मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३५४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 354

गुप्तेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि देवगुप्तेश्वरं प्रिये ॥

तत्र पश्चिमवायव्ये यत्र सोमोऽकरोत्तपः

॥१॥

गुप्तो भूत्वा कुष्ठरोगाल्लज्जयाधोमुखः स्थितः ॥

दिव्यं वर्षसहस्रं तु प्रभासक्षेत्र उत्तमे

॥२॥

ततः प्रत्यक्षतां यातः सर्वदेवपतिः शिवः ॥

तुष्टो बभूव चंद्रस्य क्षयनाशं तथाऽकरोत्

॥३॥

क्षयरोगविनिर्मुक्तस्ततोऽभून्मृगलांछनः ॥

प्रतिष्ठाप्य महालिंगं सुरासुरनमस्कृतम्

॥४॥

गुप्तस्तेपे तपो यस्मात्तस्माद्गुप्तेश्वरः स्मृतः ॥

सर्वकुष्ठहरो देवो दर्शनात्स्पर्शनादपि

॥५॥

सोमवारे विशेषेण यस्तल्लिंगं प्रपूजयेत् ॥

तस्यान्वयेऽपि देवेशि कुष्ठी कश्चिन्न जायते

॥६॥

इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गुप्तेश्वरमाहात्म्यवर्णनंनाम चतुष्पञ्चाशदुत्तरत्रिशततमो ऽध्यायः ॥ ३५४ ॥