शिवशास्त्रोक्तपूजनवर्णनम्
उपमन्युरुवाच
अनुक्तं चात्र पूजायाः कमलोपभयादिव ।
यत्तदन्यत्प्रवक्ष्यामि समासान्न तु विस्तरात्
॥१॥हविर्निवेदनात्पूर्वं दीपदानादनन्तरम् ।
कुर्यादावरणाभ्यर्चां प्राप्ते नीराजने ऽथ वा
॥२॥तत्रेशानादिसद्यांतं रुद्राद्यस्त्रांतमेव च ।
शिवस्य वा शिवायाश्च प्रथमावरणे जपेत्
॥३॥ऐशान्यां पूर्वभागे च दक्षिणे चोत्तरे तथा ।
पश्चिमे च तथाग्नेय्यामैशान्यां नैरृते तथा
॥४॥वायव्यां पुनरैशान्यां चतुर्दिक्षु ततः परम् ।
गर्भावरणमाख्यातं मन्त्रसंघातमेव वा
॥५॥हृदयाद्यस्त्रपर्यंतमथवापि समर्चयेत् ।
तद्बहिः पूर्वतः शक्रं यमं दक्षिणतो यजेत्
॥६॥वरुणं वारुणे भागे धनदं चोत्तरे बुधः ।
ईशमैशे ऽनलं स्वीये नैरृते निरृतिं यजेत्
॥७॥मारुते मारुतं विष्णुं नैरृते विधिमैश्वरे ।
बहिःपद्मस्य वज्राद्यान्यब्जांतान्यायुधान्यपि
॥८॥प्रसिद्धरूपाण्याशासु लोकेशानां क्रमाद्यजेत् ।
देवं देवीं च संप्रेक्ष्य सर्वावरणदेवताः
॥९॥बद्धांजलिपुटा ध्येयाः समासीना यथासुखम् ।
सर्वावरणदेवानां स्वाभिधानैर्नमोयुतैः
॥१०॥पुष्पैः संपूजनं कुर्यान्नत्वा सर्वान्यथाक्रमम् ।
गर्भावरणमेवापि यजेत्स्वावरणेन वा
॥११॥योगे ध्याने जपे होमे वाह्ये वाभ्यंतरे ऽपि वा ।
हविश्च षड्विधं देयं शुद्धं मुद्गान्नमेव च
॥१२॥पायसं दधिसंमिश्रं गौडं च मधुनाप्लुतम् ।
एतेष्वेकमनेकं वा नानाव्यंजनसंयुतम्
॥१३॥गुडखंडन्वितं दद्यान्मथितं दधि चोत्तमम् ।
भक्ष्याण्यपूपमुख्यानि स्वादुमंति फलानि च
॥१४॥रक्तचन्दनपुष्पाढ्यं पानीयं चातिशीतलम् ।
मृदु एलारसाक्तं च खण्डं पूगफलस्य च
॥१५॥दलानि नागवल्ल्याश्च युक्तानि खदिरादिभिः ।
गौराणि स्वर्णवर्णानि विहितानि शिवानि च ।
शैलमेव सितं चूर्णं नातिरूक्षं न दूषितम्
॥१६॥कर्पूरं चाथ कंकोलं जात्यादि च नवं शुभम् ।
आलेपनं चन्दनं स्यान्मूलकाष्ठंरजोमयम्
॥१७॥कस्तूरिका कुंकुमं च रसो मृगमदात्मकः ।
पुष्पाणि सुरभीण्येव पवित्राणि शुभानि च
॥१८॥निर्गंधान्युग्रगंधानि दूषितान्युषितानि च ।
स्वयमेव विशीर्णानि न देयानि शिवार्चने
॥१९॥वासांसि च मृदून्येव तपनीयमयानि च ।
विद्युद्वलयकल्पानि भूषणानि विशेषतः
॥२०॥सर्वाण्येतानि कर्पूरनिर्यासागुरुचन्दनैः ।
आधूपितानि पुष्पौघैर्वासितानि समंततः
॥२१॥चन्दनागुरुकर्पूरकाष्ठगुग्गुलुचूर्णिकैः ।
घृतेन मधुना चैव सिद्धो धूपः प्रशस्यते
॥२२॥कपिलासम्भवेनैव घृतेनातिसुगन्धिना ।
नित्यं प्रदीपिता दीपाः शस्ताः कर्पूरसंयुताः
॥२३॥पञ्चगव्यं च मधुरं पयो दधि घृतं तथा ।
कपिलासम्भवं शम्भोरिष्टं स्नाने च पानके
॥२४॥आसनानि च भद्राणि गजदंतमयानि च ।
सुवर्णरत्नयुक्तानि चित्राण्यास्तरणानि च
॥२५॥मृदूपधानयुक्तानि सूक्ष्मतूलमयानि च ।
उच्चावचानि रम्याणि शयनानि सुखानि च
॥२६॥नद्यस्समुद्रगामिन्या नटाद्वाम्भः समाहृतम् ।
शीतञ्च वस्त्रपूतं तद्विशिष्टं स्नानपानयोः
॥२७॥छत्रं शशिनिभं चारु मुक्तादामविराजितम् ।
नवरत्नचितं दिव्यं हेमदण्डमनोहरम्
॥२८॥चामरे च सिते सूक्ष्मे चामीकरपरिष्कृते ।
राजहंसद्वयाकारे रत्नदंडोपशोभिते
॥२९॥दर्पणं चापि सुस्निग्धं दिव्यगन्धानुलेपनम् ।
समंताद्रत्नसञ्छन्नं स्रग्वैरैश्चापि भूषितम्
॥३०॥गम्भीरनिनदः शंखो हंसकुंदेन्दुसन्निभः ।
आस्वपृष्ठादिदेशेषु रत्नचामीकराचितः
॥३१॥काहलानि च रम्याणि नानानादकराणि च ।
सुवर्णनिर्मितान्येव मौक्तिकालंकृतानि च
॥३२॥भेरीमृदंगमुरजतिमिच्छपटहादयः ।
समुद्रकल्पसन्नादाः कल्पनीयाः प्रयत्नतः
॥३३॥भांडान्यपि च रम्याणि पत्राण्यपि च कृत्स्नशः ।
तदाधाराणि १ सर्वाणि सौवर्णान्येव साधयेत्
॥३४॥आलयं च महेशस्य शिवस्य परमात्मनः ।
राजावसथवत्कल्प्यं शिल्पशास्त्रोक्तलक्षणम्
॥३५॥उच्चप्राकारसंभिन्नं भूधराकारगोपुरम् ।
अनेकरत्नसंच्छन्नं हेमद्वारकपाटकम्
॥३६॥तप्तजांबूनदमयं रत्नस्तम्भशतावृतम् ।
मुक्तादामवितानाढ्यं विद्रुमद्वारतोरणम्
॥३७॥चामीकरमयैर्दिव्यैर्मुकुटैः कुम्भलक्षणैः ।
अलंकृतशिरोभागमस्त्र २ आजेन चिह्नितम्
॥३८॥राजन्यार्हनिवासैश्च राजवीथ्यादिशोभितैः ।
प्रोच्छ्रितप्रांशुशिखरैः प्रासादैश्च समंततः
॥३९॥आस्थानस्थानवर्यैश्च स्थितैर्दिक्षु विदिक्षु च ।
अत्यन्तालंकृतप्रांतमंतरावरणैरिव
॥४०॥उत्तमस्त्रीसहस्रैश्च नृत्यगेयविशारदैः ।
वेणुवीणाविदग्धैश्च पुरुषैर्बहुभिर्युतम्
॥४१॥रक्षितं रक्षिभिर्वीरैर्गजवाजिरथान्वितैः ।
अनेकपुष्पवाटीभिरनेकैश्च सरोवरैः
॥४२॥दीर्घिकाभिरनेकाभिर्दिग्विदिक्षु विराजितम् ।
वेदवेदांततत्त्वज्ञैश्शिवशास्त्रपरायणैः
॥४३॥शिवाश्रमरतैर्भक्तैः शिवशास्त्रोक्तलक्षणैः ।
शांतैः स्मितमुखैः स्फीतैः सदाचारपरायणैः
॥४४॥शैवैर्माहेश्वरैश्चैव श्रीमद्भिस्सेवितद्विजैः ।
एवमंतर्बहिर्वाथयथाशक्तिविनिर्मितैः
॥४५॥स्थाने शिलामये दांते दारवे चेष्टकामये ।
केवलं मृन्मये वापि पुण्यारण्ये ऽथ वा गिरौ
॥४६॥नद्यां देवालये ऽन्यत्र देशे वाथ गृहे शुभे ।
आढ्यो वाथ दरिद्रो वा स्वकां शक्तिमवंचयन् ।
द्रव्यैर्न्यायार्जितैरेव भक्त्या देवं समर्चयेत्
॥४७॥अथान्यायार्जितैश्चापि भक्त्या चेच्छिवमर्चयेत् ।
न तस्य प्रत्यवायो ऽस्ति भाववश्यो यतः प्रभुः
॥४८॥न्यायार्जितैरपि द्रव्यैरभक्त्या पूजयेद्यदि ।
न तत्फलमवाप्नोति भक्तिरेवात्र कारणम्
॥४९॥भक्त्या वित्तानुसारेण शिवमुद्दिश्य यत्कृतम् ।
अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः
॥५०॥भक्त्या प्रचोदितः कुर्यादल्पवित्तोपि मानवः ।
महाविभवसारोपि न कुर्याद्भक्तिवर्जितः
॥५१॥सर्वस्वमपि यो दद्याच्छिवे भक्तिविवर्जितः ।
न तेन फलभाक्स स्याद्भक्तिरेवात्र कारणम्
॥५२॥न तत्तपोभिरत्युग्रैर्न च सर्वैर्महामखैः ।
गच्छेच्छिवपुरं दिव्यं मुक्त्वा भक्तिं शिवात्मकम्
॥५३॥गुह्याद्गुह्यतरं कृष्ण सर्वत्र परमेश्वरे ।
शिवे भक्तिर्न संदेहस्तया भक्तो विमुच्यते
॥५४॥शिवमंत्रजपो ध्यानं होमो यज्ञस्तपःश्रुतम् ।
दानमध्ययनं सर्वे भावार्थं नात्र संशयः
॥५५॥भावहीनो नरस्सर्वं कृत्वापि न विमुच्यते ।
भावयुक्तः पुनस्सर्वमकृत्वापि विमुच्यते
॥५६॥चांद्रायणसहस्रैश्च प्राजापत्यशतैस्तथा ।
मासोपवासैश्चान्यैश्च शिवभक्तस्य किं पुनः
॥५७॥अभक्ता मानवाश्चास्मिंल्लोके गिरिगुहासु च ।
तपंति चाल्पभोगार्थं भक्तो भावेन मुच्यते
॥५८॥सात्त्विकं मुक्तिदं कर्म सत्त्वे वै योगिनः स्थिताः ।
राजसं सिद्धिदं कुर्युः कर्मिणो रजसावृताः
॥५९॥असुरा राक्षसाश्चैव तमोगुणसमन्विताः ।
ऐहिकार्थं यजन्तीशं नराश्चान्ये ऽपि तादृशाः
॥६०॥तामसं राजसं वापि सात्त्विकं भावमेव च ।
आश्रित्य भक्त्या पूजाद्यं कुर्वन्भद्रं समश्नुते
॥६१॥यतः पापार्णवात्त्रातुं भक्तिर्नौरिव निर्मिता ।
तस्माद्भक्त्युपपन्नस्य रजसा तमसा च किम्
॥६२॥अन्त्यजो वाधमो वापि मूर्खो वा पतितो ऽपि वा ।
शिवं प्रपन्नश्चेत्कृष्ण पूज्यस्सर्वसुरासुरैः
॥६३॥तस्मात्सर्वप्रयत्नेन भक्त्यैव शिवमर्चयेत् ।
अभुक्तानां क्वचिदपि फलं नास्ति यतस्ततः
॥६४॥वक्ष्याम्यतिरहस्यं ते शृणु कृष्ण वचो मम ।
वेदैश्शास्त्रैर्वेदविद्भिर्विचार्य सुविनिश्चितम्
॥६५॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं नाम पञ्चविंशोऽध्यायः