ततो गच्छेन्महादेवि महाप्रभासमुत्तमम्
ईश्वर उवाच
ततो गच्छेन्महादेवि महाप्रभासमुत्तमम् ॥
जलप्रभासतो याम्ये यममार्गविघातकम्
॥१॥शृणु तस्यैव माहात्म्यं यथा जातं धरातले
॥२॥पूर्वं त्रेतायुगे देवि स्पर्शलिंगं तु तत्स्मृतम् ॥
दिव्यं तेजोमयं नृणां स्पर्शनान्मुक्तिदायकम्
॥३॥अथ काले च कस्मिंश्चिद्वज्रिणाच्छादितं प्रिये ॥
इन्द्रेणागत्य वसुधां भयाक्रांतेन सुन्दरि
॥४॥उष्मा तदुद्भवो देवि निर्गच्छन्नवरोधितः ॥
दशकोटिप्रविस्तीर्णं ज्वालाग्रं लिंगरूपधृक्
॥५॥प्रभासक्षेत्रमास्थाय भित्त्वाऽऽविर्भावमास्थितम् ॥
वज्रेण रुंधिते देवि भित्त्वा चैव वसुंधराम्
॥६॥धूमसंघैः समेतं तु व्यापयामास तज्जगत् ॥
ततस्त्रैलोक्यमखिलं ज्वालाभिर्व्याकुलीकृतम्
॥७॥ततः सुरगणाः सर्व ऋषयो वेदपारगाः ॥
अस्तुवन्विविधैः सूक्तैर्वेदोक्तैः शशिशेखरम्
॥८॥संहरस्व सुरश्रेष्ठ तेजः स्वदहनात्मकम् ॥
त्रै लोक्यं व्याकुलीभूतमेवं सर्वं चराचरम् ॥
न यावत्प्रलयं याति तावद्रक्ष सुरेश्वर
॥९॥ईश्वर उवाच
एवमाभाषमाणेषु त्रिदिवेषु सुरेश्वरि ॥
तत्तेजः पञ्चधाविष्टं व्याप्याशेषं जगत्त्रयम्
॥१०॥पञ्चप्रभासरूपेण भित्त्वा तत्र वसुन्धराम् ॥
येन मार्गेण निष्क्रान्तं तन्मार्गे च महन्महः
॥११॥तत्र तैः स्थापितं द्वारं सुप्रदेशेऽश्मजं प्रिये ॥
पिहितेऽथ च रंध्रेऽस्मिन्धूमो नाशमुपेयिवान्
॥१२॥स्वस्थाश्चैवाभवँल्लोकास्तेजस्तत्रैव संस्थितम् ॥
एवं मया प्रेरितास्ते लिंगं तत्र समादधुः
॥१३॥तन्महस्तत्र देवेशि विश्राममकरोत्तदा ॥
ततो महाप्रभासेति कीर्त्यते देवदानवैः
॥१४॥यस्तं पूजयते भक्त्या लिंगं पुष्पैः पृथग्विधैः ॥
स याति परमं स्थानं जरामरणवर्जितम्
॥१५॥दृष्टेन तेन देवेशि मुच्यते पातकैर्नरः ॥
लभते वाञ्छितान्कामान्मनसा चेप्सितान्प्रिये
॥१६॥हिरण्यं तत्र दातव्यं ब्राह्मणे शंसितव्रते ॥
गोदानं विधिवत्तत्र देयं चैव द्विजन्मने
॥१७॥एवं कृत्वा महादेवि लभते जन्मनः फलम् ॥
राजसूयाश्वमेधानां प्राप्नुयात्फलमूर्जितम्
॥१८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये पञ्चमप्रभासक्षेत्रमाहात्म्यवर्णनंनामाष्टानवत्युत्तरशततमोऽध्यायः ॥ १९८ ॥