मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय ७

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 7

श्रीनिवासोदन्तकमलालयाकल्याणविध्यादिवृत्तांतवर्णनम्

अथ धरणीदेव्यै बकुलमालिकानिवेदितश्रीनिवासोदन्तः ॥

धरण्युवाच ॥

कैषा बत वरा कन्या युष्माभिः संगता कुतः ॥

किमर्थमागता चेह पूज्यैषा प्रतिभाति मे

॥१॥

कन्यका ऊचुः

एषा दिव्याङ्गना देवी त्वयि कार्यार्थमागता ॥

देवालये सङ्गतेयमस्माभिः शिवसन्निधौ

॥२॥

पृष्टावदच्च भवतीं द्रष्टुमेवागतेति वै ॥

शक्या द्रष्टुं राजगृहे मया राज्ञी सुखेन वा

॥३॥

एवं पृष्टास्ततो ब्रूमः सहास्माभिश्च गम्यताम् ॥

वयं तु धरणीदास्यो गमिष्यामो नृपालयम्

॥४॥

इत्युक्तास्माभिरायाता त्वत्समीपं वसुन्धरे ॥

भवत्या पृच्छयतामेषा किमित्यागमनं तव

॥५॥

श्रीवराह उवाच

इति तासां वचः श्रुत्वा तामपृच्छद्वसुन्धरा

॥६॥

धरण्युवाच

कुतस्त्वमागता देवि किं वा कार्यं मया तव ॥

ब्रूहि सत्यं करिष्यामि त्वदागमनकारणम्

॥७॥

बकुलमालिकोवाच

वेङ्कटाद्रेः समायाता नाम्ना बकुलमालिका

॥८॥

स्वामी नारायणोऽस्माकमास्ते श्रीवेंकटाचले ॥

कदाचिद्धयमारुह्य हंसशुक्लं मनोजवम्

॥९॥

मृगयार्थं गतो राज्ञो वेंकटाद्रेः समीपतः ॥

वनानि विचरन्काले शोभने कुसुमाकरे

॥१०॥

पश्यन्मृगान्गजान्सिंहान्गवयाञ्छरभान्रुरून् ॥

शुकान्पारावतान्हंसान्पत्रिणोऽन्यान्वनान्तरे

॥११॥

गजराजं तत्र कञ्चिद्यूथपं मदवर्षिणम् ॥

करेणुसहितं तुंगमन्वगच्छत्सुरोत्तमः

॥१२॥

अथ श्रीनिवासोक्त्या शंखनृपस्य स्वामितीर्थे तपःकरणम् ॥

वनाद्वनान्तरं गत्वा नृपं शंखमुपागमत् ॥

तपस्यन्तं बृहच्छैले प्रतिष्ठाप्य जनार्दनम्

॥१३॥

श्रीभूमिसहितं नित्यमर्चयन्तं च भक्तितः ॥

शंखनागबिलंनाम सरः पावनमुत्तमम्

॥१४॥

तत्सरस्तीरमासाद्य तुरंगादवरुह्य च ॥

राजवेषं समासाद्य तमपृच्छन्नृपोत्तमम्

॥१५॥

क्रियते किं नृपश्रेष्ठ पादेऽस्मिच्छेषभूभृतः

॥१६॥

शंख उवाच

अहं हैहयदेशीयः पुत्रः श्वेतस्य भूभृतः ॥

महाविष्णोः प्रीतयेऽत्र कृतवानखिलान्क्रतून्

॥१७॥

अदर्शनान्महाविष्णोर्निर्विण्णोहं नृपात्मज ॥

तदानीमवदद्दिव्या वाणी सर्वार्त्तिनाशिनी

॥१८॥

राजन्नात्र भविष्यामि प्रत्यक्षस्ते वचः शृणु ॥

गच्छ नारायणाद्रिं त्वं तपः कुर्विति मां स्फुटम्

॥१९॥

ततो देशमहं त्यक्त्वा तपसाऽऽराधयाम्यहम् ॥

अत्र देवं नृपाचिंत्यं प्रतिष्ठाप्य श्रियः पतिम्

॥२०॥

अगस्त्यानुग्रहान्नित्यमर्चयामि विधानतः ॥

इति तस्य वचः श्रुत्वा सोत्प्रासं प्राह तं विभुः

॥२१॥

गच्छ नारायणाद्रिं त्वमस्य पादे किमास्यते ॥

आरुह्यानेन मार्गेण पश्चिमे शिखरे स्थितम्

॥२२॥

प्रणम्य विष्वक्सेनं त्वं बालं न्यग्रोधमूलतः ॥

स्वामिपुष्करिणीं गत्वा स्नात्वा तीरेऽथ पश्चिमे

॥२३॥

अश्वत्थं तत्र वल्मीकं द्रक्ष्यसे नृपनन्दन ॥

तयोर्मध्यं समासाद्य तपः कुर्वित्यचोदयत्

॥२४॥

कश्चिच्छ्वेतो वराहोऽस्मिन्वल्मीके चरति धुवम् ॥

स तु पुण्यवतामेव दर्शनं याति भूपते

॥२५॥

श्रीवराह उवाच

इत्यादिश्य हयारूढो जगाम मृगयां विभुः ॥

चरन्वनाद्वनं सुभ्रूः समासाद्यारणीं नदीम्

॥२६॥

अवरुह्य हयात्तत्र विचचार तटे शुभे ॥

वनान्तादागतो वायुः पद्मकह्लारशीतलः ॥

श्रमापनयनो मन्दं सिषेवे पुरुषोत्तमम्

॥२७॥

तरवः पुष्पवर्षाणि विकिरन्तः सिषेविरे ॥

एवं स विचरन्देवः पुष्पभारानतांस्तरून्

॥२८॥

विचिन्वन्गजराजं तं पुष्पलावीर्ददर्श ह ॥

कन्याः सुवेषा रुचिरा मेघेष्विव शतह्रदाः

॥२९॥

तासां मध्यगतां तन्वीं ददर्शातिमनोहराम् ॥

लक्ष्मीसमां हेमवर्णां तस्यां सक्तमना अभूत्

॥३०॥

तां गृध्नुराह ताः कन्याः केयमित्येव पूरुषः ॥

उक्तस्ताभिरियं कन्या वियद्राज्ञो महाबल

॥३१॥

इदं श्रुत्वा वचस्तासां हयमारुह्य वेगवान् ॥

आजगामाशु भगवान्स्वालयं रुचिरं गिरिम्

॥३२॥

तत्र स्वालयमासाद्य स्वामिपुष्करिणीतटे ॥

मामाहूयावदद्देवो हला बकुलमालिके

॥३३॥

वियद्राजपुरं गत्वा प्रविश्यान्तःपुरं सखि ॥

तत्पत्नीं धरणीं प्राप्य पृष्ट्वा कुशलमेव च

॥३४॥

याचस्व तनयां तस्या रुचिरां कमलालयाम् ॥

राज्ञोभिमतमाज्ञाय शीघ्रमागच्छ भामिनि

॥३५॥

इत्थं दैवेन चाज्ञप्ता देवि त्वद्गृहमागता ॥

यथोचितं कुरुष्वेह राज्ञा मंत्रियुतेन च

॥३६॥

अथ बकुलमालिकोक्त्या धरण्यादिकृतविवाहनिश्चयः ॥

कन्यया च विचार्यैव प्रोच्यतामुत्तरं वचः

॥३७॥

श्रीवराह उवाच

अथ तस्या वचः श्रुत्वा प्रीता राज्ञी बभूव ह ॥

आहूयाकाशराजं तमुपेत्य कमलालयाम्

॥३८॥

मंत्रिमध्येऽवदद्देवी वचनं बकुलस्रजः ॥

श्रु त्वा प्रीतोऽवदद्राजा मंत्रिणः सपुरोहितान्

॥३९॥

आकाशराज उवाच

कन्या त्वयोनिजा दिव्या सुभगा कमलालया ॥

अर्थिता देवदेवेन वेंकटाद्रिनिवासिना

॥४०॥

पूर्णो मनोरथो मेऽद्य ब्रूत किं संमतं तु वः ॥

श्रुत्वा मंत्रिगणाः सर्वे राज्ञो वचनमुत्तमम्

॥४१॥

प्रोचुः सुप्रीतमनसो वियद्राजं महीपतिम् ॥

वयं कृतार्था राजेन्द्र कुलं सर्वोन्नतं भवेत्

॥४२॥

भवत्कन्येयमतुला श्रिया सह रमिष्यति ॥

दीयतां देवदेवाय शार्ङ्गिणे परमात्मने

॥४३॥

अयं वसन्तः श्रीमांश्च शुभं शीघ्रं विधीयताम्

॥४४॥

अथ बृहस्पत्युक्त्या विवाहलग्नस्थिरीकरणम् ॥

आहूय धिषणं लग्नं विवाहार्थं विधीयताम्

॥४५॥

तथास्त्वित्याह्वयामास सुरलोकाद्बृहस्पतिम् ॥

पप्रच्छ कन्यावरयोर्विवाहार्थं नरेश्वरः

॥४६॥

राजोवाच

कन्याया जन्मनक्षत्रं मृगशीर्षमिति स्मृतम् ॥

देवस्य श्रवणर्क्षन्तु तयोर्योगो विचार्यताम्

॥४७॥

श्रुत्वाऽब्रवीत्स धिषणस्तयोरुत्तरफल्गुनी ॥

संमता सुखवृद्ध्यर्थं प्रोच्यते दैवचिंतकैः

॥४८॥

तयोरुत्तरफल्गुन्यां विवाहः क्रियतामिति ॥

वैशाखमासे विधिवत्क्रियतामिति सोऽब्रवीत्

॥४९॥

श्रीवराह उवाच

राजा तु धिषणं तत्र संपूज्याथ विसृज्य च ॥

देवस्य दूतिकामाह गच्छ देवालयं शुभे

॥५०॥

वैशाखे देवदेवाय कल्याणं वद सुव्रते ॥

वैवाहिकविधानं तु कृत्वा चागम्यतामिति

॥५१॥

ततो देव्याः प्रियकरं शुकं दूतं तया सह ॥

विसृज्य वायुं स्वसुतमिन्द्राद्यानयनेऽसृजत्

॥५२॥

अथ विश्वकर्मादिकृतपुरालंकारादिक्रमः ॥

आहूय विश्वकर्माणं पुरालंकारकर्मणि ॥

नियोजयामास सोऽपि निर्ममे निमिषांतरात्

॥५३॥

इन्द्रोऽसृजत्पुष्पवृष्टिं ननृतुश्चाप्सरोगणाः ॥

धनदो धनधान्याद्यैः पूरयामास वेश्म तत्

॥५४॥

यमस्तु रोगरहितांश्चकार मनुजान्भुवि ॥

वरुणो रत्नजालानि मौक्तिकादीन्यपूरयत्

॥५५॥

एवं संपाद्य सर्वाणि ययुर्देवा वृषाचलम्

॥५६॥

अथ शुकेन सह बकुलायाः श्रीनिवाससमीपे गमनम् ॥

श्रीवराह उवाच ॥

ततः सा हयमारुह्य शुकेन सहिता ययौ ॥

श्रीवेंकटाद्रिमासाद्य देवालयसमीपतः

॥५७॥

अवरुह्य तुरंगात्सा सशुकाऽभ्यन्तरं ययौ ॥

दृष्ट्वा देवं रत्नपीठे श्रिया सह सुलोचनम्

॥५८॥

प्रणम्य ह्यवदत्प्रीता कृत्यं तत्र कृतं विभो ॥

मांगल्यवार्तां वक्तुं वै शुक एष समागतः

॥५९॥

अथ श्रीनिवासाय शुकावेदित पद्मावतीपरिणयवृत्तान्तः ॥

वदेति देवेनाज्ञप्तः शुको नत्वा तमब्रवीत् ॥

शुक उवाच ॥

त्वां प्रत्याह सुता भूमेर्मामंगीकुरु माधव

॥६०॥

वदामि तव नामानि स्मरामि त्वद्वपुस्सदा ॥

ध्रियन्ते तव चिह्नानि भुजाद्यंगै रमापते

॥६१॥

त्वद्भक्तानर्चयामीह पंचसंस्कारसंयुतान् ॥

त्वत्प्रीतये हि कर्माणि करोमि मधुसूदन

॥६२॥

एवं सदैवाचरंत्याः पित्रोरनुमते मम ॥

कुरु प्रसादं देवेश मामंगीकुरु माधव

॥६३॥

इति विज्ञापयामास कमलस्था धरासुता ॥

शुकस्य वचनं श्रुत्वा सुप्रियं त्वात्मनो हरिः

॥६४॥

अथ पद्मावत्याः शुकदत्तश्रीनिवासमालाधारणम् ॥

श्रीभगवानुवाच ॥

कर्तुं कल्याणमुद्वाहमागमिष्यामि चाऽमरैः ॥

शुक गच्छ वदैवं तामित्थं देवोऽब्रवीदिति

॥६५॥

शुकः श्रुत्वा देववाक्यमादाय वनमालिकाम् ॥

देवदत्तां ययौ शीघ्रं वियद्राजसुतां प्रति

॥६६॥

तुलसीमालिकां दत्त्वा मृगनाभिसुगंधिनीम् ॥

प्रणम्य देवीमवदच्छुको देववचः शुभम्

॥६७॥

श्रुत्वा तन्मालिकां गृह्य भूमिजा शिरसा दधौ ॥

चक्रेऽलंकारमुचितं देवागमनकांक्षिणी

॥६८॥

वियद्राजोऽपि सानन्दमिन्दुमाहूय सादरम् ॥

अन्नं विधीयतां राजन्विविधं रससंयुतम्

॥६९॥

विष्णोर्नैवेद्ययोग्यं यत्परमान्नं विधीयताम् ॥

देवानां च ऋषीणां च नराणामपि संमतम्

॥७०॥

चतुर्विधं सुगन्धाढ्यममृतांशैः सुधाकर ॥

एवं कृत्वा संविधानं प्रतीक्ष्यागमनं विभोः

॥७१॥

सभायां मंत्रिसहितः समास्त प्रीतमानसः ॥

पुत्रीमलंकृतां कृत्वा धरणीसहितो नृपः

॥७२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे धरणीदेव्यै बकुलमालिकानिवेदित श्रीनिवासोदन्तकमलालयाकल्याणविध्यादिवृत्तांतवर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥