हरिविधिमोहवर्णनम्
उपमन्युरुवाच
नित्यनैमित्तिकात्काम्याद्या सिद्धिरिह कीर्तिता ।
सा सर्वा लभ्येत सद्यो लिंगबेरप्रतिष्ठया
॥१॥सर्वो लिंगमयो लोकस्सर्वं लिंगे प्रतिष्ठितम् ।
तस्मात्प्रतिष्ठिते लिंगे भवेत्सर्वं पतिष्ठितम्
॥२॥ब्रह्मणा विष्णुना वापि रुद्रेणान्येन केन वा ।
लिंगप्रतिष्ठामुत्सृज्य क्रियते स्वपदस्थितिः
॥३॥किमन्यदिह वक्तव्यं प्रतिष्ठां प्रति कारणम् ।
पर्तिष्ठितं शिवेनापि लिंगं वैश्वेश्वरं यतः
॥४॥तस्मात्सर्वप्रयत्नेन परत्रेह च शर्मणे ।
स्थापयेत्परमेशस्य लिंगं बेरमथापि वा
॥५॥श्रीकृष्ण उवाच
किमिदं लिंगमाख्यातं कथं लिंगी महेश्वरः ।
कथं च लिंगभावो ऽस्य कस्मादस्मिञ्छिवो ऽर्च्यते
॥६॥उपमन्युरुवाच
अव्यक्तं लिंगमाख्यातं त्रिगुणप्रभवाप्ययम् ।
अनाद्यनंतं विश्वस्य यदुपादानकारणम्
॥७॥तदेव मूलप्रकृतिर्माया च गगनात्मिका ।
तत एव समुत्पन्नं जगदेतच्चराचरम्
॥८॥अशुद्धं चैव शुद्धं यच्छुद्धाशुद्धं च तत्त्रिधा ।
ततः शिवो महेशश्च रुद्रो विष्णुः पितामहः
॥९॥भूतानि चेन्द्रियैर्जाता लीयन्ते ऽत्र शिवाज्ञया ।
अत एव शिवो लिंगो लिंगमाज्ञापयेद्यतः
॥१०॥यतो न तदनाज्ञातं कार्याय प्रभवेत्स्वतः ।
ततो जातस्य विश्वस्य तत्रैव विलयो यतः
॥११॥अनेन लिंगतां तस्य भवेन्नान्येन केनचित् ।
लिंगं च शिवयोर्देहस्ताभ्यां यस्मादधिष्ठितम्
॥१२॥अतस्तत्र शिवः साम्बो नित्यमेव समर्चयेत् ।
लिंगवेदी महादेवी लिंगं साक्षान्महेश्वरः
॥१३॥तयोः संपूजनादेव स च सा च समर्चितौ ।
न तयोर्लिंगदेहत्वं विद्यते परमार्थतः
॥१४॥यतस्त्वेतौ विशुद्धौ तौ देहस्तदुपचारतः ।
तदेव परमा शक्तिः शिवस्य परमात्मनः
॥१५॥शक्तिराज्ञां यदादत्ते प्रसूते तच्चराचरम् ।
न तस्य महिमा शक्यो वक्तुं वर्षशतैरपि
॥१६॥येनादौ मोहितौ स्यातां ब्रह्मनारायणावपि ।
पुरा त्रिभुवनस्यास्य प्रलये समुपस्थिते
॥१७॥वारिशय्यागतो विष्णुः सुष्वापानाकुलः सुखम् ।
५८९ यदृच्छया गतस्तत्र ब्रह्मा लोकपितामहः
॥१८॥ददर्श पुण्डरीकाक्षं स्वपन्तं तमनाकुलम् ।
मायया मोहितः शम्भोर्विष्णुमाह पितामहः
॥१९॥कस्त्वं वदेत्यमर्षेण प्रहृत्योत्थाप्य माधवम् ।
स तु हस्तप्रहारेण तीव्रेणाभिहतः क्षणात्
॥२०॥प्रबुद्धोत्थाय शयनाद्ददर्श परमेष्ठिनम् ।
तमाह चांतस्संक्रुद्धः स्वयमक्रुद्धवद्धरिः
॥२१॥कुतस्त्वमागतो वत्स कस्मात्त्वं व्याकुलो वद ।
इति विष्णुवचः श्रुत्वा प्रभुत्वगुणसूचकम्
॥२२॥रजसा बद्धवैरस्तं ब्रह्मा पुनरभाषत ।
वत्सेति मां कुतो ब्रूषे गुरुः शिष्यमिवात्मनः
॥२३॥मां न जानासि किं नाथं प्रपञ्चो यस्य मे कृतिः ।
त्रिधात्मानं विभज्येदं सृष्ट्वाथ परिपाल्यते
॥२४॥संहरामि नमे कश्चित्स्रष्टा जगति विद्यते ।
इत्युक्ते सति सो ऽप्याह ब्रह्माणं विष्णुरव्ययः
॥२५॥अहमेवादिकर्तास्य हर्ता च परिपालकः ।
भवानपि ममैवांगादवतीर्णः पुराव्ययात्
॥२६॥मन्नियोगात्त्वमात्मानं त्रिधा कृत्वा जगत्त्रयम् ।
सृजस्यवसि चांते तत्पुनः प्रतिसृजस्यपि
॥२७॥विस्मृतोसि जगन्नाथं नारायणमनामयम् ।
तवापि जनकं साक्षान्मामेवमवमन्यसे
॥२८॥तवापराधो नास्त्यत्र भ्रांतोसि मम मायया ।
मत्प्रसादादियं भ्रांतिरपैष्यति तवाचिरात्
॥२९॥शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् ।
कर्ता भर्ता च हर्ता च न मयास्ति समो विभुः
॥३०॥एवमेव विवादोभूद्ब्रह्मविष्ण्वोः परस्परम् ।
अभवच्च महायुद्धं भैरवं रोमहर्षणम्
॥३१॥मुष्टिभिर्न्निघ्नतोस्तीव्रं रजसा बद्धवैरयोः ।
तयोर्दर्पापहाराय प्रबोधाय च देवयोः
॥३२॥मध्ये समाविरभवल्लिंगमैश्वरमद्भुतम् ।
ज्वालामालासहस्राढ्यमप्रमेयमनौपमम्
॥३३॥क्षयवृद्धिविनिर्मुक्तमादिमध्यांतवर्जितम् ।
तस्य ज्वालासहस्रेण ब्रह्मविष्णू विमोहितौ
॥३४॥विसृज्य युद्धं किं त्वेतदित्यचिंतयतां तदा ।
न तयोस्तस्य याथात्म्यं प्रबुद्धमभवद्यदा
॥३५॥तदा समुद्यतौ स्यातां तस्याद्यंतं परीक्षितुम्
॥३६॥तत्र हंसाकृतिर्ब्रह्मा विश्वतः पक्षसंयुतः ।
मनोनिलजवो भूत्वा गतस्तूर्ध्वं प्रयत्नतः
॥३७॥नारायणोपि विश्वात्मा लीलाञ्जनचयोपमम् ।
वाराहममितं रूपमस्थाय गतवानधः
॥३८॥एवं वर्षसहस्रं तु त्वरन् विष्णुरधोगतः ।
नापश्यदल्पमप्यस्य मूलं लिंगस्य सूकरः
॥३९॥तावत्कालं गतश्चोर्ध्वं तस्यांतं ज्ञातुमिच्छया ।
श्रांतोत्यंतमदृष्ट्वांतं पापताधः पितामहः
॥४०॥५९० तथैव भगवान् विष्णुः श्रांतः संविग्नलोचनः ।
क्लेशेन महता तूर्णमधस्तादुत्थितो ऽभवत्
॥४१॥समागतावथान्योन्यं विस्मयस्मेरवीक्षणौ ।
मायया मोहितौ शंभोः कृत्याकृत्यं न जग्मतुः
॥४२॥पृष्ठतः पार्श्वतस्तस्य चाग्रतश्च स्थितावुभौ ।
प्रणिपत्य किमात्मेदमित्यचिंतयतां तदा
॥४३॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं नाम चतुस्त्रिंशोऽध्यायः