कर्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुत्तरः ।

ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्तिताः

॥४४॥

कर्मयज्ञरताः केचित्तपोयज्ञरताः परे ।

जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा

॥४५॥

ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरम् ।

क्रमयज्ञो द्विधा प्रोक्तः कामाकामविभेदतः

॥४६॥

कामान्कामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् ।

अकामे रुद्रभवने भोगान्भुक्त्वा ततश्च्युतः

॥४७॥

तपोयज्ञरतो भूत्वा जायते नात्र संशयः ।

तपस्वी च पुनस्तस्मिन्भोगान् भुक्त्वा ततश्च्युतः

॥४८॥

जपध्यानरतो भूत्वा जायते भुवि मानवः ।

जपध्यानरतो मर्त्यस्तद्वैशिष्ट्यवशादिह

॥४९॥

ज्ञानं लब्ध्वाचिरादेव शिवसायुज्यमाप्नुयात् ।

तस्मान्मुक्तो शिवाज्ञप्तः कर्मयज्ञो ऽपि देहिनाम्

॥५०॥

अकामः कामसंयुक्तो बन्धायैव भविष्यति ।

तस्मात्पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत्

॥५१॥

ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ।

हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः

॥५२॥

ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ।

बहिः कर्मकरा यद्वन्नातीव फलभागिनः

॥५३॥

दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ।

ध्यानिनां हि वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम्

॥५४॥

यथेह कर्मणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम् ।

ध्यानयज्ञरतास्तस्माद्देवान्पाषाणमृण्मयान्

॥५५॥

नात्यंतं प्रतिपद्यंते शिवयाथात्म्यवेदनात् ।

आत्मस्थं यः शिवं त्यक्त्वा बहिरभ्यर्चयेन्नरः

॥५६॥

हस्तस्थं फलमुत्सृज्य लिहेत्कूर्परमात्मनः ।

ज्ञानाद्ध्यानं भवेद्ध्यानाज्ज्ञानं भूयः प्रवर्तते

॥५७॥

तदुभाभ्यां भवेन्मुक्तिस्तस्माद्ध्यानरतो भवेत् ।

द्वादशान्ते तथा मूर्ध्नि ललाटे भ्रूयुगान्तरे

॥५८॥

नासाग्रे वा तथास्ये वा कन्धरे हृदये तथा ।

नाभौ वा शाश्वतस्थाने श्रद्धाविद्धेन चेतसा

॥५९॥

बहिर्यागोपचारेण देवं देवीं च पूजयेत् ।

अथवा पूजयेन्नित्यं लिंगे वा कृतकेपि वा

॥६०॥

वह्नौ वा स्थण्डिले वाथ भक्त्या वित्तानुसारतः ।

अथवांतर्बहिश्चैव पूजयेत्परमेश्वरम् ।

अंतर्यागरतः पूजां बहिः कुर्वीत वा न वा

॥६१॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तनित्यनैमित्तिककर्मवर्णनं नाम द्वाविंशोऽध्यायः