मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १३६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 136

लोमशेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि लोमशेश्वरमुत्तमम् ॥

दुःखान्तकारिणीपूर्वे धनुषां सप्तके स्थितम्

॥१॥

स्थापितं तत्र देवेशि लोमशेन महर्षिणा ॥

गुहामध्ये महालिंगं तपः कृत्वा सुदुश्चरम्

॥२॥

कोटीनां त्रितयं सार्धमिंद्राद्याः स्वर्भुजः प्रिये ॥

यदा नाशं गमिष्यंति तदा तस्य क्षयो ध्रुवम्

॥३॥

यावंति देहरोमाणि इन्द्रास्तावन्त एव च ॥

क्रमादिन्द्रे विनष्टे तु तल्लोमपतनं भवेत्

॥४॥

एवमीशप्रसादेन चिरायुर्लोमशोऽभवत् ॥

ब्रह्माणः षड्विनश्यन्ति समग्रायुषि लोमशे

॥५॥

य एवं पूजयेद्भक्त्या तल्लिंगं लोमशार्चितम् ॥

सोऽपि दीर्घायुराप्नोति निर्व्याधिर्नीरुजः सुखी

॥६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये लोमशेश्वरमाहात्म्यवर्णनंनाम षट्त्रिंशदुत्तरशततमोऽध्यायः ॥ १३६ ॥