भद्रकालीबालार्कमाहात्म्यवर्णनम्
ईश्वर उवाच
तस्मादुत्तरभागे तु स्थानात्कौरवसंज्ञकात् ॥
भद्रकाली महादेवि तपः कृत्वा सुदुस्तरम्
॥१॥रविं संस्थापयामास भक्त्या परमया युता ॥
रविवारेण सप्तम्यां रक्त पुष्पानुलेपनैः
॥२॥यस्तं पूजयते भक्त्या कोटियज्ञफलं लभेत् ॥
मुच्यते वातपित्तोत्थै रोगैरन्यैश्च पुष्कलैः
॥३॥अश्वस्तत्रैव दातव्यः सम्यग्यात्राफलेप्सुभिः
॥४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्ये भद्रकालीबालार्कमाहात्म्यवर्णनंनाम द्विनवत्युत्तरद्विशततमोऽध्यायः ॥ २९२ ॥