मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय २६

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 26

तुम्बुरुतीर्थमाहात्म्यवर्णनम्

अथ तुम्बुरु(घोण)तीर्थमाहात्म्यम् ॥

श्रीसूत उवाच ॥

अत्राहं संप्रवक्ष्यामि शौनकाद्या महौजसः ॥

घोणतीर्थस्य माहात्म्यं सर्वपातकनाशनम्

॥१॥

तत्र स्नानं जनानां तु जन्मान्तरतपःफलम् ॥

उत्तराफल्गुनीयुक्तशुक्लपक्षीयपर्वणि

॥२॥

तुम्बोस्तीर्थं मीनसंस्थे रवौ तीर्थानि सर्वशः ॥

अपराह्ने समायान्ति गंगादीनि जगत्त्रये

॥३॥

ऋषय ऊचुः

भगवन्सूत सर्वज्ञ सर्वशास्त्रार्थपारग ॥

गंगायाः सरितः सर्वा घोणतीर्थेऽतिपावने

॥४॥

किमर्थं स्नांति वै तत्र मीनसंस्थे प्रभाकरे

॥५॥

श्रीसूत उवाच

पापिनो मनुजाः सर्वे ह्यस्मासु स्नान्ति यत्नतः ॥

विसृज्य पापजालानि कृतार्था यांति वै जनाः

॥६॥

अस्माकं पापजालं तत्कथं नश्यति सर्वतः ॥

एवमालोच्य तीर्थानि गंगादीनि प्रयत्नतः

॥७॥

संस्मृत्य ब्रह्मपुत्रस्य नारदस्य महात्मनः ॥

वाक्यं मनोहरं दिव्यं सर्वपापनिषूदनम्

॥८॥

गत्वा श्रीवेंकटं शैलं ब्रह्महत्यादिशोषकम् ॥

तत्र स्नात्वा तीर्थवर्ये स्वामिपुष्करिणीजले

॥९॥

अनन्तरं ततो विप्रा घोणतीर्थेऽतिपावने ॥

उत्तराफल्गुनीयुक्तशुक्त्यपक्षीयपर्वणि

॥१०॥

स्नांति तीर्थानि सर्वाणि मीनसंस्थे प्रभाकरे ॥

तस्य तीर्थस्य माहात्म्यं को वेत्ति भुवनत्रये

॥११॥

अथ घोणतीर्थस्नानविमुखानां महादोषवर्णनम् ॥

तस्मात्पुण्यतमं तीर्थं घोणतीर्थं द्विजोत्तमाः

॥१२॥

आरामोच्छेदकं क्रूरं कन्यातुरगविक्रयम् ॥

घोणस्नानपरित्यक्तं तमाहुर्ब्रह्मघातुकम्

॥१३॥

देवद्रव्यापहन्तारं तथा दत्तापहारकम् ॥

घोणस्नानपरित्यक्तं तमाहुर्ब्रह्मघातुकम्

॥१४॥

तटाकसेतुभेत्तारं परस्त्रीसंगलोलुपम् ॥

घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं बुधाः

॥१५॥

ददामीति द्विजायोक्त्वा पश्चाद्यो नास्तिकोऽधमः ॥

घोणस्नानपरित्यक्तं सुरापं तं विदुर्बुधाः

॥१६॥

गुरुविप्रजनद्वेष्यमात्मस्तुतिपरायणम् ॥

घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं बुधाः

॥१७॥

असंस्कृतान्नभोक्तारं पितृशेषान्नभोजिनम् ॥

घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं द्विजाः

॥१८॥

पितृशेषान्नदातारं मातापितृविरोधिनम् ॥

घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं बुधाः

॥१९॥

परस्त्रीसंगनिरतं भ्रातृभार्यारतिप्रियम् ॥

घोणस्नानपरित्यक्तं तमाहुर्गुरुतल्पगम्

॥२०॥

चण्डालभाषिणं विप्रं सदैवादर्भपाणिकम् ॥

घोणस्नानपरित्यक्तं तत्संसर्गं तु पञ्चमम्

॥२१॥

रजस्वलाश्वचण्डालध्वनि श्रुत्वान्नभोजिनम् ॥

घोणस्नानपरित्यक्तं तत्संसर्गं तु पञ्चमम्

॥२२॥

पुराणोद्वाहमौंज्यादिधर्माणां विघ्नकारकम् ॥

घोणस्नानपरित्यक्तं तमाहुः पशुघातुकम्

॥२३॥

शरणागतहन्तारं सर्वतीर्थपराङ्मुखम् ॥

घोणस्नानपरित्यक्तं तमाहुर्भ्रूणहं बुधाः

॥२४॥

पितृयज्ञ परित्यक्तं त्यक्तभार्यं कुलाधमम् ॥

घोणस्नानपरित्यक्तं तमाहुर्गोविघातुकम्

॥२५॥

महापापसमानानि क्षुद्रपापानि यानि च ॥

घोणस्नानपरित्यक्तमाश्रयन्ति द्विजोत्तमाः

॥२६॥

अथ घोणस्नानस्यसर्वपापापनोदकत्ववर्णनम् ॥

महापापरतं विप्राः श्वपचं वा कुलाधमम् ॥

क्रूरं कुलान्तकं कष्टमदत्तं कर्मवर्जितम्

॥२७॥

पशुघ्नं च परद्रोहमाश्रितं पिशुनं तथा ॥

असत्यभाषिणं दम्भपरदाररतं तथा

॥२८॥

मित्रद्रोहं कृतघ्नं च भ्रूणह चातिपातकम् ॥

परदाररतं पापं पराणामर्थसूचकम्

॥२९॥

अनृतं कृषिकर्माणं स्वामिद्रोहं च वञ्चकम् ॥

सलोभं पितृहन्तारं सर्वदेवपराङ्मुखम्

॥३०॥

आत्मप्रशंसां कुर्वाणं धर्मविघ्नकरं शठम् ॥

अपात्रव्ययकर्तारं सानुकूल्यविभेदकम्

॥३१॥

सुपल्लवफलोपेतवृक्षविच्छेदकारकम् ॥

विश्वासघातुकं चैव वीरहत्यापरायणम्

॥३२॥

अनग्निकमपुत्रं च विषकर्मप्रयोगिणम् ॥

गुरुद्वेषकरं पापं दम्पत्योर्विरसावहम्

॥३३॥

ग्रामाधिपत्यं कुर्वाणं तथा देवालयस्य च ॥

भृतकख्यापकं विप्रं कूरकर्मपरायणम्

॥३४॥

प्रकृतीकृत पापौघं गुह्याघौघपरायणम् ॥

अज्ञानादघकर्तारं ज्ञानाद्दुष्कर्मकारकम्

॥३५॥

एतान्सर्वांश्च विप्रेंद्रा घोणतीर्थं मनोहरम् ॥

पुनाति स्नानपानाद्यैरहो तीर्थस्य वैभवम्

॥३६॥

अथ तुम्बुर्वाख्यगंधर्वचरितम् ॥

श्रीसूत उवाच ॥

अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम् ॥

सर्वपापप्रशमनमपवर्गफलप्रदम्

॥३७॥

पुरा गार्ग्यो महातेजाः सर्वविद्याविशारदः ॥

सर्वज्ञो नीतिमान्विप्रः प्राह चेत्थं जितेन्द्रियः

॥३८॥

देवलं च महात्मानं नमस्कृत्य प्रसन्नधीः ॥

कथयस्व महाभाग मयि कारुणिको भव ॥

घोणतीर्थस्य माहात्म्यं सर्वपापहरं शुभम्

॥३९॥

देवल उवाच

तुम्बुरुर्नाम गन्धर्वो भार्यां शप्त्वा पतिव्रताम् ॥

अत्र स्नात्वा समभ्यर्च्य वेंकटेशं दयानिधिम्

॥४०॥

प्राप्तवान्विष्णुलोकं वै पुनरावृत्तिवर्जितम्

॥४१॥

गार्ग्य उवाच

किमर्थं देवल ऋषे भार्यां रूपवतीं स्त्रियम् ॥

तुम्बुरुर्नाम गन्धर्वः सर्वविद्याविशारदः

॥४२॥

शप्तवान्केन दोषेण भार्यां सर्वगुणान्विताम् ॥

तद्वदस्व महाभाग श्रोतुं कौतूहलं हि मे

॥४३॥

अथ स्वभार्यायै तुम्बुरूपदिष्टमाघस्नानविधिप्रकारः ॥

तुम्बुरुर्नाम गन्धर्वो भार्यां प्रीत्या ह्युवाच ह ॥

माघत्रये मया साकं स्नानं कुरु मलापहम्

॥४४॥

माघमास्युदिते सूर्ये सर्वकल्मषनाशने ॥

तीरेऽस्मिन्विष्णुपूजार्थं गोमयालेपनं कुरु

॥४५॥

रंगवल्ल्यादिभिः शुभ्रपद्मस्वस्तिक धातुभिः ॥

शुश्रूषां कुरु मे विष्णोर्मासेऽस्मिन्मंगलप्रदे

॥४६॥

माघेऽस्मिन्माधवस्यास्य कुरु त्वं दीपवर्तिकाम् ॥

सधूपं पावकं भक्त्या समर्पय हरेः पुरः

॥४७॥

कुरु पाकं शुचिर्भूत्वा माधवाय महात्मने ॥

प्रदक्षिणानमस्कारैर्भक्त्या माघे मया सह

॥४८॥

कुरुष्व देवदेवस्य सपर्यां विष्णवेऽन्वहम् ॥

पुराणश्रवणं विष्णोः कुरु नित्यमतंद्रिता

॥४९॥

नित्यं स्नात्वा प्रयत्नेन पिब पादोदकं हरेः ॥

कृष्ण विष्णो मुकुन्देति नारायण जनार्दन

॥५०॥

अच्युतानन्त विश्वात्मन्निति कीर्तय सन्ततम् ॥

क्रोधमात्सर्यलोभादींस्त्यक्त्वा त्वं व्रतमाचर

॥५१॥

तेन ते जायते मुक्तिर्विष्णुलोकश्च शाश्वतः ॥

अथ भार्यां प्रति तुम्बुरुदत्तशापतद्विमुक्तिप्रकारौ ॥

इत्थं सा भर्तृगदितं श्रुत्वा गंधर्ववल्लभा ॥

भर्तारमब्रवीत्कोपादसह्यं दुर्गतिप्रदम्

॥५२॥

माघे चोद्भूतशीते तु प्रातर्मन्दोदिते रवौ ॥

कथं निमज्जयेदस्मिन्माघे शीतार्तिकेऽनघ

॥५३॥

यत्त्वयोक्तानि कर्माणि न शक्यानि मयाऽसकृत् ॥

न करोमि पते स्नानं प्रातःकाले त्वया सह

॥५४॥

मृतौ शीतातिपातेन न च मे रक्षको भवान् ॥

इत्येवमुदितं श्रुत्वा पतिर्गन्धर्ववल्लभः

॥५५॥

सशान्तोऽपि शशापाथ भार्यां चाप्रियवादिनीम् ॥

पुत्रं च धर्मविमुखं भार्यां चाप्रियभाषिणीम्

॥५६॥

अब्रह्मण्यं च राजानं सद्यः शापेन दण्डयेत् ॥

इति न्यायं विचिंत्यासौ शशापेत्थं सतीं तदा

॥५७॥

वेंकटाद्रौ महापुण्ये सर्वपातकनाशने ॥

घोणतीर्थसमीपे च पिप्पलद्रुमकोटरे

॥५८॥

तत्राम्बुरहिते मूढे मण्डूका भव केवलम् ॥

इत्येवं भर्तृवाक्यं तच्छ्रुत्वा गंधर्ववल्लभा

॥५९॥

पतित्वा पादयोस्तस्य तुम्बरुं प्रार्थयत्सती ॥

विशापमवदत्पश्चाद्भर्ता वै तुम्बुरुस्तदा

॥६०॥

अगस्त्यो वै महाभागस्तपस्वी विजितेन्द्रियः ॥

घोणतीर्थवरे स्नात्वा पौर्णमास्यां महातिथौ

॥६१॥

शिष्येभ्यो वै यदा तस्मिन्नश्वत्थद्रुमसंनिधौ ॥

घोणतीर्थस्य माहात्म्यं वक्ति वै ब्राह्मणोत्तमः

॥६२॥

तदा पिप्पलवृक्षस्य कोटरे त्वं समाहिता ॥

श्रुत्वा वै घोणतीर्थस्य माहात्म्यं मोक्षदायकम्

॥६३॥

विधूय सर्वपापानि मया साकं रमिष्यसि ॥

इत्युक्ता विररामाथ धर्मपत्नी पतिव्रता

॥६४॥

भर्तृशापान्महाघोरां मंडूकतनुमाश्रिता ॥

शेषाद्रिशिखरे तस्मिन्घोणतीर्थस्य दक्षिणे

॥६५॥

शनैःशनैर्गता नारी पिप्पलद्रुमकोटरम् ॥

अब्दायुतं गतं तस्या अश्वत्थद्रुमकोटरे

॥६६॥

ततः कालांतरेऽगस्त्यो वेंकटाद्रिं मनोहरम् ॥

गत्वा श्रीस्वामितीर्थे च स्नात्वा नियमपूर्वकम्

॥६७॥

वराहस्वामिनं देवं नत्वा तीर्थस्य दक्षिणे ॥

वेंकटेशालयं गत्वा श्रीनिवासं कृपानिधिम्

॥६८॥

वेदवेद्यं विशालाक्षं देवदेवं सनातनम् ॥

नत्वाऽगस्त्यो महाभागो घोणतीर्थं ततो ययौ

॥६९॥

तत्र स्नात्वा तीर्थवर्ये स्वशिष्यै योगिनां वरः ॥

पिप्पलद्रुमच्छायायां शिष्येभ्यो भक्तिपूर्वकम्

॥७०॥

घोणतीर्थस्य माहात्म्यं ब्रह्महत्याविनाशकम् ॥

सर्वमंगलदं पुण्यं सर्वसम्पत्प्रदायकम्

॥७१॥

उक्तवान्योगिनां श्रेष्ठो ह्यगस्त्यो भगवानृषिः

॥७२॥

अथ घोणतीर्थे अगस्त्यदर्शनेन तुम्बुरुपत्न्या वर्षाभूत्व निवृत्तिः ॥

तदा श्रुत्वा तु वर्षाभूः पादयोस्तस्य योगिनः ॥

पतित्वा ज्ञानदीपेन विदित्वा वैभवं मुनेः

॥७३॥

पूर्वरूपं समासाद्य नारी रूपं मनोहरम् ॥

अगस्त्य योगिनां श्रेष्ठ रक्षरक्ष दयानिधे

॥७४॥

मां रक्ष दयया ब्रह्मन्पतिवाक्यविरोधिनीम् ॥

इत्युक्त्वा तं विक्षालाक्षी विरराम ततः परम्

॥७५॥

अगस्त्य उवाच

का त्वं सुश्रोणि भद्रं ते भेकजन्मप्रदायकम् ॥

पापं पूर्वभवे चासीत्तद्वदस्व च मा चिरम्

॥७६॥

नार्युवाच

तुम्बुरुर्नाम गन्धर्वः सर्वविद्याविशारदः ॥

तस्य भार्यास्म्यहं विप्र ह्यगस्त्य मुनिसेवित

॥७७॥

भर्ता मे सर्वधर्मज्ञस्तुम्बुरुर्मुनिसत्तमः ॥

सर्वधर्मान्मनोज्ञा त्वं कुरु नित्यं मया सह

॥७८॥

पतिवाक्यं तदा श्रुत्वा परलोकोपकारकम् ॥

असह्यं वाक्यमत्युग्रं दुर्गतिप्रदमेव हि

॥७९॥

मया चोक्तं हि दुर्बुद्ध्या हे तात मुनिसत्तम

॥८०॥

अथागस्त्यकथितपतिव्रताधर्माः ॥

अगस्त्य उवाच ॥

कुशाग्रबुद्धिस्ते भर्ता शशाप त्वां रुषान्वितः ॥

एवं शापो युक्त एव पतिवाक्यविरोधिनीम्

॥८१॥

पतिवाक्यमनादृत्य स्वेच्छया वर्तते तु या ॥

सा नारी निरये घोरे पतत्याचन्द्रतारकम्

॥८२॥

न स्वातन्त्र्यं तु नारीणां नोल्लंघ्यं पतिभाषणम् ॥

पातिव्रत्येन पुण्येन पतिशुश्रूषणेन च

॥८३॥

स्त्रियो विष्णुपदं यान्ति न चान्यैरपि सुव्रतैः ॥

पतिर्माता पतिर्विष्णुः पतिर्ब्रह्मा पतिः शिवः

॥८४॥

पतिर्गुरुः पतिस्तीर्थमिति स्त्रीणां विदुर्बुधाः ॥

पतिवाक्यमपाकृत्य या नारी सुकृतैः परैः

॥८५॥

सदैव युज्यते सापि नैव शुद्धा भवेत्सकृत् ॥

पतिहीना तु या नारी गुरुभिर्धर्मवित्तमैः

॥८६॥

सा कृतज्ञा विदध्यात्तु व्रतं धर्मफलप्रदम् ॥

पतिना प्रेरिता सैव पतिबुद्धिपरायणा

॥८७॥

पतिपादाब्जतीर्थेन या स्नाता सा हरिप्रिया ॥

सा स्नाता सर्वतीर्थेषु गङ्गादिषु न संशयः

॥८८॥

तस्मात्त्वत्कृतदोषस्तु त्वामायातीति तत्फलम् ॥

भुञ्जन्त्यास्तेऽत्र शृण्वन्त्या घोणतीर्थस्य वैभवम्

॥८९॥

मुक्तिरासीच्छुभांगं तन्नारीरूपं पुनर्यथा ॥

तस्माद्घोणस्य तीर्थस्य तुम्बुतीर्थमितीह वै

॥९०॥

लोके प्रसिद्धिरभवदहो तीर्थस्य वैभवम्

॥९१॥

अथ घोणतीर्थस्नातॄणां नानाविधफलप्राप्तिः ॥

श्रीसूत उवाच ॥

घोणतीर्थे महापुण्ये सर्वपापविनाशिनि ॥

स्नान्ति ये पौर्णमास्यां वै शौनकाद्या महौजसः

॥९२॥

तेषां क्रतुफलं पुण्यं तीर्थायुतफलं भवेत् ॥

कपिलागोसहस्रं तु यो ददाति दिनेदिने

॥९३॥

तत्फलं समवाप्नोति स्नानात्तुम्बुरुतीर्थके ॥

रत्नकोटिसहस्राणि यो ददाति दिनेदिने

॥९४॥

मत्तेभानां सहस्राणि तथैवाश्वायुतान्यपि ॥

तत्फलं समवाप्नोति घोणतीर्थावगाहनात्

॥९५॥

कन्याकोटिप्रदानेन यत्फलं चर्षिभिः स्मृतम् ॥

तत्फलं समवाप्नोति घोणतीर्थाच्च पावनात्

॥९६॥

हेमांबरसहस्रं यः कुरुक्षेत्रे प्रयच्छति ॥

तत्फलं समवाप्नोति घोणतीर्थस्य वैभवात्

॥९७॥

गुर्वर्थे ब्राह्मणार्थे च स्वाम्यर्थे यस्त्यजेत्तनुम् ॥

तत्फलं समवाप्नोति घोणतीर्थस्य वैभवात्

॥९८॥

आपन्नार्तिहराणां च तीर्थसेवापरात्मनाम् ॥

सत्यव्रतानां यत्पुण्यं घोणतीर्थाच्च तद्भवेत्

॥९९॥

यत्फलं श्राद्धकर्तॄणां पितृणामिन्दुसंक्षये ॥

तत्फलं समवाप्नोति घोणतीर्थाद्धि पावनात्

॥१००॥

गङ्गायां नर्मदायां च सरयूचन्द्रभागयोः ॥

सर्वेषु पुण्यतीर्थेषु यः स्नानं कुरुते नरः ॥

तत्फलं समवाप्नोति घोणतीर्थाद्धि पावनात्

॥१०१॥

तस्मात्पुण्यतमं तीर्थं घोणतीर्थं विदुर्बुधाः

॥१०२॥

य इमं शृणुतेऽध्यायं सर्वपापनिबर्हणम् ॥

वाजपेयफलं तस्य विष्णुलोकश्च शाश्वतः

॥१०३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखंडे श्रीवेङ्कटाचलमाहात्म्ये तुम्बुरुतीर्थमाहात्म्यवर्णनंनाम षड्विंशोऽध्यायः ॥ २६ ॥