मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ३१

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 31

ते चैनं योज्य चाशीर्भिरयाचंत वरं गुहम्

नारद उवाच

ते चैनं योज्य चाशीर्भिरयाचंत वरं गुहम् ॥

एष एव वरोऽस्माकं यत्पापं तारकं जहि

॥१॥

एवमस्त्विति तानुक्त्वा योगोयोग इति ब्रुवन् ॥

तारकारिमहातेजा मयूरं चाध्यरोहत

॥२॥

शक्तिहस्तो विनद्याथ गुहो देवांस्तदाब्रवीत् ॥

यद्यद्य तारकं पापं नाहं हन्मि सुरोत्तमाः

॥३॥

गोब्राह्मणावमन्तॄणां ततो यामि गतिं स्फुटम् ॥

एवं तेन प्रतिज्ञाते शब्दोऽतिसुमहानभूत्

॥४॥

योगोयोग इति प्राहुराज्ञया शरजन्मनः ॥

अरजो वाससी रक्ते वसानः पार्वतीसुतः

॥५॥

अथाग्रे सर्वदेवानां स्थितो वीरो ययौ मुदा ॥

तस्य केतुरलं भाति चरणायुधशोभितः

॥६॥

चरणाभ्यां चरणाभ्यां गिरीञ्छक्तो यो विदारयितुं रणे ॥

या चेष्टा सर्वभूतानां प्रभा शांतिर्बलं यथा

॥७॥

तन्मया गुहशक्तिः सा भृशं हस्ते व्यरोचत ॥

यद्दार्ढ्यं सर्वलोकेषु तन्मयं कवचं तथा

॥८॥

योत्स्यमानस्य वीरस्य देहेप्रादुरभूत्स्वयम् ॥

धर्मः सत्यमसंमोहस्तेजः कांतत्वमक्षतिः

॥९॥

बलमोजः कृपा चव बद्धा करयुगं तथा ॥

आदेशकारीण्यग्रेऽस्य स्वयं तस्थुर्महात्मनः

॥१०॥

तमग्रे चापि गच्छंतं पृष्ठतोनुययौ हरः ॥

रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः

॥११॥

निर्मितेन हरेणैव स्वयमीशेन लीलया ॥

सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे

॥१२॥

अभीषून्पुरुषव्याघ्र ब्रह्मा च जगृहे स्वयम् ॥

ते पिबंत इवाकाशं त्रासयंतश्चराचरम्

॥१३॥

सिंहा रथस्य गच्छंतो नदंतश्चारुकेसराः ॥

तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह

॥१४॥

विद्युता मेडितः सूर्यः सेंद्रचापघनो यथा ॥

अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह

॥१५॥

आस्थाय रुचिरं याति पुष्पकं नरवाहनः ॥

ऐरावणं समास्ताय शक्रश्चापि सुरैः सह

॥१६॥

पृष्ठतोनुययौ यांतं वरदं वृषभध्वजम् ॥

तस्य दक्षिणतो देवा मरुतश्चित्रयोधिनः

॥१७॥

गच्छंति वसुभिः सार्धं रुद्रैश्च सह संगताः ॥

यमश्च मृत्युना सार्धं सर्वतः परिवारितः

॥१८॥

घोरैर्व्याधिशतैश्चापि सव्यतो याति कोपितः ॥

यमस्य पृष्ठतश्चापि घोरस्त्रिशिखरः सितः

॥१९॥

विजयोनाम रुद्रस्य याति शूलः स्वयं कृतः ॥

तमुग्रपाशो भगवन्वरुणः सलिलेश्वरः

॥२०॥

परिवार्य शतैयाति यादोभिर्विविधैर्वृतः ॥

पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः

॥२१॥

गदामुशलशक्त्याद्यैर्वरप्रहरणैर्वृतः ॥

पट्टिशं चान्वगात्पार्थ अस्त्रं पाशुपतं महत्

॥२२॥

बहुशीर्षं महाघोरमेकपादं बहूदरम् ॥

कमंडलुश्चास्य पश्चान्महर्षिगणसेवितः

॥२३॥

तस्य दक्षिणतो भाति दण्डो गच्छञ्छ्रिया वृतः ॥

भृग्वंगिरोभिः सहितो देवैरप्य भिपूजितः

॥२४॥

राक्षसाश्चान्यदेवाश्च गन्धर्वा भुजगास्तथा ॥

नद्यो नदाः समुद्राश्च मुनयोऽप्सरसां गणाः

॥२५॥

नक्षत्राणि ग्रहाश्चैव जंगमं स्थावरं तथा ॥

मातरश्च महादेवमनुजग्मुः क्षुधान्विताः

॥२६॥

सर्वेषां पृष्ठतश्चासीत्तार्क्ष्यस्थो बुद्धिमान्हरिः ॥

पालयन्पृतनां सर्वां स्वपरीवारसंवृतः

॥२७॥

एवं सैन्यसमोपेत उत्तरं तटमागतः ॥

ताम्रप्राकारमाश्रित्य तस्थौ त्र्यंबकनंदनः

॥२८॥

स तारकपुरस्यापि पश्यनृद्धि मनुत्तमाम् ॥

विसिष्मिये महासेनः प्रशशंस तपोऽस्य च

॥२९॥

स्थितः पश्यन्स शुशुभे मयूरस्थो गुहस्तदा ॥

छत्रेण ध्रियमाणेन स्वयं सोमसमस्त्विषा

॥३०॥

वीज्यमानश्चामराभ्यां वाय्वग्रिभ्यां महाद्युतिः ॥

मातृभिश्च सुरैर्दत्तैः स्वैर्गणैरपि संवृतः

॥३१॥

ततः प्रणम्य तं शक्रो देव मध्ये वचोऽब्रवीत् ॥

पश्यपश्य महासेन दैत्यानां बलशालिनाम्

॥३२॥

ये त्वां कालं न जानंति मर्त्या गृहरता इव ॥

एतेषां च गृहे दूतो यस्त्वां शंसतु तारकम्

॥३३॥

वीराणामुचितं त्वेतत्कीर्तिदं च महाजने ॥

अनुज्ञया ततः स्कन्दभक्तं शक्रो धनंजय

॥३४॥

मामादिश्यासुरेन्द्राय प्राहिणोद्दौत्ययोग्यकम् ॥

अहं स्वयं गन्तुकामः शक्रेणापि च प्रेषितः

॥३५॥

प्रासादे स्त्रीसहस्राणां प्रावोचं मध्यतोऽप्यहम् ॥

असुराधमदुर्बुद्धे शक्रस्त्वामाह तच्छृणु

॥३६॥

यज्जगद्दलनादाप्तं किल्बिषं दानव त्वया ॥

तस्याहं नाशकस्तेऽद्य पुरुषश्चेद्भविष्यसि

॥३७॥

शीघ्रं निःसर पापिष्ठ निःसरिष्यसि चेन्न हि ॥

क्षणात्तव पुरं क्षेप्स्ये पावित्र्यायैव सागरे

॥३८॥

इति श्रुत्वा रूक्षवाचं क्रुद्धः स्त्रीगणसंवृतः ॥

मुष्टिमुद्यम्यमाऽधावद्भीतश्चाहं पलायितः

॥३९॥

व्याकुलस्तत्र वृत्तांतं कुमाराय न्यवेदयम् ॥

मयि चाप्यागते दैत्यश्चिंतयामास चेतसि

॥४०॥

नालब्ध संश्रयः शक्रो वक्तुमेतदिहार्हति ॥

निमित्तानि च घोराणि संत्रासं जनयंति मे

॥४१॥

एवं विचिंत्य चोत्थाय गवाक्षं सोध्यरोहत ॥

सहस्रभौमिकावासश्रृङ्गवातायनस्थितः

॥४२॥

अपश्यद्देवसैन्यं स दिवं भूमिं च संवृतम् ॥

रतैर्गजैर्हयैश्चापि नादिताश्च दिशो दश

॥४३॥

विमानैश्चाद्भुताकारैः किंनरोद्गीतनादितैः ॥

दुन्दुभिभिर्गोविषाणैस्तालैः शंखैश्च नादितैः

॥४४॥

अक्षोभ्यामिव तां सेनां दृष्ट्वा सोऽचिंतयत्तदा ॥

एते मया जिताः पूर्वं कस्माद्भूयः समागताः

॥४५॥

इति चिंतापरो दैत्यः शुश्राव कटुकाक्षरम् ॥

देवबंदिभिरुद्वुष्टं घोरं हृदयदारणम्

॥४६॥

जयातु लशक्तिदीधितिपिंजररुचारुणमंडलभुजोद्भासितदेवसैन्य पुरवनकुमुदकाननविकासनेंदो कुमारनाथ जय दितिकुलमहोदधिवडवानल मधुररवमयूररवासुरमुकुटकूटकुट्टितचरणनखांकुर महासेन तारकवंशशुष्कतृमदावानल योगीश्वरयॉ योगिजनहृदयगगनविततचिंतासंतानसंतमसनोदनखरकिरणकल्पनखनिकरविराजितचरणकमल स्कन्द जय बाल सप्तवासर भुवनावलिशोकसंदहन

॥४७॥

नमो नमस्तेस्तु मनोरमाय नमोस्तु ते साधुभयापहाय ॥

नमोस्तु ते बालकृताचलाय नमोनमो नाशय देवशत्रून्

॥४८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये कुमारस्य तारकासुनरनगरं प्रति गमनवर्णनंनामैकत्रिंशोऽध्यायः ॥ ३१ ॥