मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १७९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 179

ततो गच्छेन्महादेवि लिंगं पापप्रणाशनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि लिंगं पापप्रणाशनम् ॥

सिद्धेशाद्दक्षिणे कोणे धनुषां त्रितये स्थितम् ॥

माण्डव्येश्वरनामानं महापातकनाशनम्

॥१॥

माघे मासे चतुर्दश्यां पूजां जागरणं तथा ॥

कुर्याद्योऽतीन्द्रियो मर्त्यो न स मर्त्ये पुनर्व्रजेत्

॥२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासज्ञेत्रमाहात्म्ये माण्डव्येश्वरमाहात्म्यवर्णनंनामैकोना शीत्युत्तरशततमोऽध्यायः ॥ १७९ ॥