मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ३७

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 37

भूसंस्थितिवर्णनम्

श्रीनारद उवाच

बर्बरीतीर्थमाहात्म्यमथो वक्ष्यामि तेऽर्जुन ॥

यथा बर्बरिका जाता शतश्रृंगा नृपात्मजा

॥१॥

कुमारिकेति विख्याता तस्या नाम्ना प्रकथ्यते ॥

इदं कौमारिकाखंडं चतुर्वर्गफलप्रदम्

॥२॥

यया कृता पृथिव्यां च नानाग्रामादिकल्पना ॥

इदं भरतखंडं च यया सम्यक्प्रकल्पितम्

॥३॥

धनंजय उवाच

महदेतन्ममाश्चर्यं श्रोतव्यं परमं मुने ॥

कुमारीचरितं सर्वं ब्रूहि मह्यं सविस्तरम्

॥४॥

कथं विश्वमिदं जातं कर्मजातिप्रकल्पितम् ॥

कथं वा भारतं खंडं शुश्रूषेय सदा मम

॥५॥

नारद उवाच

अव्यक्तोऽस्मिन्निरालोके प्रधानपुरुषावुभौ ॥

अजौ समागतावेकौ केवलं श्रृणुमो वयम्

॥६॥

ततः स्वभावकालाभ्यां स्वरूपाभ्यां समीरितम् ॥

ईक्षणेनैव प्रकृतेर्महत्तत्त्वमजायत

॥७॥

महत्तत्त्वाद्विकुर्वाणादहंतत्त्वं व्यजायत ॥

त्रिधा तन्मुनिभिः प्रोक्तं सत्त्वरासतामसम्

॥८॥

तामसात्पंच जातानि तन्मात्राणि वुदुर्बुधाः ॥

तन्मात्रेभ्यश्च भूतानि वेशेषाः पंच तद्भवाः

॥९॥

सात्त्विकाच्चाप्यहंकाराद्विद्वि कर्मेद्रियाणि च ॥

एकादशं मनश्चैव राजसं च द्वयोर्विदुः

॥१०॥

चतुर्विशतितत्त्वानि जातानीति पुरा विदुः ॥

सदाशिवेन वै पुंसा तानि दृष्टानि भारत

॥११॥

बुद्‌बुदाकारतां जग्मुरंडं जातं ततः शुभम् ॥

शकतोटिप्रमाणं च ब्रह्मांडमिदमुच्यते

॥१२॥

आत्मास्य कथितो ब्रह्मा व्यभजत्स त्रिधा त्विदम् ॥

ऊर्ध्वं तत्र स्थिता देवा मध्ये चैव च मानवाः

॥१३॥

नागा दैत्याश्च पाताले त्रिधैतत्परिकल्पितम् ॥

ऐकैकं सप्तधाभूय ततस्तेन प्रकल्पितम्

॥१४॥

पातालानि च द्वीपानि स्वर्लोकाः सप्तसप्त च ॥

सप्त द्वीपानि वक्ष्यामि श्रृणु तेषां प्रकल्पनाम्

॥१५॥

लक्षयोजनविस्तारं जंबूद्वीपं प्रकीर्त्यते ॥

सूर्यबिंबसमाकारं तावत्क्षारार्णवावृतम्

॥१६॥

शाकद्वीपं द्विगुणतो जंबूद्वीपात्ततः परम् ॥

तावता क्षीरतोयेन समुद्रेण परीवृतम्

॥१७॥

सुरातोयेन दैत्यानां मोहकार्यर्णवेन हि ॥

पुष्करं तु ततो द्वीपं द्विगुणं तावता वृतम्

॥१८॥

कुशद्वीपं द्विगुणतस्ततस्तत्परतः स्मृतम् ॥

दधितोयेन परितस्तावदर्णवसंवृतम्

॥१९॥

ततः परं क्रौञ्चसंज्ञं द्विगुणं हि घृताब्धिना ॥

ततः शाल्मलिद्वीपं च द्विगुणं तावतैव च

॥२०॥

इक्षुसारस्वरूपेण समुद्रेण परिवृतम् ॥

गोमेदं तस्य परितो द्विगुणं तावता वृतम्

॥२१॥

स्वादुतोयेन रम्येण समुद्रेण समंततः ॥

एवं कोटिद्वयं पार्थ लक्षपंचाशतत्रयम्

॥२२॥

पंचाशच्च सहस्राणि सप्तद्वीपाः ससागराः ॥

दशोत्तराणि पंचैव अंगुलानां शतानि च

॥२३॥

अपां वृद्धिक्षयो दृष्टः पक्षयोः शुक्लकृष्णयोः ॥

ततो हेममयी भूमिर्दशकोट्यः कुरूद्वह

॥२४॥

देवानां क्रीडनस्थानं लोकालोकस्ततः परम् ॥

पर्वतो वलयाकारो योजनायुतविस्तृतः

॥२५॥

अस्य बाह्ये तमो घोरं दुष्प्रेक्ष्यं जीववर्जितम् ॥

पंचत्रिंशत्स्मृताः कोट्यो लक्षाण्येकोनविंशतिः

॥२६॥

चत्वारिंशत्सहस्राणि योजनानां च फाल्गुन ॥

सप्तसागरमानस्तु गर्भोदस्तदनंतरम्

॥२७॥

कोटियोजनविस्तारः कटाहऋ संव्यवस्थितः ॥

ब्रह्मणोंऽडं कटाहेन संयुक्तं मेरुमध्यतः

॥२८॥

पंचाशत्कोटयो ज्ञेया दशदिक्षु समंततः ॥

जंबुद्वीपस्य मध्ये तु मेरुनामास्ति पर्वतः

॥२९॥

स लक्षयोजनो ज्ञेयो ह्यधश्चोर्ध्वं प्रमाणतः ॥

षोडशैव सहस्राणि योजनानामधः स्थितः

॥३०॥

उच्छ्रयश्चतुराशीतिर्द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥

त्रिभिः शृंगैः समायुक्तः शरावाकृतिमस्तकः

॥३१॥

मध्यशृंगे ब्रह्मवास ऐशान्यां त्र्यंबकस्य च ॥

नैर्ऋत्ये वासुदेवस्य हेमशृंगं च ब्रह्मणः

॥३२॥

रत्नजं शंकरस्यापि राजतं केशवस्य च ॥

मेरुदिक्षु चतसृषु विष्कंभा गिरयः स्मृताः

॥३३॥

पूर्वेण मंदरो नामदक्षिणे गंधमादनः ॥

विपुलः पश्चिमो ज्ञेयः सुपार्श्वस्तु तथोत्तरे

॥३४॥

कदंबो मंदरे ज्ञेयोजंबुर्वै गंधमादने ॥

अश्वत्थो विपुले चैव सुपार्श्वेच वटोमतः

॥३५॥

एकादशशतायामाश्चत्वारो गिरिकेतवः ॥

एतेषां संति चत्वारि वनानि जयमूर्धसु

॥३६॥

पूर्वं चैत्ररथं नामदक्षिणे गंधमादनम् ॥

वैभ्राजंपश्चिमे ज्ञेयमुदक्चित्ररथं वनम्

॥३७॥

सरांसि चापि चत्वारि चतुर्दिक्षु निबोध मे ॥

प्राच्येऽरुणोदसंज्ञं तु मानसं दक्षिणे सरः

॥३८॥

प्रत्यक्छीतो दकंनाम उत्तरे च महाह्रदः ॥

विष्कंभगिरयो ह्येत उच्छ्रिताः पंचविंशतिः

॥३९॥

योजनानां सहस्राणि सहस्रं पिंडतः स्मृतम् ॥

अन्ये च संति बहुशस्तत्र वै केसराचलाः

॥४०॥

मेरोर्दक्षिणतश्चैव त्रयो मर्यादपर्वताः ॥

निषधो हेमकूटश्च हिमवानिति ते त्रयः

॥४१॥

लक्षयोजनदीर्घाश्च विस्तीर्णा द्विसहस्रकम् ॥

त्रयश्चोत्तरतो मेरोर्नीलः श्वेतोऽथ श्रृंगवान्

॥४२॥

माल्यवान्पूर्वतो मेरोर्गंधाख्यः पश्चिमे तथा ॥

इत्येते गिरयः प्रोक्ता जंबुद्वीपे समंततः

॥४३॥

गंधमादनसंस्थाया महागजप्रमाणतः ॥

फलानि जंबवास्तन्नाम्ना जंबूद्वीपमिति स्मृतम्

॥४४॥

आसीत्स्वायंभुवोनाम मनुराद्यः प्रजापतिः ॥

आसीत्स्त्री शतरूपा तामुदुवोढ प्रजापतिः ॥

प्रियव्रतोत्तानपादौ तस्याऽऽस्तां तनयावुभौ

॥४५॥

ध्रुवश्चोत्तानपादस्य पुत्रः परमधार्मिकः ॥

भक्त्या स विष्णुमाराध्य स्थानं चैवाक्षयं गतः

॥४६॥

प्रियव्रतस्य राजर्षेरुत्पन्ना दश सूनवः ॥

त्रयः प्रव्रजितास्तत्र परंब्रह्म समाश्रिताः

॥४७॥

सप्त सप्तसु द्वीपेषु तेन पुत्राः प्रतिष्ठिताः ॥

जंबूद्वीपाधिपो ज्येष्ठ आग्नीध्र इति विश्रुतः

॥४८॥

तस्यासन्नव सुताः पार्थ नववर्षेश्वराः स्मृताः ॥

तेषां नाम्ना च ते वर्षास्तिष्ठंत्यद्यापि चांकिताः

॥४९॥

योजनानां सहस्राणि नव प्रत्येकशः स्मृताः ॥

मेरोश्चतुर्दशं खंडं गंधमाल्यवतोर्द्वयोः

॥५०॥

अंतरे हेमभूमिष्ठमिलावृतमिहोच्यते ॥

माल्यवत्सागरांतस्य भद्राश्वमिति प्रोच्यते

॥५१॥

गंधवत्सागरांतस्य केतुमालमिति स्मृतम्

॥५२॥

श्रृंगवज्जलधेरंतः कुरुखंडमिति स्मृतम् ॥

श्रृंगवच्छ्वेतमध्ये च खण्डं प्रोक्तं हिरण्मयम्

॥५३॥

सुनीलश्वेतयोर्मध्ये खंडमाहुश्च रम्यकम् ॥

निषधो हेमकूटश्च हरिखंडं तदंतरा

॥५४॥

हिमवद्धिमकूटांतः खण्डं किंपुरुषं स्मृतम् ॥

हिमाद्रिजलधेरन्तर्नाभि खण्डमिति स्मृतम्

॥५५॥

नाभिखण्डं च कुरवो द्वे वर्षे धनुपाकृती ॥

हिमवांश्च गिरिश्रृंगी ज्यास्थाने परिकीर्तितौ

॥५६॥

नाभेः पुत्रश्च ऋषभ ऋषभाद्बरतोऽभवत् ॥

तस्य नाम्ना त्विदं वर्षं भारतं चेति कीर्त्यते

॥५७॥

अत्र धर्मार्थकामानां मोक्षस्य च उपार्जनम् ॥

अन्यत्र भोगभूमिश्च सर्वत्र कुरुनंदन

॥५८॥

शाकद्वीपे च शाकोऽस्ति योजनानां सहस्रकः ॥

तस्य नाम्ना च तद्वर्षं शाकद्वीपमिति स्मृतम्

॥५९॥

तस्य च प्रियव्रत एवाधिपतिर्नाम्ना मेधातिथिरिति

॥६०॥

तस्य पुरोजवमनोजववेपमानधूम्रानीकचित्ररेफबहुरूपविश्वचारसंज्ञानि पुत्रनामानि सप्त वर्षाणि

॥६१॥

शाकद्वीपे च वर्ष ऋतव्रतसत्यव्रतानुव्रतनामानो वाय्यवात्कमं भगवंतं जपंति

॥६२॥

अंतः प्रविश्य भूतानि यो विभज्यात्मकेतुभिः ॥

अंतर्यामीश्वरः साक्षात्पातु नो यद्वशे जगत्

॥६३॥

इति जपः ॥

कुशद्वीपे कुशस्तंबो योजनानां सहस्रकः ॥

तच्चिह्नचिह्नितं तस्मात्कुशद्वीपं ततः स्मृतम्

॥६४॥

तद्द्वीपपतिश्च प्रैयव्रतो हिरण्यरोमा तत्पुत्रवसुवसुदानदृढकविनाभिगुप्तसत्यव्रतवामदेवनामांकितानि सप्त वर्षाणि ॥

वर्णाश्च कुलिशकोविदाभियुक्तकुलकसंज्ञा जातवेदसं भगवंतं स्तुवंति

॥६५॥

परस्य ब्रह्णः साक्षाज्जातवेदासि हव्यवाट् ॥

देवानां पुरुषांगानां यज्ञेन पुरुषं यजः

॥६६॥

इति स्तुतिः ॥

क्रौंचद्वीपे क्रौंचनामा पर्वतो योजनायतः ॥

योऽसौ गुहेन निर्भिन्नस्तच्चिह्नं क्रौंचद्वीपकम्

॥६७॥

तत्र च प्रैयव्रतो घृतपृष्टिनामा तत्पुत्राममधुरुहमेघपृष्ठस्वदामऋताश्वलोहितार्णववनस्पतिइतिसप्तपुत्रनामांकितानि सप्त वर्षाणि

॥६८॥

वर्णाश्च गुरुऋषभद्रविणदेवकसंज्ञाः

॥६९॥

आपोमयं भगवंतं स्तुवंति

॥७०॥

आपः पुरुषवीर्याश्च पुनंतीर्भूर्भूवःस्वश्च ॥

तैः पुनरमीवघ्नाःसंस्पृशेतात्मना भुवः

॥७१॥

इति जपः ॥

शाल्मलेर्नाम वृक्षस्य तत्रवासः सहस्रं योजनानां तच्चिह्नं शाल्मलिद्विपमुच्यते

॥७२॥

तस्याधिपतिः प्रैयव्रतो यज्ञबाहुस्तत्पुत्रसुरोचनसौमनस्यरमणकदेवबर्हिपारिभद्राप्यायनाभिज्ञाननामानि सप्तवर्षाणि

॥७३॥

वर्णाश्च श्रुतधरवीर्यवसुंधरइषंधरसंज्ञा भगवंतं सोमं यजंति

॥७४॥

स्वयोनिः पितृदेवेभ्यो विभजञ्छुक्लकृष्णयोः ॥

अधः प्रजानां सर्वासां राजा नः सोमोस्तु

॥७५॥

इति जपः गोमेदनामा प्लक्षोस्ति सुरम्यो यस्य च्छायया ॥

मोदोवृद्धिं गतं लौल्याद्गोमेदं द्वीपमुच्यते

॥७६॥

तत्र प्रैयव्रत इध्मजिह्वः पतिस्तत्पुत्रसिवसुरम्यसुभद्र शांत्यशप्तमृताभयनामांकितानि सप्त वर्षाणि

॥७७॥

वर्णाश्च हंसपतंगोर्ध्वांचनसत्यांगसंज्ञाश्चत्वारो भगवंतं सूर्यं यजंते

॥७८॥

प्रश्रस्य विष्णुरूपंयत्तत्रोत्थस्य ब्रह्मणोऽमृतस्य च ॥

मृत्योश्च सूर्यमात्मानं धीमहि

॥७९॥

इति जपः ॥

स्वर्णपत्राणि नियुतं योजनानां सहस्रकम् ॥

पुष्करं ज्वलदा भाति तच्चिह्नं द्वीपपुष्करम्

॥८०॥

तस्याधिपतिः प्रैयव्रतो वीतहोत्रनामा तत्पुत्रौ रमणकघातकौ

॥८१॥

तन्नामचिह्नतं खंडद्वयम्

॥८२॥

तयोरंतरालेमानसाचलो नाम वलयाकारः पर्वतो यस्मिन्भ्रमति भगवान्भास्कर इति

॥८३॥

तत्र वर्णाश्च न संति केवलं समानास्ते ब्रह्म ध्यायंति

॥८४॥

यद्यत्कर्ममयं लिंगं ब्रह्मलिंगं जनोर्चयन् ॥

भेदेनैकांतमद्वैतं तस्मै भगवते नमः

॥८५॥

इति जपः ॥

नैषु क्रोधो न मात्सर्यं पुण्यपापार्जनेन च ॥

अयुतं द्विगुणं चापि क्रमादायुः प्रकीर्तितम्

॥८६॥

जपंतः कामिनीयुक्ता विहरंत्यमरा इव ॥

अथ ते संप्रवक्ष्यामि ऊर्ध्वलोकस्य संस्थितिम्

॥८७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारिकाख्याने भूसंस्थितिवर्णनंनाम स्पतत्रिंशोऽध्यायः ॥ ३७ ॥