मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय १४

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 14

स्वामिपुष्करिणीतीर्थमहिमानुवर्णनम्

अथ सुमत्याख्यद्विजवृत्तान्तः ॥

श्रीसूत उवाच ॥

भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः ॥

स्वामितीर्थस्य माहात्म्यं भूयोऽपि प्रवदाम्यहम्

॥१॥

पुरा किरातीसंसर्गात्सुमतिर्ब्राह्मणः सुराम् ॥

पीतवान्पुष्करिण्यां स स्नात्वा पापाद्विमोचितः

॥२॥

ऋषय ऊचुः

सुमतिः कस्य पुत्रोऽसौ कथं स च सुरां पपौ ॥

कथं किरात्यासक्तोऽभूत्सूत पौराणिकोत्तम

॥३॥

सर्वेषां विस्तरादेतद्वद त्वं कृपयाधुना

॥४॥

श्रीसूत उवाच

महाराष्ट्राभिधे देशे ब्राह्मणः कश्चिदास्तिकः ॥

यज्ञदेव इति ख्यातो वेदवेदांगपारगः

॥५॥

दयालुरातिथेयश्च शिवनारायणार्चकः ॥

सुमतिर्नामपुत्रोऽभूद्यज्ञदेवस्य तस्य वै

॥६॥

पितरं स परित्यज्य भार्यामपि पतिव्रताम् ॥

प्रययावुत्कले देशे विटगोष्ठीपरायणः

॥७॥

काचित्किराती तद्देशे वसन्ती युवमोहनी ॥

यूनां समस्तद्रव्याणि प्रलोभ्य जगृहे चिरम्

॥८॥

तस्या गृहं स प्रययौ सुमतिर्ब्राह्मणाधमः ॥

सुमतिं सा च जग्राह किराती निर्धनं द्विजम्

॥९॥

अथ सुमत्याख्यद्विजस्य किरातीसङ्गान्महापातकप्राप्तिः ॥

तया युक्तोऽथ सुमतिस्तत्संयोगैकतत्परः ॥

इतस्ततश्चोरयित्वा बहुद्रव्याणि सन्ततम्

॥१०॥

दत्त्वा तया चिरं रेमे तद्गृहे बुभुजे च सः ॥

एकेन चषकेणासौ तया सह सुरां पपौ

॥११॥

एवं स बहुकालं वै रममाणस्तया सह ॥

पितरौ निजपत्नीं च नास्मरद्विषयातुरः

॥१२॥

स कदाचित्किरातैस्तु चौर्यं कर्तुं ययौ सह ॥

विप्रस्य कस्यचिद्गेहे सोऽपि कैरातवेषभृत्

॥१३॥

ययौ चोरयितुं द्रव्यं साहसी खङ्गहस्तवान् ॥

तद्गृहस्वामिनं विप्रं हत्वा खङ्गेन साहसात्

॥१४॥

समादाय बहु द्रव्यं किरातीभवनं ययौ ॥

तं यान्तमनुयाति स्म ब्रह्महत्या भयंकरी

॥१५॥

नीलवस्त्रधरा भीमा भृशं रक्तशिरोरुहा ॥

गर्जन्ती साट्टहासं सा कम्पयन्ती च रोदसी

॥१६॥

अनुद्रुतस्तया सोऽयं बभ्राम जगतीतले ॥

एवं भ्रमन्भुवं सर्वां कदाचित्सुमतिः स्वयम्

॥१७॥

स्वग्रामं प्रययौ भीत्या विप्रबन्धुर्दुरात्मवान् ॥

अनुद्रुतस्तया भीतः प्रययौ स्वगृहं प्रति

॥१८॥

ब्रह्महत्याप्यनुद्रुत्य तेन साकं गृहं ययौ ॥

पितरं रक्षरक्षेति सुमतिः शरणं ययौ

॥१९॥

मा भैषीरिति तं प्रोच्य पिता रक्षितुमुद्यतः ॥

तदानीं ब्रह्महत्येयं तत्तातं प्रत्यभाषत

॥२०॥

ब्रह्महत्योवाच

मैव त्वं प्रतिगृह्णीष्व यज्ञदेव द्विजोत्तम ॥

असौ सुरापी स्तेयी च ब्रह्महा चातिपातकी

॥२१॥

मातृद्रोही पितृद्रोही भार्यात्यागी च पातकी ॥

किरातीसंगदुष्टश्च ह्येनं मुंच दुरात्मकम्

॥२२॥

गृह्णासि चेदिमं विप्र महापातकिनं सुतम् ॥

त्वद्भार्यामस्य भार्यां च त्वां च पुत्रमिमं द्विज

॥२३॥

भक्षयिष्यामि वंशं च तस्मान्मुञ्च सुतं त्विमम् ॥

इमं त्यजसि चेत्पुत्रं युष्मान्मुचांमि सांप्रतम्

॥२४॥

नैकस्यार्थे कुलं हन्तुमर्हसि त्वं महामते ॥

इत्युक्तः स तया तत्र यज्ञदेवोऽब्रवीच्च ताम्

॥२५॥

यज्ञदेव उवाच

बाधते मां सुतस्नेहः कथमेनं परित्यजे ॥

ब्रह्महत्या तदाकर्ण्य द्विजोक्तं तमभाषत

॥२६॥

ब्रह्महत्योवाच

अयं हि पतितो भूत्वा वर्णाश्रम बहिष्कृतः ॥

पुत्रेस्मिन्मा कुरु स्नेहं निन्दितं चास्य दर्शनम्

॥२७॥

इत्युक्त्वा ब्रह्महत्या सा यज्ञदेवस्य पश्यतः ॥

तलेन प्रजहारास्य पुत्रं सुमतिनामकम्

॥२८॥

रुरोद ताततातेति पितरं प्रब्रुवन्मुहुः

॥२९॥

अथ सुमतिं प्रति दुर्वासः कथित ब्रह्महत्यामुक्त्युपायः ॥

रुरु दुर्जनको माता भार्यापि सुमतेस्तदा ॥

एतस्मिन्नंतरे तत्र दुर्वासाः शंकरांशकः

॥३०॥

दिष्ट्या समाययौ योगी धार्मिको मुनिसत्तमः ॥

यज्ञदेवोऽथ तं दृष्ट्वा मुनिं रुद्रावतारकम्

॥३१॥

स्तुत्वा प्रणम्य शरणं ययाचे पुत्रकारणात् ॥

दुर्वासास्त्वं महायोगिन्साक्षाद्वै शंकरांशकः

॥३२॥

त्वद्दर्शनमपुण्यानां भविता न कदाचन ॥

ब्रह्महा च सुरापी च स्तेयी चाभूत्सुतो मम

॥३३॥

एनं प्रहर्तुमायाता ब्रह्महत्यापि वर्तते ॥

स्याद्यथा मे पुत्रोऽयं महापातकमोचितः

॥३४॥

घोरा च ब्रह्महत्येयं यथा शीघ्रं लयं व्रजेत् ॥

तमुपायं वदस्वाद्य मम पुत्रे दयां कुरु

॥३५॥

अयमेव हि पुत्रो मे नान्योऽस्ति तनयो मुने ॥

अस्मिन्मृते तु वंशो मे समुच्छिद्येत मूलतः

॥३६॥

ततः पितृभ्यः पिण्डानां दातापि न भवेद्ध्रुवम् ॥

ततः कृपां कुरुष्व त्वमस्मासु भगवन्मुने

॥३७॥

इत्युक्तः स तदोवाच दुर्वासाः शंकरांशकः ॥

ध्यात्वाथसुचिरं कालं यज्ञदेवं द्विजोत्तमम्

॥३८॥

दुर्वासा उवाच

यज्ञदेवकृतं षापमतिदूर सुतेन ते ॥

नास्य पापस्य शातिः स्यात्प्रायश्चित्तायुतैरपि

॥३९॥

तथापि ते सुतस्याहं तस्य पापस्य शान्तये ॥

प्रायश्चित्तं वदिष्यामि शृणु नान्यमना द्विज

॥४०॥

वेंकटाद्रौ महापुण्ये सर्वपातकनाशने ॥

स्वामिपुष्करिणी चेति वर्तते मंगलप्रदा

॥४१॥

अथ सुमतेः स्वामिपुष्करिणीस्नानाद्ब्रह्महत्या विमुक्तिः ॥

स्नाति चेत्तव पुत्रोऽयं पातकान्मुच्यते क्षणात् ॥

एवं श्रुत्वा मुनेर्वाक्यं यज्ञदेवो महामतिः

॥४२॥

पुत्रमादाय सुमतिं स्वामिपुष्करिणींगतः ॥

स्नापयामास सुमतिं हत्यया पीडितं सुतम्

॥४३॥

आकाशवाणी तं विप्रमुवाच मधुरस्वरा ॥

यज्ञदेव महाभाग स्नानेनानेन सुव्रत

॥४४॥

पूतोऽभवत्तव सुतः संशयं मा कृथा द्विज ॥

एवंप्रभावं तत्तीर्थं पापवृक्षकुठारकम्

॥४५॥

एवं वः कथितं विप्रा इतिहासं पुरातनम् ॥

शृण्वतां पठतां चापि वाजपेयफलं लभेत्

॥४६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये स्वामिपुष्करिणीतीर्थमहिमानुवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥