मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय २९

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 29

व्रजंती गिरिजाऽपश्यत्सखीं मातुर्महाप्रभाम्

नारद उवाच

व्रजंती गिरिजाऽपश्यत्सखीं मातुर्महाप्रभाम् ॥

कुसुमामोदिनींनाम तस्य शैलस्य देवताम्

॥१॥

सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा ॥

क्वपुनर्गच्छसीत्युच्चैरालिंग्योवाच देवता

॥२॥

सा चास्यै सर्वमाचख्यौ शंकरात्कोपकारणम् ॥

पुनश्चोवाच गिरिजा देवतां मातृसंमताम्

॥३॥

नित्यं शैलाधिराजस्य देवता त्वमनिंदिते ॥

सर्वं च सन्निधानं च मयि चातीव वत्सला

॥४॥

तदहं संप्रवक्ष्यामि यद्विधेयं तवाधुना ॥

अथान्य स्त्रीप्रवेशे तु समीपे तु पिनाकिनः

॥५॥

त्वयाख्येयं मम शुभे युक्तं पश्चात्करोम्यहम् ॥

तथेत्युक्ते तया देव्या ययौ देवी गिरिं प्रति

॥६॥

रम्ये तत्र महाशृंगे नानाश्चर्योपशोभिते ॥

विभूषणादि संन्यस्य वृक्षवल्कलधारिणी

॥७॥

तपस्तेपे गिरिसुता पुत्रेण परिपालिता ॥

ग्रीष्मे पंचाग्निसंतप्ता वर्षासु च जलोषिता

॥८॥

स्थंडिलस्था च हेमंते निराहारा तताप सा ॥

एतस्मिन्नंतरे दैत्यो ह्यंधकस्य सुतो बली

॥९॥

ज्ञात्वा गतां गिरिसुतां पितुर्वैरमनुस्मरन् ॥

आडिर्नाम बकभ्राता रहस्यांतरप्रेक्षकः

॥१०॥

जिते किलांधके दैत्ये गिरिशेनामरद्विषि ॥

आडिश्चकार विपुलं तपो हरजिगीषया

॥११॥

तमागत्याब्रवीद्ब्रह्मा तपसा परितोषितः ॥

ब्रूहि किं वासुरश्रेष्ठ तपसा प्राप्तुमिच्छसि

॥१२॥

ब्रह्माणमाह दैत्यस्तु निर्मृत्युत्वमहं वृणे ॥

ब्रह्मोवाच ॥

न कश्चिच्च विना मृत्युं जंतुरासुर विद्यते

॥१३॥

यतस्ततोऽपि दैत्येंद्र मृत्युः प्राप्यः शरीरिणा ॥

इत्युक्तस्तं तथेत्याह तुष्टः कमलसंभवम्

॥१४॥

रूपस्य परिवर्तो मे यदा स्यात्पद्मसंभव ॥

तदा मृत्युर्मम भवेदन्यथा त्वमरो ह्यहम्

॥१५॥

इत्युक्तस्तं तथेत्याह तुष्टः कमलसंभवः ॥

इत्युक्तोऽमरतां मेने दैत्यराज्यस्थितोऽसुरः

॥१६॥

आजगाम स च स्थानं तदा त्रिपुरघातिनः ॥

आगतो ददृशे तं च वीरकं द्वार्यवस्थितम्

॥१७॥

तं चासौ वंचयित्वा च आडिः सर्पशरीरभृत् ॥

अवारितो वीरकेण प्रविवेश हरांतिकम्

॥१८॥

भुजंगरूपं संत्यज्य बभूवाथ महासुरः ॥

उमारूपी छलयितुं गिरिशं मूढचेतनः

॥१९॥

कृत्वोमायास्ततो रूपमप्रतर्क्यमनोहरम् ॥

सर्वावयवसंपूर्णं सर्वाभिज्ञानसंवृतम्

॥२०॥

चक्रे भगांतरे दैत्यो दंतान्वज्रोपमान्दृढान् ॥

तीक्ष्णाग्रान्बुद्धिमोहेन गिरिशं हंतुमुद्यतः

॥२१॥

कृत्वोमारूपमेवं स स्थितो दैत्यो हरांतिके ॥

तां दृष्ट्वा गिरिशस्तुषुटः समालिंग्य महासुरम्

॥२२॥

मन्यमानो गिरिसुतां सर्वै रवयवांतरैः ॥

अपृच्छत्साधु ते भावो गिरिपुत्री ह्यकृत्रिमा

॥२३॥

या त्वं मदशयं ज्ञात्वा प्राप्तेह वरवर्णिनि ॥

त्वया विरहितः शून्यं मन्योस्मिन्भुवनत्रये

॥२४॥

प्राप्ता प्रसन्ना या त्वं मां युक्तमेवंविधं त्वयि ॥

इत्युक्ते गूहयंश्चेष्टामुमारूप्यसुरोऽब्रवीत्

॥२५॥

यातास्मि तपसश्चर्तुं कालीवाक्यात्तवातुलम् ॥

रतिश्च तत्र मे नाभूत्ततः प्राप्ता तवांतिकम्

॥२६॥

इत्युक्तः शंकरः शंकां किंचित्प्राप्यवधारयत् ॥

कुपिता मयि तन्वंगी प्रत्यक्षा च दृढव्रता

॥२७॥

अप्राप्तकामा संप्राप्ता किमेतत्संशयो मम ॥

रहसीति विचिंत्याथ अभिज्ञानाद्विचारयन्

॥२८॥

नापश्यद्वामपार्श्वे तु तस्यांकं पद्मलक्षणम् ॥

लोम्नामावर्तचरितं ततो देवः पिनाकधृक्

॥२९॥

बुद्धा तां दानवीं मायां किंचित्प्रहसिताननः ॥

मेढ्रे रौद्रास्त्रमाधाय चक्रे दैत्यमनोरथम्

॥३०॥

स रुदन्भैरवान्रावानवसादं गतोऽसुरः ॥

अबुध्यद्वीरको नैतदसुरेंद्रनिषूदनम्

॥३१॥

हते च मारुतेनाशुगामिना नगदेवता ॥

अपरिच्छिन्नतत्त्वार्था शैलपुत्र्यां न्यवेदयत्

॥३२॥

श्रुत्वा वायुमुखाद्देवी क्रोधरक्तातिलोचना ॥

अपस्यद्वीरकं पुत्रं हृदयेन विदूयता

॥३३॥

मातरं मां परित्यज्य यस्मात्त्वं स्नेहविह्वलाम् ॥

विहितावसरः स्त्रीणां शंकरस्य रहोविधौ

॥३४॥

तस्मात्ते परुषा रूक्षा जडा हृदय वर्जिता ॥

गणेशाक्षरसदृशा शिला माता भविष्यति

॥३५॥

एवमुत्सृष्टशापाया गिरिपुत्र्यास्त्वनंतरम् ॥

निर्जगाम मुखात्क्रोधः सिंहरूपी महाबलः

॥३६॥

पश्चात्तापं समश्रित्य तया देव्या विसर्जितः ॥

स तु सिंहः करालास्यो महाकेसरकंधरः

॥३७॥

प्रोद्धूतबललांगूलदंष्ट्रोत्कट गुहामुखः ॥

व्यावृतास्यो ललज्जिह्वः क्षामकुक्षिश्चिखादिषुः

॥३८॥

तस्यास्ये वर्तितुं देवी व्यवस्यत सती तदा ॥

ज्ञात्वा मनोगतं तस्या भगवांश्चतुराननः

॥३९॥

आजगामाश्रमपंद संपदामाश्रयं ततः ॥

आगम्योवाच तां ब्रह्मा गिरिजां मृष्टया गिरा

॥४०॥

किं देवी प्राप्तुकामासि किमलभ्यं ददामि ते ॥

तच्छ्रुत्वोवाच गिरिजा गुरुगौरवगर्भितम्

॥४१॥

तपसा दुष्करेणाप्तः पतित्वे शंकरो मया ॥

स मां श्यामलवर्णेति बहुशः प्रोक्तवान्भवः

॥४२॥

स्यामहं कांचनाकारा वाल्लभ्येन च संयुता ॥

भर्तुर्भूतपतेरंगे ह्येकतो निर्विशंकिता

॥४३॥

तस्यास्तद्भाषितं श्रुत्वा प्रोवाच जलजासनः ॥

एवं भवतु भूयस्त्वं भर्तुर्देहार्धधारिणी

॥४४॥

ततस्तस्याः शरीरात्तु स्त्री सुनीलांबुजत्विषा ॥

निर्गता साभवद्भीमा घंटाहस्ता त्रिलोचना

॥४५॥

नानाभरणपूर्णांगी पीतकौशेयवासिनी ॥

तामब्रवीत्ततो ब्रह्मा देवीं नीलांबुजत्विषम्

॥४६॥

अस्माद्भूधरजा देहसंपर्कात्त्वं ममाज्ञया ॥

संप्राप्ता कृतकृत्यत्वमेकानंशा पुराकृतिः

॥४७॥

य एष सिंहः प्रोद्भूतो देव्याः क्रोधाद्वरानने ॥

स तेस्तु वाहनो देवी केतौ चास्तु महाबलः

॥४८॥

गच्छ विंध्याचले तत्र सुरकार्यं करिष्यति ॥

अत्र शुंभनिशुंभौ च हत्वा तारकसैन्यपौ

॥४९॥

पांचालोनाम यक्षोऽयं यक्षलक्षपदानुगः ॥

दत्तस्ते किंकरो देवी महामायाशतैर्युतः

॥५०॥

इत्युक्ता कौशिकी देवी तथेत्याह पितामहम् ॥

निर्गतायां च कौशिक्यां जाता स्वैराश्रिता गुणैः

॥५१॥

सर्वैः पूर्वभवोपात्तैस्तदा स्वयमुपस्तितैः ॥

उमापि प्राप्तसंकल्पा पश्चात्तापपरायणा

॥५२॥

मुहुः स्वं परिनिंदंती जगाम गिरिशांतिकम् ॥

संप्रयांतीं च तां द्वारी अपवार्य समाहितः

॥५३॥

रुरोध वीरको देवीं हेमवेत्रलताधरः ॥

तामुवाच च कोपेन तिष्ठ तिष्ठ क्व यासि च

॥५४॥

प्रयोजनं न तेऽस्तीह गच्छ यावन्न भर्त्स्यसे ॥

देव्या रूपधरो दैत्यो देवं वंचयितुं त्विह

॥५५॥

प्रविष्टो न च दृष्टोऽसौ स च देवेन घातितः ॥

घातिते चाहमाक्षिप्तो नीलकण्ठेन धीमता

॥५६॥

कापि स्त्री नापि मोक्तव्या त्वया पुत्रेति सादरम् ॥

तस्मात्त्वमत्र द्वारिस्था वर्षपूगान्यनेकशः

॥५७॥

भविष्यसि न चाप्यत्र प्रवेशं लप्स्यसे व्रज ॥

एका मे प्रविशेदत्र माता या स्नेहवत्सला

॥५८॥

नगाधिराजतनया पार्वती रुद्रवल्लभा ॥

इत्युक्ता तु ततो देवी चिंतयामास चेतसा

॥५९॥

न सा नारी तु दैत्योऽसौ वायोर्नैवावबासत ॥

वृथैव वीरकः शप्तो मया क्रोधपरीतया

॥६०॥

अकार्यं क्रियते मूढैः प्रायः क्रोधसमन्वितैः ॥

क्रोधेन नश्यते कीर्तिः क्रोधो हंति स्थिरां श्रियम्

॥६१॥

अपरिच्छिन्नसर्वार्था पुत्रं शापितवत्यहम् ॥

विपरीतार्थबोद्धॄणां सुलभा विपदो यतः

॥६२॥

संचिंत्यैवमुवाचेदं वीरकं प्रति शैलजा ॥

अधो लज्जाविकारेण वदनेनांबुजत्विषा

॥६३॥

अहं वीरक ते माता मा तेऽस्तु मनसो भ्रमः ॥

शंकरस्यास्मि दयिता सुता तु हिमभूभृतः

॥६४॥

मम गात्रस्थितिभ्रांत्या मा शंकां पुत्र भावय ॥

तुष्टेन गौरता दत्ता ममेयं पद्मयोनिना

॥६५॥

मया शप्तोऽस्यविदिते वृत्तांते दैत्यनिर्मिते ॥

ज्ञात्वा नारीप्रवेशं तु शंकरे रहसि स्तिते

॥६६॥

न निवर्तयितुं शक्यः शापः किं तु ब्रवीमि ते ॥

मानुष्यां तु शिलायां त्वं शिलादात्संभविष्यसि

॥६७॥

पुण्ये चाप्यर्बुदारण्ये स्वर्गमोक्षप्रदे नृणाम् ॥

अचलेश्वरलिंगं तु वर्तते यत्र वीरक

॥६८॥

वाराणस्यां विश्वनाथसमं तत्फलदं नृणाम् ॥

प्रभासस्य च यात्राभिर्दशभिर्यत्फलं नृणाम्

॥६९॥

तदेकयात्रया प्रोक्तमर्बुदस्य महागिरेः ॥

यत्र तप्त्वा तपो मर्त्या देहधातून्विहाय च

॥७०॥

संसारी न पुनर्भूयान्महेश्वरवचो यथा ॥

अर्बुदो यदि लभ्येत सेवितुं जन्मदुःखितैः

॥७१॥

वाराणसीं च केदारं किं स्मरंति वृथैव ते ॥

तत्राराध्य भवं देवं भवान्नन्दीति नामभृत्

॥७२॥

शीघ्रमेष्यसि चात्रैव प्रतीहारत्वमाप्स्यसि ॥

एवमुक्ते हृष्टरोमा वीरकः प्रणिपत्य ताम्

॥७३॥

संस्तूय विविधैर्वाक्यैर्मातरं समभाषत ॥

धन्योऽहं देवि यो लप्स्ये मानुष्यमतिदुर्लभम्

॥७४॥

शापोऽनुग्रहरूपोऽयं विशेषादर्बुदाचले ॥

समीपे यस्य पुण्योऽस्ति महीसागरसंगमः

॥७५॥

ऊधः पृथिव्या देशोऽयं यो गिरेश्चार्णवांतरे ॥

तत्र गत्वा महत्पुण्यमवाप्य भवभक्तितः

॥७६॥

पुनरेष्यामि भो मातरित्युक्त्वाभूच्छिलासुतः ॥

देवी च प्रविवेशाथ भवनं शशिमौलिनः

॥७७॥

इत्यार्बुदाख्यानम् ॥

ततो दृष्ट्वा च तां प्राह धिग्नार्य इति त्र्यंबकः

॥७८॥

सा च प्रण्म्य तं प्राह सत्यमेतन्न मिथ्यया ॥

जडः प्रकृतिभागोयं नार्यश्चार्हंति निन्दनाम्

॥७९॥

पुरुषाणां प्रसादेन मुच्यंते भवसागरात् ॥

ततः प्रहृष्टस्तामाह हरो योग्याऽधुना शुभे

॥८०॥

पुत्रं दास्यामि येन त्वं ख्यातिमाप्स्यसि शोभने ॥

ततो रेम हि देव्या स नानाश्चर्यालयो हरः

॥८१॥

ततो वर्षसहस्रेषु देवास्त्वरितमानसाः ॥

ज्वलनं नोदयामासुर्ज्ञातुं शंकरचेष्टितम्

॥८२॥

द्वारि स्थितं प्रतिहारं वंचयित्वा च पावकः ॥

पारावतस्य रूपेण प्रविवेश हरांतिकम्

॥८३॥

ददृशे तं च देवेशो विनतां प्रेक्ष्य पार्वतीम् ॥

ततस्तां ज्वलनं प्राह नैतद्योग्यं त्वया कृतम्

॥८४॥

यदिदं भुक्षुतं स्थानान्मम तेजो ह्यनुत्तमम् ॥

गृहाण त्वं सुदुर्बुद्धे नो वा धक्ष्यामि त्वां रुषा

॥८५॥

भीतस्ततोऽसौ जग्राह सर्वदेवमुखं च सः ॥

तेन ते वह्निसहिता विह्वलाश्च सुराः कृताः

॥८६॥

विपाट्य जठराण्येषां वीर्यं माहेश्वरं ततः ॥

निष्क्रांतं तत्सरो जातं पारदं शतयोजनम्

॥८७॥

वह्निश्च व्याकुलीभूतो गंगायां मुमुचे सकृत् ॥

दह्यमाना च सा देवी तरंगैर्वहिरुत्सृजत्

॥८८॥

जातस्त्रिभुवनक्यातस्तेन च श्वेतपर्वतः ॥

एतस्मिन्नंतरे वह्निराहूतश्च हिमालये

॥८९॥

सप्तर्षिभिर्वह्निहोमं कुर्वद्भिर्मंत्रवीर्यतः ॥

आगत्य तत्र जग्राह वह्निर्भागं च तं हुतम्

॥९०॥

गतेऽह्न्यत्वस्मिंश्च तत्रस्थः पत्नी स्तेषामपश्यत ॥

सुवर्णकदलीस्तंभनिभास्ताश्चंद्रलेखया

॥९१॥

पश्यमानः प्रफुल्लाक्षो वह्निः कामवशं गतः ॥

स भूयश्चिंतयामास न न्याय्यं क्षुभितोऽस्मि यत्

॥९२॥

साध्वीः पत्नीर्द्विजेंद्राणामकामाः कामयाम्यहम् ॥

पापमेतत्कर्म चोग्रं नश्यामि तृमवत्स्फुटम्

॥९३॥

कृत्वैतन्नश्यते कीर्तिर्यावदाचंद्रतारकम् ॥

एवं संचिंत्य बहुधा गत्वा चैव वनांतरम्

॥९४॥

संयन्तुं नाभवच्छक्त उपायैर्बहुभिर्मनः ॥

ततः स कामसंतप्तो मूर्छितः समपद्यत

॥९५॥

ततः स्वाहा च भार्यास्य बुबुधे तद्विचेष्टितम् ॥

ज्ञात्वा च चिंतयामास प्रहृष्टा मनसि स्वयम्

॥९६॥

स्वां भार्यामथ मां त्यक्त्वा बहुवासादवज्ञया ॥

भार्याः कामयते नूनं सप्तर्षीणां महात्मनाम्

॥९७॥

तदासां रूपमाश्रित्य रमिष्ये तेन चाप्यहम् ॥

ततस्त्वंगिरसो भार्या शिवानामेति शोभना

॥९८॥

तस्या रूपं समाधाय पावकं प्राप्य साब्रवीत् ॥

मामग्ने कामसंतप्तां त्वं कामयितुमर्हसि

॥९९॥

न चेत्करिष्यसे देव मृतां मामुपधारय ॥

अहमंगिरसो भार्या शिवानाम हुताशन

॥१००॥

सर्वाभिः सहिता प्राप्ता ताश्च यास्यंत्यनुक्रमात् ॥

अस्माकं त्वं प्रियो नित्यं त्वच्चित्ताश्च वयं तथा

॥१०१॥

ततः स कामसंतप्तः संबभूव तया सह ॥

प्रीते प्रीता च सा देवी निर्जगाम वनांतरात्

॥१०२॥

चिंतयंती ममेदं चेद्रूपं द्रक्ष्यंति कानने ॥

ते ब्राह्मणीनामनृतं दोषं वक्ष्यंति पावकात्

॥१०३॥

तस्मादेतद्रक्षमाणा गरुडी संभवाम्यहम् ॥

सुपर्णा सा ततो भूत्वा ददृशे श्वेतपर्वतम्

॥१०४॥

शरस्तंबैः सुसंपृक्तं रक्षोभिश्च पिशाचकैः ॥

सा तत्र सहसा गत्वा शैलपूष्ठं सुदुर्गमम्

॥१०५॥

प्राक्षिपत्कांचने कुंडे शुक्रं तद्धारणेऽक्षमा ॥

शिष्टानामपि देवीनां सप्तर्षीणां महात्मनाम्

॥१०६॥

पत्नीसरूपतां कृत्वा कामयामास पावकम् ॥

दिव्यं रूपमरूंधत्याः कर्तुं न शकितं तया

॥१०७॥

तस्यास्तपःप्रभावेण भर्तुः शुश्रूषणेन च ॥

षट्कृत्वस्तत्तु निक्षिप्तमग्निरेतः कुरुद्वह

॥१०८॥

कुंडेऽस्मिंश्चैत्रबहुले प्रतिपद्येव स्वाहया ॥

ततश्च पावको दुःखाच्छुशोच च मुमोह च

॥१०९॥

आः पापं कृतमित्येव देहन्यासेऽकरोन्मतिम् ॥

ततस्तं खेचरी वाणी प्राह मा मरणं कुरु

॥११०॥

भाव्यमेतच्च भाव्यर्थात्को हि पावक मुच्यते ॥

भाव्यर्थेनापि यत्ते च परदारोप सेवनम्

॥१११॥

कृतं तच्चेतसा तेन त्वामजीर्णं प्रवेक्ष्यति ॥

श्वेतकेतोर्महायज्ञे घृतधाराभितर्पितम्

॥११२॥

शोकं च त्यज नैतास्ताः स्वाहै वेयं तव प्रिया ॥

श्वेतपर्वतकुंडस्थं पुत्रं त्वं द्रष्टुमर्हसि ॥

ततो वह्निस्तत्र गत्वा ददृशे तनयं प्रभुम्

॥११३॥

अर्जुन उवाच

कस्मात्स्वाहा करोद्रूपं षण्णां तासां महामुने

॥११४॥

यत्ता भर्तृपराः साध्व्यस्तपस्विन्योग्निसंनिभाः ॥

न बिभेति च किं ताभ्यः षड्भ्यः स्वाहाऽपराधिनी ॥

भर्तृभक्त्या जगद्दग्धुं यतः शक्ताश्च ता मुने

॥११५॥

नारद उवाच

सत्यमेतत्कुरुश्रेष्ठ श्रृणु तच्चापि कारणम् ॥

येन तासां कृतं रूपं न वा शापं ददुश्च ताः

॥११६॥

यत्र तद्वह्निना क्षिप्तं रुद्रतेजः सकृत्पुरा ॥

गंगायां तत्र सस्नुस्ताः षटत्न्योऽज्ञनाभावतः

॥११७॥

ततस्ता विह्वलीभूतास्तेजसा तेन मोहिताः ॥

लज्जया च स्वभर्तॄणां गंगातीरस्थिता रहः

॥११८॥

एतदंतमालोक्य चिकीर्षंती मनीषितम् ॥

स्वाहा शरीरमाविश्यतासां तेजो जहार तत्

॥११९॥

चिक्रीड वह्निजायापि यथा ते कथितं मया

॥१२०॥

उपकारमिमं ताभिः स्मरंतीभिश्च भारत ॥

न शप्ता सा यतः शापो न देयश्चोपकारिणि

॥१२१॥

ततः सप्तर्षयो ज्ञात्वा ज्ञानेनासुचितां गताः ॥

तत्यजुः षट् तदा पत्नीर्विना देवीमरुंधतीम्

॥१२२॥

विश्वामित्रस्तु भगवान्कुमारं शरणं गतः ॥

स्तवं दिव्यं संप्रचक्रे महासेनस्य चापि सः

॥१२३॥

अष्टोत्तरशतं नाम्नां श्रृणु त्वं तानि फाल्गुन ॥

जपेन येषां पापानि यांति ज्ञानमवाप्नुयात्

॥१२४॥

त्वं ब्रह्मवादी त्वं ब्रह्मा ब्राह्मणवत्सलः ॥

ब्रह्मण्यो ब्रह्मदेवश्च ब्रह्मदो ब्रह्मसंग्रहः

॥१२५॥

त्वं परं परमं तेजो मंगलानां च मंगलम् ॥

अप्रमेयगुणश्चैव मंत्राणां मंत्रगो भवान्

॥१२६॥

त्वं सावित्रीमयो देव सर्वत्रैवापराजितः ॥

मंत्र शर्वात्मको देवः षडक्षरवतां वरः

॥१२७॥

माली मौली पताकी च जटी मुंडी शिखंड्यपि ॥

कुण्डली लांगली बालः कुमारः प्रवरो वरः

॥१२८॥

गवांपुत्रः सुरारिघ्नः संभवो भवभावनः ॥

पिनाकी शत्रुहा श्वेतो गूढः स्कन्दः कराग्रणीः

॥१२९॥

द्वादशो भूर्भुवो भावी भुवः पुत्रो नमस्कृतः ॥

नागराजः सुधर्मात्मा नाकपृष्ठः सनातनः

॥१३०॥

त्वं भर्ता सर्वभूतात्मा त्वं त्राता त्वं सुखावहः ॥

शरदक्षः शिखी जेता षड्वक्त्रो भयनाशनः

॥१३१॥

हेमगर्भो महागर्भो जयश्च विजयेश्वरः ॥

त्वं कर्ता त्वं विधाता च नित्यो नित्यारिमर्दनः

॥१३२॥

महासेनो महातेज वीरसेनश्च भूपतिः ॥

सिद्धासनः सुराध्यक्षो भीमसेनो निरामयः

॥१३३॥

शौरिर्यदुर्महातेजा वीर्यवान्सत्यविक्रमः ॥

तेजोगर्भोऽसुररिपुः सुरमूर्तिः सुरोर्ज्जितः

॥१३४॥

कृतज्ञो वरदः सत्यः शरण्यः साधुवत्सलः ॥

सुव्रतः सूर्यसंकाशो वह्निगर्भः कणो भुवः

॥१३५॥

पिप्पली शीघ्रगो रौद्री गांगेयो रिपुदारणः ॥

कार्त्तिकेयः प्रभुः क्षंता नीलदंष्ट्रो महामनाः

॥१३६॥

निग्रहो निग्रहाणां च नेता त्वं सुरनंदनः ॥

प्रग्रहः परमानंदः क्रोधघ्नस्तार उच्छ्रितः

॥१३७॥

कुक्कुटी बहुली दिव्यः कामदो भूरिवर्धनः ॥

अमोघोऽमृतदो ह्यग्निः शत्रुघ्नः सर्वमोदनः

॥१३८॥

अव्ययो ह्यमरः श्रीमानुन्नतो ह्यग्निसंभवः ॥

पिशाचराजः सूर्याभः शिवात्मा शिवनंदनः

॥१३९॥

अपारपारो दुर्ज्ञेयः सर्वभूतहिते रतः ॥

अग्राह्यः कारणं कर्ता परमेष्ठी परं पदम्

॥१४०॥

अचिंत्यः सर्वभूतात्मा सर्वात्मा त्वं सनातनः ॥

एवं स सर्वभूतानां संस्तुतः परमेश्वरः

॥१४१॥

नाम्नामष्टशतेनायं विश्वामित्रमहर्षिणा ॥

प्रसन्नमूर्तिराहेदं मुनींद्रं व्रियतामिति

॥१४२॥

मम त्वया द्विजश्रेष्ठ स्तुतिरेषा निरूपिता ॥

भविष्यति मनोऽभीष्टप्राप्तये प्राणिनां भुवि

॥१४३॥

विवर्धते कुले लक्ष्मीस्तस्य यः प्रपठेदिमम् ॥

न राक्षसाः पिशाचा वा न भूतानि न चापदः

॥१४४॥

विघ्नकारीणि तद्गेहे यत्रैव संस्तुवंति माम् ॥

दुःस्वप्नं च न पश्येत्स बद्धो मुच्यते बंधनात्

॥१४५॥

स्तवस्यास्य प्रभावेण दिव्यभावः पुमान्भवेत् ॥

त्वं च मां श्रुतिसंस्कारैः सर्वैः संस्कर्तुमर्हसि

॥१४६॥

संस्काररहितं जन्म यतश्च पशुवत्स्मृतम् ॥

त्वं च मद्वरदानेन ब्रह्मर्षिश्च भविष्यसि

॥१४७॥

ततो मुनिस्तस्य चक्रे जातकर्मादिकाः क्रियाः ॥

पौरोहित्यं तथा भेजे स्कंदस्यैवाज्ञया प्रभुः

॥१४८॥

ततस्तं वह्निरभ्यागाद्ददर्श च सुतं गुहम् ॥

षट्छीर्षं द्विगुणश्रोत्रं द्वादशाक्षिभुजक्रमम्

॥१४९॥

एकग्रीवं चैककायं कुमारं स व्यलोकयत् ॥

कलिलं प्रथमे चाह्नि द्वितीये व्यक्तितां गतम्

॥१५०॥

दृतीयायां शिशुर्जातश्चतुर्थ्यां पूर्ण एवच ॥

पंचम्यां संस्कृतः सोऽभूत्पावकं चाप्यपश्यत

॥१५१॥

ततस्तं पावकः पार्थ आलिलिंग चुचुंब च ॥

पुत्रेति चोक्त्वा तस्मै स शक्त्यस्त्रम ददात्स्वयम्

॥१५२॥

स च शक्तिं समादाय नमस्कृत्य च पावकम् ॥

श्वेतश्रृंगं समारूढो मुखैः पश्यन्दिशो दश

॥१५३॥

व्यनदद्भैरवं नादं त्रास यन्सासुरं जगत् ॥

ततः श्वेतगिरेः श्रृंगं रक्षः पद्मदशावृतम्

॥१५४॥

बिभेद तरसा शक्त्या शतयोजनविस्तृतम् ॥

तदेकेन प्रहारेण खंडशः पतितं भुवि

॥१५५॥

चूर्णीकृता राक्षसास्ते सततं धर्मशत्रवः ॥

ततः प्रव्यथिता भूमिर्व्यशीर्यत समंततः

॥१५६॥

भीताश्च पर्वताः सर्वे चुक्रुशुः प्रलयाद्यथा ॥

भूतानि तत्र सुभृशं त्राहित्राहीति चोज्जगुः

॥१५७॥

एवं श्रुत्वा ततो देवा वासवं सह तेऽब्रुवन् ॥

येनैकेन प्रहारेण त्रैलोक्यं व्याकुली कृतम्

॥१५८॥

स संक्रुद्धः क्षणाद्विश्वं संहरिष्यति वासव ॥

वयं च पालनार्थाय सृष्टा देवेन वेधसा

॥१५९॥

तच्च त्राणं सदा कार्यं प्राणैः कंठगतैरपि ॥

अस्माकं पश्यतामेवं यदि संक्षोभ्यते जगत्

॥१६०॥

धिक्ततो जन्म वीराणां श्लाघ्यं हि मरणं क्षणात् ॥

तदस्माभिः सहैनं त्वं क्षतुमर्हसि वासव

॥१६१॥

एवमुक्तस्तथेत्युक्त्वा देवैः सार्धं तमभ्ययात् ॥

विधित्सुस्तस्य वीर्यं स शक्रस्तूर्णतरं तदा

॥१६२॥

उग्रं तच्च महावेगं देवानीकं दुरासदम् ॥

नर्दमानं गुहऋ प्रेक्ष्य ननाद जलधिर्यथा

॥१६३॥

तस्य नादेन महता समुद्धूतोदधिप्रभम् ॥

बभ्राम तत्रतत्रैव देव सैन्यमचेतनम्

॥१६४॥

जिघांसूनुपसंप्राप्तान्देवान्दृष्ट्वा स पावकिः ॥

विससर्ज्ज मुखात्तत्र प्रवृद्धाः पावकार्चिषः

॥१६५॥

अदहद्देवसैन्यानि चेष्ट मानानि भूतले ॥

ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः

॥१६६॥

प्रच्युताः सहसा भांति दिवस्तारागणा इव ॥

दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम्

॥१६७॥

देवा वज्रधरं प्रोचुस्त्यज वज्रं शतक्रतो ॥

उक्तो देवैस्तदा शक्रः स्कंदे वज्रवासृजत्

॥१६८॥

तद्विसृष्टं जघानाशु पार्श्व स्कंदस्य दक्षिणम् ॥

बिभेद च कुरुश्रेष्ठ तदा तस्य महात्मनः

॥१६९॥

वज्रप्रहारात्स्कंदस्य संजातः पुरुषोऽपरः ॥

युवा कांचनसन्नाहः शक्तिधृग्दिव्य कुंडलः

॥१७०॥

शाख इत्यभिविख्यातः सोपि व्यनददद्भुतम् ॥

ततश्चेंद्रः पुनः क्रुद्धो हृदि स्कंदं व्यदारयत्

॥१७१॥

तत्रापि तादृशो जज्ञे नैगमेय इति श्रुतः ॥

ततो विनद्य स्कंदाद्याश्चत्वारस्तं तदाभ्ययुः

॥१७२॥

तदेंद्रो वज्रमुत्सृज्य प्रांजलिः शरणं ययौ ॥

तस्याभयं ददौ स्कंदः सहसैन्यस्य सत्तमः

॥१७३॥

ततः प्रहृष्टास्त्रभिदशा वादित्राण्यभ्यवादयन् ॥

वज्रप्रहारात्कन्याश्च जज्ञिरेऽस्य महाबलाः

॥१७४॥

या हरं ति शिशूञ्जातान्गर्भस्थांश्चैव दारुणाः ॥

काकी च हिलिमा चैव रुद्रा च वृषभा तथा

॥१७५॥

आया पलाला मित्रा च सप्तैताः शिशुमातरः ॥

एतासांवीर्यसंपन्नः शिशुश्चाभूत्सुदारुणः

॥१७६॥

स्कंदप्रसादजः पुत्रो लोहिताक्षो भयंकरः ॥

एष वीराष्टकः प्रोक्तः स्कंदमातृगणोऽद्भुतः

॥१७७॥

पूजनीयः सदा भक्त्या सर्वापस्मारशांतिदः ॥

उपातिष्ठत्ततः स्कंदं हिरण्यकवचस्रजम्

॥१७८॥

लोहितांबरसंवीतं त्रैलोक्यस्यापि सुप्रभम् ॥

युवानं श्रीः स्वयं भेजे तं प्रणम्य शरीरिणी

॥१७९॥

श्रिया जुष्टं च तं प्राहुः सर्वे देवाः प्रणम्य वै ॥

हिरण्यवर्ण्ण भद्रं ते लोकानां शंकरो भव

॥१८०॥

भवानिंद्रोऽस्तु नो नाथ त्रैलोक्यस्य हिताय वै

॥१८१॥

स्कंद उवाच

किमिंद्रः सर्वलोकानां करोतीह सुरोत्तमाः ॥

कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः

॥१८२॥

देवा ऊचुः

इंद्रो दिशति भूतानां बलं तेजः प्रजाः सुखम् ॥

प्रज्ञां प्रयच्छति तथा सर्वान्दायान्सुरेश्वरः

॥१८३॥

दुर्वृत्तानां स हरति वृत्तस्थानां प्रयच्छति ॥

अनुशास्ति च भूतानि कार्येषु बलवत्तरः

॥१८४॥

असूर्ये च भवेत्सूर्यस्तथाऽचंद्रे च चंद्रमाः ॥

भवत्यग्निश्च वायुश्च पृथिव्यां जीवकारणम्

॥१८५॥

एतदिंद्रेण कर्तव्यमिंद्रो हि विपुलं बलम् ॥

त्वं चेंद्रो भव नो वीर तारकं जहि ते नमः

॥१८६॥

इंद्र उवाच

त्वं भवेंद्रो महाबाहो सर्वेषां नः सुखावहः ॥

प्रणम्य प्रार्थये स्कंद तारकं जहि रक्ष नः

॥१८७॥

स्कंद उवाच

शाधि त्वमेव त्रैलोक्यं भवानिंद्रोस्तु सर्वदा ॥

करिष्ये चेंद्रकर्माणि न ममेंद्रत्वमीप्सितम्

॥१८८॥

त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च ॥

करोमि किं च ते शक्रशासनं ब्रूहि तन्मम

॥१८९॥

इंद्र उवाच

यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया ॥

अभिषिच्छस्व देवानां सैनापत्ये महाबल ॥

अहमिंद्रो भविष्यामि तव वाक्याद्यशोऽस्तु ते

॥१९०॥

स्कंद उवाच

दानवानां विनाशाय देवानामर्थसिद्धये ॥

गोब्राह्मणस्य चार्थाय एवमस्तु वचस्तव

॥१९१॥

इत्युक्ते सुमहानादः सुराणामभ्यजायत ॥

भूतानां चापि सर्वेषां त्रैलोक्यांकपकारकः

॥१९२॥

जयेति तुष्टुवुश्चैनं वादित्राण्यभ्यवादयन् ॥

ननृस्तष्टुवुश्चैवं कराघातांश्च चक्रिरे

॥१९३॥

तेन शब्देन महता विस्मिता नगनंदिनी ॥

शंकरं प्राह को देव नादोऽयमतिवर्तते

॥१९४॥

रुद्र उवाच

अद्य नुनं प्रहृष्टानां सुराणां विविधा गिरः ॥

श्रूयंते च तथा देवी यथा जातः सुतस्तव

॥१९५॥

गवां च ब्राह्मणानां च साध्वीनां च दिवौकसाम् ॥

मार्जयिष्यति चाश्रूणि पुत्रस्ते पुण्यवत्यपि

॥१९६॥

एवं वदति सा देवी द्रष्टुं तमुत्सुकाऽभवत् ॥

शंकरश्च महातेजाः पुत्रस्नेहाधिको यतः

॥१९७॥

वृषभं तत आरुह्य देव्या सह समुत्सुकः ॥

सगणो भव आगच्छत्पुत्र दर्शनलालसः

॥१९८॥

ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत् ॥

अभिगच्छ महादेवं पितरं मातरं प्रभो

॥१९९॥

अनयोर्वीर्यसंयोगात्तवोत्पत्तिस्तु प्राथमी ॥

एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम्

॥२००॥

अपूजयदमेयात्मा पितरं मातरं च ताम् ॥

ततस्तमालिंग्य सुतं चिरं संयोज्य चाशिषः

॥२०१॥

चिरं जहृषतुश्चोभौ पार्वतीपरमेश्वरौ ॥

सिद्धसारस्य तत्त्वं च ददौ तुष्टोऽस्य शंकरः

॥२०२॥

देवी प्रकृतिमोक्षं च तुष्टा हर्षपरिप्लुता ॥

एतस्मिन्नेव काले तु षड्देव्यस्तं समागमन्

॥२०३॥

ऋषिभिस्ताः परित्यक्तास्तं पुत्रेति जगुस्तदा ॥

पार्वती च ततः प्राह मम पुत्रो न वस्त्वयम्

॥२०४॥

स्वाहा ममेति च प्राह पावकश्च ममेति च ॥

रुद्रो ममेति च प्राह मम देवनदीति च

॥२०५॥

चक्रुस्ते कलहं घोरं विवदंतः परस्परम् ॥

पुत्रस्नेहो हि बलवान्पार्थ किंकिं न कारयेत्

॥२०६॥

ततस्तान्प्रहसन्नाह विवादो युज्यते न च ॥

सर्वेषां वो गुहः पुत्रो मत्तो वै व्रियतां वरः

॥२०७॥

ततः प्राहुश्च षड्देव्यः स्वर्गो नो ह्यक्षयो भवेत् ॥

तथेति ता गुहः प्राह शक्रस्तत्रांतरेऽब्रवीत्

॥२०८॥

रोहिण्याश्चानुजा स्कंद स्पर्धमानाभिजित्खला ॥

इच्छंती ज्येष्ठतां देवी पृथक्त्वं च तपोरता

॥२०९॥

तु. लक्ष्मीनारायणसंहिता २.३२.१४ ततः प्रभृति मूढोऽस्मि तत्स्थाने स्थापय प्रभो ॥

ततस्तथेति च प्रोक्ते कृत्तिकास्ता दिवं गताः

॥२१०॥

नक्षत्रं सप्तशीर्षाभं भाति तद्वह्निदैवतम् ॥

अथैनमब्रवीत्स्वाहा प्रिया नाहं महार्चिषः ॥

तदग्नेः प्रियतां देहि सहवासं सदैव च

॥२११॥

स्कंद उवाच

हव्यं कव्यं च यत्किंचिद्द्विजा होष्यंति पावके

॥२१२॥

तत्ते नाम्ना प्रदास्यंति वासः सार्धं भवेत्तव ॥

पावकः प्रार्थयामास यज्ञभागान्पुनः सुतान्

॥२१३॥

स चाप्याहाद्यप्रभृति यज्ञभागानवाप्नुहि ॥

इतरे प्रार्थयामासुः ख्यातो नस्त्वं सुतो भव

॥२१४॥

एवमेवेति तानाह स्कंदस्तद्धि सुदुर्लभम् ॥

ततस्तं योगिनः सर्वे संभूय सनकादयः ॥

अभ्यषिंचन्गिरौ तस्मिन्योगिनामादिपत्यके

॥२१५॥

योगीश्वरमिति प्राहुस्ततस्तं योगिनस्तथा ॥

जहृपुर्देवताश्चैव नानावाद्यन्यवादयन्

॥२१६॥

अभिषिक्तेन तेनासौ शुशुभे श्वेतपर्वतः ॥

आदित्येनेवांशुमता सुरम्य उदयाचलः

॥२१७॥

ततो देवाः सगन्धर्वा नृत्यंत्यप्सरसस्तथा ॥

हृष्टानां सर्वभूतानां श्रूयते निनदो महान्

॥२१८॥

एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम् ॥

प्रहृष्टं प्रेक्ष्य तं स्कन्दं न च तृप्यति दर्शनात्

॥२१९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये स्कन्दकुमारस्य सर्वदेवसैनाधिपत्यभिषेकोत्सववर्मनंनामैकोनत्रिंशोऽध्यायः ॥ २९ ॥