सर्वजनदृग्गोचरत्वादिवर्णनम्
अथ अगस्त्यप्रार्थनया भगवतः सर्वजनदृग्गोचरत्ववर्णनम् ॥
श्रीवराह उवाच ॥
हन्त ते कथयिष्यामि पुरावृत्तं वरानने ॥
शृणु पुण्यं महादेवि सभविष्यं सहोत्तरम्
॥१॥वैवस्वतेऽन्तरे देवि पूर्वे कृतयुगेंऽतरे ॥
वायोस्तपो महद्दृष्ट्वा श्रीभूमिसहितोऽनघ ॥
आगच्छच्छ्रीनिवासश्च स्वामिपुष्करिणीतटे
॥२॥दक्षिणेऽस्मिन्पुण्यतम आनन्दाख्यविमानके ॥
वसिष्यति च श्रीकांतो वायोः प्रियकरो हरिः
॥३॥तदारभ्य हृषीकेशः सेनान्याराधितोऽनिशम् ॥
आकल्पांतमदृश्योऽस्मिन्विमानेऽसौ वसिष्यति
॥४॥धरण्युवाच
अदृश्यो भगवान्मर्त्यैः कथ दृश्यो भविष्यति
॥५॥श्रीनिवासोऽपि देवेशो भवद्दक्षिणपार्श्वगः ॥
एतद्वद सुराधीश जनैराराध्यते कथम्
॥६॥श्रीवराह उवाच
अगस्त्योऽस्मिन्समासाद्य दृष्ट्वा देवं सनातनम् ॥
आराध्य द्वादशाब्दं तं प्रीणयित्वा पुनःपुनः
॥७॥ययाचे तत्र सान्निध्यं भवान्दृश्यो भवत्विति ॥
एवमुक्तो हृषीकेशः श्रीभूमिसहितो धरे
॥८॥श्रीभगवानुवाच
अहं दृश्यो भविष्यामि त्वत्कृते सर्वदेहिनाम् ॥
एतद्विमानं देवर्षे न दृश्यं स्यात्कदाचन
॥९॥आकल्पान्तं मुनीन्द्रास्मिन्दृश्योऽहं नात्र संशयः ॥
मुनिस्तद्वचनं श्रुत्वा प्रीतः प्रायात्स्वमाश्रमम्
॥१०॥ततश्चतुर्भुजो देवः स दृश्योऽभून्नरादिभिः ॥
विमाने मुनिचिन्त्येऽस्मिन्नासिता च तथोत्तरम्
॥११॥आराध्यमानः स्कंदेन वायुना सेवितः सदा ॥
एवं गते महाकाले चतुर्युगसमन्विते
॥१२॥अथ मित्रवर्मण आकाशराजाख्यसुतोत्पत्तिवर्णनम् ॥
अष्टाविंशे तु संजाते द्वापरान्ते वसुन्धरे ॥
युद्धे च भारतेऽतीते तिष्ये सति युगे तथा
॥१३॥विक्रमार्कादयो भूपाः शकाः शूद्रादयस्तथा ॥
गमिष्यंति स्वर्गलोकं मामज्ञात्वा वरानने
॥१४॥ततः सोमकुलोद्भूतो मित्रवर्मा महारथः ॥
तुण्डीरमण्डले राजा नारायणपुरं वसन्
॥१५॥भविष्यति वरारोहे महाभाग्योदयो महान् ॥
तस्मिञ्छासति भूलोकं धर्मेण पृथिवीपतौ
॥१६॥अकृष्टपच्या पृथिवी सर्वसस्यविभूषणा ॥
निरीतिकोऽभवत्सर्वो जनो धर्मसमन्वितः
॥१७॥तस्य पत्नी समभवत्पांड्यकन्या मनोरमा ॥
तस्य जज्ञे कुलोत्तंसो वियन्नामा सुतोऽस्य वै
॥१८॥तस्य पत्नी तु धरणी नाम्नासीच्छकवंशजा ॥
तस्मिन्राज्यं विनिक्षिप्य मित्रवर्मा नृपोत्तमः
॥१९॥ययौ तपोवनं पुण्यं वेंकटाद्रेः समीपतः
॥२०॥अथ धरणीतलात्पद्मावत्युत्पत्तिक्रमः ॥
आकाशनामा तु महान्राजाभूत्सार्वभौमकः ॥
एकदारव्रतो राजा धरणीसक्तचेतनः
॥२१॥यज्ञार्थं शोधयामास भुवमारणितीरतः ॥
कांचनेन हलेनैव कृष्यमाणे धरातले
॥२२॥बीजमुष्टिं विकिरता दृष्टा कन्या धरोद्गता ॥
पद्मशय्यागता रम्या सर्वलक्षणलक्षिता
॥२३॥तप्तजांबूनदमयी पुत्रिकेव विराजती ॥
तां दृष्ट्वा स महीपालो विस्मयोत्फुल्ललोचनः
॥२४॥आदाय तनया चेयं ममैवेति पुनःपुनः ॥
जहर्ष मंत्रिभिश्चैनं प्राह वागशरीरिणी
॥२५॥सत्यं तवैव तनया वर्धयस्व सुलोचनाम् ॥
ततः प्रीतमना राजा स्वपुरं प्रविवेश ह
॥२६॥आहूय धरणीं देवीमिदमाह महीपतिः ॥
देवदत्तामिमां पश्य भूतलादुत्थितां मम
॥२७॥आवाभ्यां तदपुत्राभ्यां पुत्रीयं भविता ध्रुवम् ॥
इत्युक्त्वा प्रददौ देव्या हस्ते प्रीत्या वियन्नृपः
॥२८॥अथ आकाशराजस्य धरण्याख्यपत्न्यां वसुदानाख्यसुतोत्पत्तिः ॥
तस्यां गृहं प्रविष्टायां धरणी गर्भमादधौ ॥
वियन्नृपश्च सुप्रीतो वीक्ष्य स्निग्धविलोचनाम्
॥२९॥उवाच फलिता सुभ्रुर्लता सान्तानिकी च मे
॥३०॥अथ सा धरणी देवी काले कमललोचना ॥
सुप्रशस्ते मुहूर्ते च स्वोच्चसंस्थेषु पञ्चसु ॥
ग्रहेषु सुषुवे पुत्रं मेषस्थे च दिवाकरे
॥३१॥देवदुन्दुभयो नेदुः पुष्पवृष्टिर्गृहेऽपतत् ॥
ववौ वायुः सुखस्पर्शस्तज्जन्मदिवसे तदा
॥३२॥पुत्रसूतिप्रवक्तॄणां सुप्रीतः पुत्रजन्मनि ॥
सर्वस्वदानमकरोच्छत्रचामर वर्जितम्
॥३३॥कपिलाकोटिदानं च वृषभाणां शताधिकम् ॥
दिवसे द्वादशे पुण्ये जातकर्मादिकाः क्रिया ॥
चकार नामधेयं च वसुदान इति स्वयम्
॥३४॥श्रीवराह उवाच
आकाशतनयो देवि वसुदानो मनोरमः ॥
ववृधे दिवसैर्बालः शुक्लपक्ष इवोडुराट्
॥३५॥उपनीतो विनीतोऽसौ गुरुभिर्ब्रह्मपारगैः ॥
पितुरस्त्राणि शस्त्राणि मन्त्रवत्सोऽप्यशिक्षत
॥३६॥चतुष्पादं धनुर्वेदं सांगोपांगमधीतवान् ॥
पिता तेनातिबलिना दुराधर्षः परैरभूत्
॥३७॥आकाश इव निष्पंको ग्रीष्मे भानुमता युतः ॥
वैशाख इव मध्याह्ने दुःसहो दुर्निरीक्षकः
॥३८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादेऽगस्त्यप्रार्थनयाभगवतः सर्वजनदृग्गोचरत्वादिवर्णनंनाम तृतीयोऽध्यायः ॥ ३ ॥