मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ३५

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 35

कुमारेण स्थापितोऽत्र कुमारेशस्ततः सुराः

नारद उवाच

कुमारेण स्थापितोऽत्र कुमारेशस्ततः सुराः ॥

प्रणम्य गुहमूचुश्च प्रबद्धकरसंपुटाः

॥१॥

किंचिद्विज्ञापयष्यामो वयं त्वां श्रृणु तत्त्वतः ॥

पूर्वप्रसिद्ध आचारः प्रोच्यते जयिनामयम्

॥२॥

जयंति ये रणे शत्रूंस्तैः कार्यः स्तंभचिह्नकः ॥

तस्मात्तव जयोद्द्योतनिमित्तं स्तंममुत्तमम्

॥३॥

नक्षिपाम वयं यावत्त्मनुज्ञातुमर्हसि ॥

विश्वकर्मकृतं यच्च तृतीयं लिंगमुत्तमम्

॥४॥

तस्य स्तंभाग्रतसतं च संस्थापय शिवात्मज ॥

एवमुक्ते सुरैः स्कन्दस्ततेत्याह महामनाः

॥५॥

ततो हृष्टाः सुरगणाः शक्राद्याः स्तंभमुत्तमम् ॥

जांबूनदमयं शुभ्रं रणभूमौ विनिक्षिपुः

॥६॥

परितः स्थंडिलं दिक्षु सर्वरत्नमयं तु ते ॥

तत्र हृष्टाश्चाप्सरसो ननृतुर्दशधा शुभाः

॥७॥

मातरो मंगलान्यस्य जगुः स्कन्दस्य नंदिताः ॥

इंद्राद्या ननृतुस्तत्र स्वयं विष्णुश्च वादकः

॥८॥

पेतुः खात्पुष्पवर्षाणि देववाद्यानि सस्वनुः ॥

एवं स्तंभं समारोप्य जयाख्यं विश्वनंदकः

॥९॥

स्तम्भेश्वरस्ततो देवः स्थापितस्त्र्यक्षसूनुना ॥

विरिंचिप्रमुखैर्देवैर्जातानन्दैः समं तदा

॥१०॥

हरिहरादित्युक्तैस्तैः सेन्द्रैर्मुनिगणैरपि ॥

तस्यैव पश्चिमे भागे शक्त्यग्रेण महात्मना

॥११॥

गुहेन निर्मितः कूपो गंगा तत्र तलोद्भवा ॥

माघस्य च चतुर्दश्यां कृष्णायां पितृतर्पणम्

॥१२॥

कूपे स्नानं नरः कृत्वा भक्त्या यः पांडुनंदन ॥

गयाश्राद्धेन यत्पुण्यं तत्फलं लभते स्फुटम्

॥१३॥

स्तंभेश्वरं ततो देवं गन्धपुष्पैः प्रपूजयेत् ॥

वाजपेयफलं प्राप्य मोदते रुद्रसद्मानि

॥१४॥

पौर्णमास्याममावास्यां महीसागरसंगमे ॥

श्राद्धं कृत्वा च योऽभ्यर्च्चेंत्स्तंभेश्वरमकल्मषः

॥१५॥

पितरस्तस्य तृप्यंति तृप्ता यच्छंति चाशिषः ॥

स भित्त्वा सर्वपापानि रुद्रलोके महीयते

॥१६॥

इत्याह भगवान्रुद्रः स्कन्दस्य प्रीतये पुरा ॥

एवमेव चतुर्थं च स्थापितं लिंगमुत्तमम्

॥१७॥

प्रणेमुर्देवताः सर्वे साधुसाध्विति ते जगुः

॥१८॥

इति स्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे स्तंभेश्वरमाहात्म्यवर्णन नाम पंचत्रिंशोऽध्यायः

॥३५॥