मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ३०

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 30

सेनानीत्वेऽभिषेकवर्णनम्

नारद उवाच

ततः स्कन्दः सुरैः सार्धं श्वेतपर्वत मस्तकात् ॥

उत्तीर्य तारकं हन्तुं दक्षिणां स दिशं ययौ

॥१॥

ततः सरस्वतीतीरे यानि भूतानि नारद ॥

ग्रहाश्चोपग्रहाश्चैव वेतालाः शाकिनी गणाः

॥२॥

उन्मादा ये ह्यपस्माराः पलादाश्च पिशाचकाः ॥

देवैस्तेषामाधिपत्ये सोऽभ्यषिच्यत पावकिः

॥३॥

यथा ते नैव मर्यादां संत्यजंति दुराशयाः ॥

एतैस्तस्मात्समाक्रांतः शरण्यं पावकिं व्रजेत्

॥४॥

अप्रकीर्णेन्द्रियं दांतं शुचिं नित्यमतंद्रितम् ॥

आस्तिकं स्कन्दभक्तं च वर्जयंति ग्रहादिकाः

॥५॥

महेश्वरं च ये भक्ता भक्ता नारायणं च ये ॥

तेषां दर्शनमात्रेण नश्यंते ते विदूरतः

॥६॥

ततः सर्वैः सुरैः सार्धं महीतीरं ययौ गुहः ॥

तत्र देवैः प्रकथितं महीमाहात्म्यमुत्तमम्

॥७॥

श्रृण्वन्विसिष्मिये स्कन्दः प्रणनाम च तां नदीम् ॥

ततो महीदक्षिणतस्तीरमाश्रित्य धिष्ठितम्

॥८॥

प्रणम्य शक्रप्रमुखा गुहं वचनमब्रुवन् ॥

अभिषिक्तं विना स्कन्द सेनापतिमकल्मषम्

॥९॥

न शर्म लभते सेना तस्मात्त्वमभिषेचय ॥

महीसागरसंभूतैः पुण्यैश्चापि शिवैर्जलैः

॥१०॥

अभिषेक्ष्यामहे त्वां च तत्र नो द्रष्टुमर्हसि ॥

यथा हस्तिपदे सर्वपदांतर्भाव इष्यते

॥११॥

सर्वतीर्थान्तरस्थानं तथार्णवमहीजले ॥

सर्वभूतमयो यद्वत्र्यंबकः परिकीर्त्यते

॥१२॥

सर्वतीर्थमयस्तद्वन्महीसागरसंगमः ॥

अर्धनारीश्वरं रूपं यथा रुद्रस्य सर्वदम्

॥१३॥

तथा महीसमुद्रस्य स्नानं सर्वफलप्रदम् ॥

येनात्र पितरः स्कन्द तर्पिता भक्तिभावतः

॥१४॥

तेन सर्वेषु तीर्थेषु तर्पिता नात्र संशयः ॥

न चैतद्धृदि मंतव्यं क्षारमेतज्जलं हि यत्

॥१५॥

यथा हि कटुतिक्तादि गवा ग्रस्तं हि क्षीरदम् ॥

एवमेतत्त्विदं तोयं पितॄणां तृप्ति दायकम्

॥१६॥

एवं ब्रुवत्सु देवेषु कपिलोऽपि मुनिर्जगौ ॥

सत्यमेतदुमापुत्र सर्वतीर्थमयी मही

॥१७॥

कर्दमो यस्त्वहमपि ज्ञात्वा तीर्थमहा गुणान् ॥

सर्वां भुवं परित्यज्य कृत्वा ह्यश्रममास्तितः

॥१८॥

ततो महेश्वरः प्राह सत्यमेतत्सुरोदितम् ॥

ब्रह्माद्यास्तं तथा प्राहुरत्र भूयोऽप्यथो गुरुः

॥१९॥

अत्राभिषेकं ते वीर करिष्यामः समादिश ॥

ततः सुविस्मितस्तत्र स्नात्वा स्कन्दो महामनाः

॥२०॥

अभिषिञ्चन्तु मां देवा इति तानब्रवीद्वचः ॥

ततोऽभिषेकसंभारान्सर्वान्संभृत्य शास्त्रतः

॥२१॥

जुहुवुर्मंत्रपूतेऽग्नौ चत्वारो मुख्यऋत्विजः ॥

ब्रह्मा च कपिलो जीवो विश्वामित्रश्चतुर्थकः

॥२२॥

अन्ये च शतशस्तत्र मुनयो वेदपारगाः ॥

तत्राद्भुतं महादेवो दर्शयामास भारत

॥२३॥

यदग्निकुण्डमध्यस्थो लिंगमूर्तिर्व्यदृश्यत ॥

अहमेवाग्निमध्यस्थो हविर्गृह्णामि नित्यशः

॥२४॥

एतत्संदर्शनार्थाय लिंगमूर्तिरभूद्विभुः ॥

तल्लिंगमतुलं देवा नमश्चक्रुर्मुदान्विताः

॥२५॥

सर्वपापापहं पार्थ सर्वकामफलप्रदम् ॥

तत्र होमावसाने च दत्ते हिमवता शुभे

॥२६॥

दिव्यरत्नान्विते स्कन्दो निषण्णः परमासने ॥

सर्वमंगलसंभारैर्विधिमंत्रपुरस्कृतम्

॥२७॥

अभ्यषिंचंस्ततो देवाः कुमारं शंकरात्मजम् ॥

इंद्रो विष्णुर्महावीर्यो ब्रह्मरुद्रौ च फाल्गुन

॥२८॥

आदित्याद्य ग्रहाः सर्वे तथोभावनिलानलौ ॥

आदित्या वसवो रुद्राः साध्याश्चैवाश्विनावुभौ

॥२९॥

विश्वेदेवाश्च मरुतो गंधर्वाप्सरसस्तथा ॥

देवब्रह्मर्षयश्चैव वालखिल्या मरीचिपाः

॥३०॥

विद्याधरा योगसिद्धाः पुलस्त्यपुलहादयः ॥

पितरः कश्यपोऽत्रिश्च मरीचिर्भृगुरंगिराः

॥३१॥

दक्षोऽथ मनवो ये च ज्योतींषि ऋतवस्तथा ॥

मूर्तिमत्यश्च सरितो महीप्रभृतिकास्तथा

॥३२॥

लवणाद्याः समुद्राश्च प्रभासाद्याश्च तीर्थकाः ॥

पृथिवी द्यौर्दिशश्चैव पादपाः पार्वतास्तथा

॥३३॥

आदित्याद्या मातरश्च कुर्वंत्यो गुहमंगलम् ॥

वासुकिप्रमुखा नागास्थथोभौ गरुडारुणौ

॥३४॥

वरुणो धनदश्चैव यमः सानुचरस्तथा ॥

राक्षसो निर्ऋतिश्चैव भूतानि च पलाशनाः

॥३५॥

धर्मो बृहस्पतिश्चैव कपिलो गाधिनंदनः ॥

बहुलत्वाच्च ये नोक्ता विविधा देवतागणाः

॥३६॥

ते च सर्वे महीकूले ह्यभ्यषिंचन्मुदा गुहम् ॥

ततो महास्वनामुग्रां देवदैत्यादिदर्पहाम्

॥३७॥

ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम् ॥

विष्णुर्ददौ वैजयंतीं मालां बलविवर्धिनीम्

॥३८॥

उमा ददौ चारजसी वाससी सूर्यसप्रभा ॥

गंगा कमंडलुं दिव्यममृतोद्भवमुत्तमम्

॥३९॥

मही महानदी तस्य चाक्षमालां ससागरा ॥

ददौ मुदा कुमाराय दंडं चैव बृहस्पतिः

॥४०॥

गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम् ॥

अरुणस्ताम्रचूडं च प्रददौ चरणायुधम्

॥४१॥

छागं च वरुणो राजा बलवीर्यसमन्वितम् ॥

कृष्णाजिनं तथा ब्रह्मा ब्रह्मण्याय ददौ जयम्

॥४२॥

चतुरोऽनुचरांश्चैव महावीर्यान्बलोत्कटान् ॥

नंदिसेनं लोहिताक्षं घण्टाकर्णं च मानसान्

॥४३॥

चतुर्थं चाप्यतिबलं ख्यातं कुसुममालिनम् ॥

ततः स्थाणुर्ददौ देवो महापारिषदं क्रतुम्

॥४४॥

स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम् ॥

जघान दोर्भ्यां संक्रुद्धः प्रयुतानि चतुर्दश

॥४५॥

यमः प्रादादनुचरौ यमकालोपमौ तदा ॥

उन्माथं च प्रमाथं च महावीर्यौ महाद्युती

॥४६॥

सुभ्राजौ भास्करस्यैव यौ सदा चानुयायिनौ ॥

तौ सूर्यः कार्तिकेयाय ददौ पार्थ मुदान्वितः

॥४७॥

कैलासश्रृङ्गसंकाशौ श्वेतमाल्यानुलेपनौ ॥

सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च

॥४८॥

ज्वालजिह्वं ज्योतिषं च ददावग्निर्महाबलौ ॥

परिघं च बलं चैव भीमं च सुमहाबलम्

॥४९॥

स्कंदाय त्रीननुचरान्ददौ विष्णुरुरुक्रमः ॥

उत्क्रोशं पंचजं चैव वज्रदण्डधरावुभौ

॥५०॥

ददौ महेशपुत्राय वासवः परवीरहा ॥

तौ हि शत्रून्महेन्द्रस्य जघ्नतुः समरे बहून्

॥५१॥

वर्धनं बंधनं चैव आयुर्वेदविशारदौ ॥

स्कन्दाय ददतुः प्रीतावश्विनौ भरतर्षभ

॥५२॥

बलं चातिबलं चैव महावक्त्रौ महाबलौ ॥

प्रददौ कार्तिकेयाय वायुश्चानुचरावुभौ

॥५३॥

घसं चातिघसं वीरौ वरुणश्च ददौ प्रभुः ॥

सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम्

॥५४॥

हिमवान्प्रददौ पार्थ साक्षाद्दौहित्रकाय वै ॥

कांचनं च ददौ मेरुर्मेघमालिनमेव च

॥५५॥

उच्छ्रितं चातिशृंगं च महापाषाणयोधिनौ ॥

स्वाहेयाय ददौ प्रीतः स विंध्यः पार्षदौ शुभौ

॥५६॥

संग्रहं विग्रहं चैव समुद्रोऽपि गधाधरौ ॥

प्रददौ पार्षदौ विरौ महीनद्या समन्वितः

॥५७॥

उन्मादं पुष्पदंतं च शंकुकर्णं तथैव च ॥

प्रददावग्निपुत्राय पार्वती शुभदर्शना

॥५८॥

जयं महाजयं चैव नागौ ज्वलनसूनवे ॥

प्रददुर्बलिनां श्रेष्ठौ सुपर्णः पार्षदावुभौ

॥५९॥

एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा ॥

सर्वे जगति ये मुख्या ददुः स्कंदाय पार्षदान्

॥६०॥

नानावीर्यान्महावीर्यान्नानायुधविभूषणान् ॥

बहुलत्वान्न शक्यंते संख्यातुं ते च फाल्गुन

॥६१॥

मातश्च ददुस्तस्मै तदा मातृगणान्प्रभो ॥

याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचराः

॥६२॥

प्रभावती विशालाक्षी गोपाला गोनसा तथा ॥

अप्सुजाता बृहद्दंडी कालिका बहुपुत्रका

॥६३॥

भयंकरी च चक्रांगी तीर्थनेमिश्च माधवी ॥

गीतप्रिया अलाताक्षी चटुला शलभामुखी

॥६४॥

विद्युज्जिह्वा रुद्रकाली शतोलूखलमेखला ॥

शतघंटाकिंकिणिका चक्राक्षी चत्वरालया

॥६५॥

पूतना रोदना त्वामा कोटरा मेघवाहिनी ॥

ऊर्ध्ववेणीधरा चैव जरायुर्जर्जरानना

॥६६॥

खटखेटी दहदहा तथा धमधमा जया ॥

बहुवेणी बहुशीरा बहुपादा बहुस्तनी

॥६७॥

शतोलूकमुखी कृष्णा कर्णप्रावरणा तथा ॥

शून्यालया धान्यवासा पशुदा धान्यदा सदा

॥६८॥

एताश्चान्याश्च बह्व्यश्च मातरो भरतर्षभ ॥

बहुलत्वादहं तासां न संख्यातुमिहोत्सहे

॥६९॥

वृक्षचत्वरवासिन्यश्चतुष्पथनिवेशनाः ॥

गुहास्मशानवासिन्यः शैलप्रस्रवणालयाः

॥७०॥

नानाभरणवेषास्ता नानामूर्तिधरास्तथा ॥

नानाभाषायुधधराः परिवव्रुस्तदा गुहम्

॥७१॥

ततः स शुशुभे श्रीमान्गुहो गुह इवापरः ॥

सैनापत्ये चाभिषिक्तो देवैर्नानामुनीश्वरैः

॥७२॥

ततः प्रणम्य सर्वांस्ता नेकैकत्वेन पावकिः ॥

व्रियतां वर इत्याह भवब्रह्मपुरोगमान्

॥७३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये कार्तिकेयस्य सेनानीत्वेऽभिषेकवर्णनंनाम त्रिंशोऽध्यायः ॥ ३० ॥