मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ५७

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 57

नीलकंठमाहात्म्यवर्णनम्

नारद उवाच

ततो विप्रा नारदश्च समाराध्य महेश्वरम् ॥

महीनगरके पुण्ये स्थापयामास शंकरम्

॥१॥

लोकानां च हितार्थाय केदारं लिंगमुत्तमम् ॥

अत्रीशादुत्तरे भागे महापातकनाशनम्

॥२॥

अत्रिकुण्डे नरः स्नात्वा श्राद्धं कृत्वा यथाविधि ॥

अत्रीशं च नमस्कृत्य केदारं यः प्रपश्यति

॥३॥

मातुः स्तन्यं पुनर्नैव स पिबेन्मुक्तिभाग्भवेत् ॥

ततो रुद्रो नीलकंठं नारदाय महात्मने

॥४॥

स्वयं दत्त्वा स्वयं तस्थौ महीनगरके शुभे ॥

कोटितीर्थे नरः स्नात्वा नीलकंठं प्रपश्यति

॥५॥

जयादित्यं नमस्कृत्य रुद्रलोकमवाप्नुयात् ॥

जयादित्यं पूजयंति कूपे स्नात्वा नरोत्तमाः

॥६॥

न तेषां वंशनाशोऽस्ति जयादित्यप्रसादतः ॥

इदं ते कथितं पार्थ महीनगरकस्य च

॥७॥

आख्यानं सकलं श्रुत्वा सर्वपापैः प्रमुच्यते

॥८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे नीलकंठमाहात्म्यवर्णनंनाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥