मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २९८

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 298

ऋषितोयापश्चिमे तु तत्र गव्यूतिमात्रतः

ईश्वर उवाच

ऋषितोयापश्चिमे तु तत्र गव्यूतिमात्रतः ॥

संगालेश्वरनामास्ति सर्वपातकनाशनः

॥१॥

गुप्तस्तत्र प्रयागश्च देवो वै माधवस्तथा ॥

जाह्नवी यमुना चैव देवी तत्र सरस्वती

॥२॥

अन्यानि तत्र तीर्थानि बहूनि च वरानने ॥

स्नात्वा दृष्ट्वा पूजयित्वा मुक्तः स्यात्सर्वकिल्बिषैः

॥३॥

पार्वत्युवाच

कथय त्वं महेशान सर्वदेवनमस्कृत ॥

तीर्थराजः प्रयागस्तु कथं विष्णुः सनातनः

॥४॥

कथं गंगा च यमुना तथा देवी सरस्वती ॥

अन्यान्यपि बहून्येव तीर्थानि वृषभध्वज

॥५॥

समायातानि तत्रैव संगालेश्वरसंनिधौ ॥

संगालेशेति किं नाम ह्येतन्मे वद कौतुकम्

॥६॥

ईश्वर उवाच

पुरा वै लिंगपतने सर्वदेवसमागमे ॥

सार्धत्रितयकोटीनि पुण्यानि सुरसुन्दरि

॥७॥

तीर्थानि तीर्थराजोऽयं प्रयागः समुपस्थितः ॥

आत्मानं गोपयामास तीर्थकोटिभिरावृतम्

॥८॥

ततस्तत्र समायाता ब्रह्मविष्णुपुरोगमाः ॥

विबुधास्तीर्थराजं तं ददृशुर्दिव्यचक्षुषा

॥९॥

तीर्थकोटिभिराकीर्णं पवित्रं पापनाशनम् ॥

लिंगस्य पतनं श्रुत्वा महादुःखेन संवृताः

॥१०॥

स्थिताः सर्वे तदा देवि ब्रह्माद्याः सुरसत्तमाः

॥११॥

एतस्मिन्नेव काले तु देवो रुद्रः सनातनः ॥

निरानंदः समायातो वाक्यमेतदुवाच ह

॥१२॥

शृणुध्वं वचनं देवा ब्रह्मविष्णुपुरोगमाः ॥

ऋषिशापान्निपतितं मम लिंगमनुत्तमम् ॥

तस्माल्लिंगं पूजयत सर्व कामार्थसिद्धये

॥१३॥

एवमुक्त्वा महादेवो देशे तस्मिन्स्थितः प्रिये ॥

ब्राह्मं च वैष्णवं रौद्रं तत्र कुण्डत्रयं स्मृतम्

॥१४॥

चतुर्थं त्रिसंगमाख्यं नदीनां यत्र संगमः ॥

गंगायाश्च सरस्वत्याः सूर्यपुत्र्यास्तथैव च

॥१५॥

कोटिरेका च तीर्थानां ब्रह्मकुण्डे व्यवस्थिता ॥

तथा च वैष्णवे कुण्डे कोटिरेका प्रकीर्तिता

॥१६॥

सार्धकोटिस्तु संप्रोक्ता शिवकुण्डे प्रकीर्तिता ॥

पश्चिमे ब्रह्मकुण्डं च पूर्वे वै वैष्णवं स्मृतम्

॥१७॥

मध्यभागे स्थितं यच्च रुद्रकुण्डं प्रकीर्तितम् ॥

कुण्डमध्याद्विनिर्गत्य यत्र गंगा वरानने

॥१८॥

सूर्यपुत्र्या समेता च तत्त्रिसंगम उच्यते ॥

अनयोरंतरे सूक्ष्मे तत्र गुप्ता सरस्वती

॥१९॥

एषु सन्निहितो नित्यं प्रयागस्तीर्थनायकः ॥

अत्रागत्य नरो यस्तु माघमासे वरानने

॥२०॥

स्नायात्प्रभातसमये मकरस्थे रवौ प्रिये ॥

किञ्चिदभ्युदिते सूर्ये शृणु तस्य च यत्फलम्

॥२१॥

आद्येनैकेन स्नानेन पापं यन्मनसा कृतम् ॥

व्यपोहति नरः सम्यक्छ्रद्धायुक्तो जितेन्द्रियः

॥२२॥

वाचिकं तु द्वितीयेन कायिकं तु तृतीयकात् ॥

संसर्गजं चतुर्थेन रहस्यं पञ्चमेन तु

॥२३॥

उपपातकानि षष्ठेन स्नानेनैव व्यपोहति

॥२४॥

अभिषेकेण कुण्डानां सप्तकृत्वो वरानने ॥

महांति चैव पापानि क्षाल्यंते पुरुषैः सदा

॥२५॥

यः स्नाति सकलं मासं प्रयागे गुप्तसंज्ञके ॥

ब्रह्मादिभिर्न तद्वक्तुं शक्यते कल्पकोटिभिः

॥२६॥

यानि कानि च तीर्थानि प्रभासे संति भामिनि ॥

तेभ्योऽतिवल्लभं तीर्थं सर्वपापप्रणाशनम्

॥२७॥

एषां संरक्षणार्थाय मया वै तत्र मातरः ॥

पूजनीयाः प्रयत्नेन नैवेद्यैर्विविधैः शुभैः

॥२८॥

कृष्णपक्षे चतुर्दश्यां श्रद्धायुक्तेन चेतसा ॥

तासामनुचरा देवि भूतप्रेताश्च कोटिशः

॥२९॥

तेषां भयविनाशाय ता मातॄश्च प्रपूजयेत् ॥

अस्मिंस्तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति

॥३०॥

यः कश्चित्कुरुते श्राद्धं पितॄनुद्दिश्य भक्तितः ॥

उद्धरेच्च पितुर्वर्गं मातुर्वर्गं नरोत्तमः

॥३१॥

वृषभस्तत्र दातव्यः सम्यग्यात्राफलेप्सुभिः ॥

एवं यः कुरुते यात्रां तस्य फलमनन्तकम्

॥३२॥

एवं गुप्तप्रयागस्य माहात्म्यं कथितं तव ॥

श्रुत्वाभिनन्द्य पुरुषः प्राप्नुयाच्छंकरालयम्

॥३३॥

इति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गुप्तप्रया गमाहात्म्यवर्णनंनामाष्टनवत्युत्तरद्विशततमोऽध्यायः ॥ २९८ ॥