मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय ९

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 9

निषादवृत्तान्तपद्मसरोमाहात्म्यादिवर्णनम्

अथ वसुनामकनिषादवृत्तांतः ॥

धरण्युवाच ॥

कलौ युगे भूमिधर केन त्वं द्रक्ष्यसे प्रिय ॥

विमानं केन ते देव कार्यतेऽस्मिन्महीधरे

॥१॥

श्रीनिवासोऽपि केनैव द्रक्ष्यते सुभगाकृतिः ॥

एतद्ब्रूहि मम प्रीत्या श्रोतुं कौतूहलं विभो

॥२॥

श्रीवराह उवाच

वक्ष्यामि शृणु हे देवि भविष्यद्यद्वदामि ते ॥

अस्मिन्महीधरे पुण्ये निषादो वसुनामकः

॥३॥

श्यामाकवनपालोऽभूद्भक्तिमान्पुरुषोत्तमे ॥

श्यामाकतंडुलान्पक्त्वा मधुना परिषिच्य च

॥४॥

निवेद्य देवदेवाय श्रीभूमि सहिताय च ॥

एवं भक्तिमतस्तस्य भार्या चित्रवती शुभा

॥५॥

असूत तनयं बाला वीरनामानमुत्तमम् ॥

वसुः पुत्रेण सहितो भार्यया पतिभक्तया

॥६॥

कस्मिंश्चिद्दिवसे पुत्रं श्यामाकं पालयेति च ॥

विसृज्य पत्न्या सहितो मध्वन्वेषणतत्परः

॥७॥

गतो वनान्तरं शीघ्रं मधुच्छत्रदिदृक्षया ॥

बालः श्यामाकपक्वानि गृहीत्वाग्नौ निधाय च

॥८॥

पिष्ट्वा निवेदयामास वृक्षमूले श्रियः पतेः ॥

नैवेद्यं भक्षयित्वैव वीरस्त्वास सुखेन वै

॥९॥

तदन्तरे वसुश्चापि मध्वादाय समागतः ॥

श्यामाकान्भक्षितान्दृष्ट्वा संतर्ज्य सुतमात्मनः

॥१०॥

खड्गमादाय तं हन्तुं त्वरया हस्तमुद्दधौ

॥११॥

अथ सुतहननोद्युक्तं वसुं प्रति भगवदुक्तिः ॥

तद्वृक्षस्थस्तदा विष्णुः खड्गं जग्राह पाणिना ॥

खड्गो गृहीतः केनेति पश्यन्वृक्षं ददर्श सः

॥१२॥

शङ्खचक्रगदापाणिं वृक्षारूढार्धविग्रहम् ॥

मुक्त्वा वसुश्च तं खड्गं प्रणम्योवाच केशवम्

॥१३॥

किमिदं देवदेवेश चेष्टितं क्रियते त्वया

॥१४॥

श्रीभगवानुवाच

वसो शृणु वचो मे त्वं पुत्रस्ते भक्तिमान्मयि ॥

त्वत्तोऽपि मे प्रियतमस्तस्मात्प्रत्यक्षमागतः

॥१५॥

अस्य सर्वत्र तिष्ठामि तव स्वामिसरस्तटे ॥

इति देववचः श्रुत्वा प्रीतिमानभवद्वसुः

॥१६॥

एतस्मिन्नेव काले तु पांड्यदेशात्समागतः ॥

बाल्यात्प्रभृति शूद्रोऽपि विष्णुभक्तिसमन्वितः

॥१७॥

अथ रंगदासस्य श्रीनिवाससेवार्थं श्रीशेषाचलागमनम् ॥

नारायणपुरीं प्राप्य श्रीवराहं प्रणम्य च ॥

तत्र श्रुत्वा श्रीनिवासं वेंकटाद्रिनिवासिनम्

॥१८॥

स्वयंभुवं देवदेवसेवितं प्रययौ ततः ॥

सुवर्णमुखरीं प्राप्य स्नात्वा चोत्तीर्य तत्तटे

॥१९॥

कमलाख्ये सरसि च स्नात्वा पुण्यप्रदायिनि ॥

तत्तीरवासिनं देवं कृष्णं रामेण संवृतम्

॥२०॥

नमस्कृत्य ततः प्रायाद्वनं गजघटायुतम् ॥

शनैः संप्राप्य शेषाद्रिं निर्झरं संददर्श ह

॥२१॥

तत्समीपं समासाद्य कपिलापूजितं शिवम् ॥

तत्पुरश्चक्रतीर्थं तदगाधं पापनाशनम्

॥२२॥

तत्र स्नात्वा ततोऽगच्छद्वेंकटाद्रिं शनैःशनैः ॥

आराद्धुं गच्छता मार्गे युक्तो वैखानसेन च

॥२३॥

रंगदासस्त्वारुरोह बालो द्वादशवार्षिकः ॥

स्वामिपुष्करिणीं प्राय स्नात्वा भक्तिसमन्वितः

॥२४॥

वैखानसेन मुनिना गोपीनाथेन पूजितम् ॥

वनमध्ये तरोर्मूले स्वामिपुष्करिणीतटे

॥२५॥

तिष्ठन्तं पुण्डरीकाक्षं श्रीभूमिसहितं हरिम् ॥

आकाशस्थं संददर्श पीतनीलाकृतिं शुभम्

॥२६॥

पार्श्वस्थशंखचक्राभ्यां गदासिभ्यां निषेवितम् ॥

पक्षौ विस्तार्य चाकाशे देवमूर्ध्नि वितानवत्

॥२७॥

स्थितं च गरुडेशानं पश्चाच्छार्ङ्गं शरं तथा

॥२८॥

अथ श्रीनिवासार्थं रंगदासकृतदिव्योद्यानमण्डपादिनिर्माणानि ॥

एवं दृष्ट्वा श्रीनिवासं विस्मितो रंगदासकः ॥

अस्य देवस्य चारामं करिष्यामीत्यचिन्तयत्

॥२९॥

निश्चित्य मनसा सर्वं तरुमूलेऽवसत्सुधीः ॥

कृत्वा वैखानसाद्विष्णोर्नैवेद्यं च दिनेदिने

॥३०॥

शनैश्छित्त्वा वनं घोरं वृक्षांश्चिच्छेद पार्श्वगान् ॥

आस्थानचिञ्चां देवस्य रमायाश्चम्पकं तरुम्

॥३१॥

देवाज्ञप्तो वर्जयित्वा तावुभौ देवसेवितौ ॥

देवस्यपरितो भूमौ शिलाकुड्यं तदाकरोत्

॥३२॥

तत्कुड्यस्यैव परितः पुष्पारामांश्चकार ह ॥

मल्लिकाकरवीराब्जकुन्दमंदारमालतीः

॥३३॥

तुलसीचम्पकानां तु वनान्येव चकार ह ॥

खनित्वा तत्र कूपं तु वर्धयंस्तज्जलैर्वनम्

॥३४॥

आरामपुष्पाण्यादाय स्वयं दामान्यथाकरोत् ॥

विचित्राणि तदा बद्ध्वा पूजकस्य करे ददौ

॥३५॥

आदाय पूजकस्तानि स्कन्धे मूर्ध्नि बबन्ध च ॥

श्रीनिवासस्य देवस्य श्रीभूमिसहितस्य च

॥३६॥

एवं देवस्य कैंकर्यं कुर्वंस्तस्थावुदारधीः ॥

तस्यैवं वर्तमानस्य समास्त्वा सप्ततेर्गताः

॥३७॥

कुर्वाणे पुष्पावचयं रंगदासे महात्मनि

॥३८॥

अथ रंगदासस्य गन्धर्वक्रीडादर्शनेन भगवत्कैंकर्यविस्मृतिः ॥

आरामे सरसि स्नातुं गन्धर्वः कश्चिदाययौ ॥

गन्धर्वराजकन्याभिस्तरुणीभिः समन्वितः

॥३९॥

जलक्रीडां करोति स्म दिवि स्थाप्य विमानकम् ॥

सुरूपाभिश्च सहितं क्रीडन्तं कमलाकरे

॥४०॥

पश्यञ्छ्रीरंगदासोऽयं व्यस्मरन्माल्यसञ्चयम् ॥

जितेन्द्रियोऽपि तत्कक्रीडां पश्यन्रेतः ससर्ज ह

॥४१॥

पश्यतस्तस्य सरसः समुत्तीर्य मनोहरम् ॥

दिव्यवस्त्राणि चाच्छाद्य कान्ताभिः सह सस्मितम्

॥४२॥

अधिरुह्य विमानं तु ययौ स धनदालयम् ॥

गते गन्धर्वराजे तु रंगदासो विमोहितः

॥४३॥

त्यक्त्वा च तानि माल्यानि स्नात्वा सरसि लज्जितः ॥

पुनराहृत्य पुष्पाणि शनैर्देवालयं ययौ

॥४४॥

वैखानसस्तु तं दृष्ट्वा पूजाकालमतीत्य च ॥

आगतं किमिति प्राह सखेऽतिक्रम्य चागतः

॥४५॥

न बद्धा मालिकाश्चापि त्वयाऽऽरामे च किं कृतम्

॥४६॥

श्रीवराहउवाच

इत्थं पृष्टो रंगदासो नावदल्लज्जया ततः ॥

लज्जितं रंगदासं तं प्रोवाच मधुसूदनः

॥४७॥

अथ स्वरूपानुसन्धानेन लज्जितं रंगदासं प्रति श्रीनिवासवचनम् ॥

श्रीभगवानुवाच ॥

लज्जया किं रंगदास मया त्वं मोहितो ह्यसि ॥

त्वं तावज्जितकामोऽसि धीरो भव महामते

॥४८॥

गन्धर्वराजवद्राजा भवितासि महीतले ॥

तत्र भुक्त्वा महाभोगान्भक्तिमान्मयि सर्वदा

॥४९॥

प्राकारं च विमानं च कारयिष्यसि मे तदा ॥

तत्र मुक्तिं प्रदास्यामि प्रीत्या परमया युतः

॥५०॥

अत्रैव कुरु सेवां त्वमाशरीरविमोक्षणात् ॥

मद्भक्तानां सकामानामेवं मुक्तिर्भविष्यति

॥५१॥

इत्युक्त्वा भगवान्विष्णुः पुनर्नोवाच किंचन ॥

श्रुत्वा तद्रंगदासोऽपि चकाराराममुत्तमम्

॥५२॥

अथ तोण्डमान्नामकनृपवृत्तान्तः ॥

साग्रं शताब्दं सेवित्वा गतः स्वर्गममन्दधीः ॥

जातः सोमकुले तुंगे तोण्डमानिति विश्रुतः

॥५३॥

सुवीरतनयो वीरो नन्दिनीगर्भसंभवः ॥

स पंचवर्षादुद्भूतविष्णुभक्तिः स्वयं सुधीः ॥

सौशील्यशौर्यवीर्यादिगुणानामाकरो महान्

॥५४॥

पाण्ड्यस्य तनयां पद्मामुपयेमे मनोहराम् ॥

ततो राजा शतं कन्या नानादेश्याः स्वयंवराः

॥५५॥

रेमे देवेंद्रवद्भूमौ नारायणपुरे वसन् ॥

अनुज्ञां प्राप्य पितृतः पुत्रः पंचास्यविक्रमः

॥५६॥

उद्दिश्य मृगयां वीरो वेङ्कटाद्रेः समीपतः

॥५७॥

अथ तोण्डमान्नृपस्य मृगयार्थं श्रीशेषाचलगमनम् ॥

पादचारेण विचरन्परिवारैः समन्वितः ॥

मदधारां विमुंचंतं ददर्श गजयूथपम्

॥५८॥

तं दृष्ट्वा विस्मितो भूत्वा ग्रहीतुं तमनुद्रुतः ॥

सुवर्णमुखरीं तीर्त्वा ब्रह्माष शुकमुत्तमम्

॥५९॥

नमस्कृत्याभ्यनुज्ञातस्ततोऽगच्छद्वनाद्वनम् ॥

ददर्श रेणुकां देवीं वल्मीकाकारसंस्थिताम्

॥६०॥

इष्टदामिष्टभक्तानां दिव्यारामनिवासिनीम् ॥

परिवारैः सदोपेतां पूजितां त्रिदशैरपि

॥६१॥

तोण्डमानपि तां नत्वा ततः पश्चान्मुखो ययौ

॥६२॥

अथ श्रीनिवाससमीपस्थपंचवर्णशुकवृत्तांतः ॥

पंचवर्णं शुकं दृष्ट्वा तं जिघृक्षुरनुद्रुतः ॥

स वदञ्छ्रीनिवासेति गिरिं शीघ्रतरं ययौ

॥६३॥

अनुद्रवन्स राजापि गिरिराजं समारुहत् ॥

दरीश्च विविधाः पश्यञ्छिखराणि समंततः

॥६४॥

शुकमन्वेषमाणोऽसौ श्यामाकवनमेयिवान् ॥

तमदृष्ट्वा शुकवरं वनपालं ददर्श ह

॥६५॥

तं तु राजानमायांतं प्रत्युद्गच्छन्स सत्वरः ॥

प्रणम्य विनयोपेतः कृताञ्जलिपुटः स्थितः

॥६६॥

तोण्डमानपि संपूज्य तं पप्रच्छ वनेचरम् ॥

पंचवर्णः शुकः कश्चिद्दृष्टश्चात्रागतस्त्वया

॥६७॥

श्रीनिवासेति च वदन्क्व गतोऽसौ वनेचर

॥६८॥

वनेचर उवाच

स पंचवर्णो राजेंद्र श्रीनिवासप्रियः सदा ॥

पार्श्ववर्ती सदा तस्य श्रीभूमिभ्यां विवर्धितः

॥६९॥

स्वामिपुष्करिणीतीरे सदास्ते देवसन्निधौ ॥

ग्रहीतुं स शुकः श्रीमान्न तु केनापि शक्यते

॥७०॥

विहृत्य स्वेच्छया नित्यमस्मिन्गिरिवरे शुभे ॥

दिनांते देवमासाद्य तत्समीपे वसत्ययम्

॥७१॥

तं देवमाराधयितुं गमिष्यामि नृपात्मज ॥

विश्रम्यतां वृक्षमूले यावदागमनं मम

॥७२॥

पुत्रेणानेन सहितो विहर त्वं यथासुखम्

॥७३॥

राजोवाच

त्वया सहागमिष्यामि द्रष्टुं देवं जनार्दनम् ॥

त्वं मे दर्शय देवेशं वेंकटाद्रिनिवासिनम्

॥७४॥

तस्य राज्ञो वचः श्रुत्वा श्यामाकं मधुमिश्रितम् ॥

चूतपत्रपुटे क्षिप्त्वा राज्ञा सह ययौ हरिम्

॥७५॥

अथ तोण्डमान्नृपस्य निषादेन सह श्रीनिवाससमीपागमनम् ॥

गत्वा सुदूरमध्वानं पश्यन्तौ तौ शिलातलम् ॥

मुहूर्तादेव संप्राप्तौ स्वामिपुष्करिणीं शुभाम्

॥७६॥

स्नात्वा तत्र विधानेन राज्ञा सह निषादपः ॥

दर्शयामास देवशं राज्ञस्तस्य महात्मनः

॥७७॥

स्वामिपुष्करिणीतीरे स्थितं श्रीवृक्षमूलके ॥

अतसीपुष्पसंकाशमंबुजायतलोचनम्

॥७८॥

चतुर्भुजमुदाराङ्गमीषत्स्मितमुखांबुजम् ॥

दिव्यपीतांबरधरं किरीटकटकोज्ज्वलम्

॥७९॥

पार्श्वस्थाभ्यां सुरूपाभ्यां श्रीभूमिभ्यां समन्वितम् ॥

परितः शंखचक्रासिगदाशार्ङ्गेषुसेवितम्

॥८०॥

अन्यैर्दिव्यायुधैश्चापि दिव्यमाल्यैर्निषेवितम् ॥

स्कन्देनाराध्यमानं तं त्रिसन्ध्यं पुरुषोत्तमम्

॥८१॥

वल्मीकगूढपादाब्जमाजानुपुरुषोत्तमम् ॥

ततो दृष्ट्वा मुदा देवं प्रणेमतुरुभौ तदा

॥८२॥

राजा तु प्रांजलिर्भूत्वा विस्मयोत्फुल्ललोचनः ॥

आनंदलहरीं प्राप्य न प्राज्ञायत किंचन

॥८३॥

निषादोऽपि निवेद्यैव श्यामाकं मधुमिश्रितम् ॥

राज्ञे तदर्धं दत्त्वैव शिष्टार्धं भुक्तवान्स्वयम्

॥८४॥

पीत्वा पुष्करिणीतोयं तेन राज्ञा समन्वितः ॥

स पुनः श्यामकवने पुण्यां पर्णकुटीं ययौ

॥८५॥

उषित्वा चैकरात्रं तु प्रातरुत्थाय भूमिपः ॥

स्वसैन्येन समायुक्तो निवृत्तः स्वपुरं ययौ

॥८६॥

अथ तोण्डमान्नृपं प्रति रेणुकोक्तिः ॥

पुनर्देवीवनं गत्वा हयादवततार ह ॥

चैत्रशुद्धनवम्यां तु पूजयामास रेणुकाम्

॥८७॥

हविष्यं परमान्नं च सोपस्करमनेकशः ॥

पशूपहारसहितं धूपदीपसमन्वितम्

॥८८॥

सुराघटीशतं दत्त्वा जातीकेसरवासितम् ॥

एवं संपूजिता देवी प्रीता राज्ञे वरं ददौ

॥८९॥

आविष्टः पुरुषः कश्चिदवदन्नृपसत्तमम् ॥

शृणु राजन्भविष्यं ते राज्यं निहतकंटकम्

॥९०॥

राजंस्तवैव नाम्नात्र राजधानी भविष्यति ॥

मत्समीपे महाराज चिरं राज्यं करिष्यसि

॥९१॥

देवदेवप्रसादश्च भविष्यति तवानघ ॥

इति दत्त्वा वरं तस्मा आविष्टः प्रकृतिं ययौ

॥९२॥

ततो लब्धवरो राजा ययौ शुकमुनिं पुनः

॥९३॥

अथ शुकवर्णितपद्मसरोवरमाहात्म्यम् ॥

अभिवाद्य मुनिं तेन पूजितो मुदितोऽभवत् ॥

माहात्म्यं सरसो ब्रूहि कमलाख्यस्य मे मुने

॥९४॥

श्रीशुक उवाच

पुरा दुर्वाससः शापादवतीर्णा सुरालयात् ॥

पद्मा पद्माक्षदयिता विष्णुना सहिता नृप

॥९५॥

सरः कांचनपद्माढ्यमिदं प्राप्य महेश्वरी ॥

तपश्चकार वर्षाणां दिव्यानामयुतं रमा

॥९६॥

ततो देवा विचिन्वन्तः श्रियं विष्णुसमन्विताम् ॥

पुरंदरेण संयुक्ता राजन्नस्मिन्सरोवरे

॥९७॥

स्थिता सुवर्णकमले पुण्डरीकाक्षसंयुताम् ॥

दृष्ट्वा प्रीतिसमायुक्ताः प्रणम्यांबुजधारिणीम् ॥

कृताञ्जलिपुटाः सेन्द्रास्तुष्टुवुर्लोकमातरम्

॥९६॥

अथ देवादिकृतश्रीलक्ष्मीस्तुतिः ॥

देवा ऊचुः ॥

नमः श्रियै लोकधात्र्यै ब्रह्ममात्रे नमोनमः ॥

नमस्ते पद्मनेत्रायै पद्ममुख्यै नमोनमः

॥९९॥

प्रसन्नमुखपद्मायै पद्मकान्त्यै नमोनमः ॥

नमो बिल्ववनस्थायै विष्णुपत्न्यै नमोनमः

॥१००॥

विचित्रक्षौमधारिण्यै पृथुश्रोण्यै नमोनमः ॥

पक्वबिल्वफलापीनतुंगस्तन्यै नमोनमः

॥१०१॥

सुरक्तपद्मपत्राभकरपादतले शुभे ॥

सुरत्नांगदकेयूरकांचीनूपुरशोभिते ॥

यक्षकर्दमसंलिप्तसर्वांगे कटकोज्ज्वले

॥१०२॥

मांगल्याभरणैश्चित्रैर्मुक्ताहारैर्विभूषिते ॥

ताटंकैरवतंसैश्च शोभमानमुखांबुजे

॥१०३॥

पद्महस्ते नमस्तुभ्यं प्रसीद हरिवल्लभे ॥

ऋग्यजुःसामरूपायै विद्यायै ते नमोनमः

॥१०४॥

प्रसीदास्मान्कृपादृष्टिपातैरालोकयाब्धिजे ॥

ये दृष्टास्ते त्वया ब्रह्मरुद्रेंद्रत्वं समाप्नुयुः

॥१०५॥

अथ इंद्रादीन्प्रति स्तुतिप्रसन्नलक्ष्मीवचनम् ॥

श्रीशुक उवाच ॥

इति स्तुता तदा दैवैर्विष्णुवक्षःस्थलालया ॥

विष्णुना सह संदृश्या रमा प्रीतावदत्सुरान्

॥१०६॥

श्रीरुवाच

सुरारीन्सहसा हत्वा स्वपदानि गमिष्यथ ॥

ये स्थानहीनाः स्वस्थानाद्भ्रंशिता ये नरा भुवि

॥१०७॥

ते मामनेन स्तोत्रेण स्तुत्वा स्थानमवाप्नुयुः ॥

अखंडैर्बिल्वपत्रैर्मामर्चयंति नरा भुवि

॥१०८॥

स्तोत्रेणानेन ये देवा नरा युष्मत्कृतेन वै ॥

धर्मार्थकाममोक्षाणामाकरास्ते भवन्ति वै

॥१०९॥

इदं पद्मसरो देवा ये केचन नरा भुवि ॥

प्राप्य स्नानं करिष्यन्ति मां स्तुत्वा विष्णुवल्लभाम्

॥११०॥

तेऽपि श्रियं दीर्घमायुर्विद्यां पुत्रान्सुवर्चसः ॥

लब्ध्वा भोगांश्च भुक्त्वाऽन्ते नरा मोक्षमवाप्नुयुः

॥१११॥

इति दत्त्वा वरं देवी देवेन सह विष्णुना ॥

आरुह्य गरुडेशानं वैकुण्ठस्थानमाययौ

॥११२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे वसु नामक निषादवृत्तान्तपद्मसरोमाहात्म्यादिवर्णनंनाम नवमोऽध्यायः ॥ ९ ॥