ऽनिलेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि अनिलेश्वरमुत्तमम् ॥
तस्योत्तरेशानदिक्स्थं धनुषां त्रितये प्रिये
॥१॥लिंगं महाप्रभावं हि दर्शनात्पापनाशनम् ॥
वसूनां पञ्चमो योऽसावनिलः परिकीर्तितः
॥२॥स चाऽऽराध्य महादेवं प्रत्यक्षीकृतवान्भवम् ॥
लिंगं प्रतिष्ठयामास सम्यक्छ्रद्धासमन्वितः
॥३॥एवमीशप्रभावेन सुतस्तस्याऽप्यभूद्बली ॥
मनोजवेति विख्यातो ह्यविज्ञातगतिस्तथा
॥४॥तं दृष्ट्वा व्याधिना मर्त्यो पीड्यते न कदाचन ॥
नान्धो न बधिरो मूको न रोगी न च निर्धनः ॥
कदाचिज्जायते मर्त्यस्तेन दृष्टेन भूतले
॥५॥पुष्पमेकं तु यो दद्यात्तस्य लिंगस्य चोपरि ॥
सुखसौभाग्यसंपन्नः स सदा रूपवान्भवेत्
॥६॥इत्येवं कथितं देवि माहात्म्यं पापनाशनम् ॥
श्रुत्वाऽनुमोद्य भावेन सर्वकामैः समृद्ध्यते
॥७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ऽनिलेश्वरमाहात्म्यवर्णनंनाम नवोत्तरशतत मोऽध्यायः ॥ १०९ ॥