गृहगोधिकाख्यानम्
नारद उवाच
वैशाखेऽध्वगतप्तानां तृषार्तानां महीपते ॥
जलदानमकुर्वाणस्तिर्शयोनिमवाप्नुयात्
॥१॥अत्रैवोदाहर न्तीममितिहासं पुरातनम् ॥
विप्रस्य गृहगोधायाः संवादं परमाद्भुतम्
॥२॥पुरा चेक्ष्वाकुवंशेऽभूद्धेमांग इति भूमिपः ॥
ब्रह्मण्यश्च वदान्यश्च जितामित्रो जितेन्द्रियः
॥३॥यावत्यो भूमिकणिका यावन्तो जलबिंदवः ॥
यावन्त्युडूनि गगने तावतीरददात्स गाः
॥४॥येनेष्टयज्ञदर्भैश्च भूमिर्बर्हिष्मती शुभा ॥
गोभूतिलहिरण्याद्यैस्तोषिता बहवो द्विजाः
॥५॥तेनादत्तानि दानानि न विद्यन्त इति श्रुतम् ॥
तेनादत्तं जलं चैकं सुखलभ्यधिया नृप
॥६॥बोधितो ब्रह्मपुत्रेण वसिष्ठेन महात्मना ॥
अमौल्यं सर्वतो लभ्यं तद्दाता किं फलं लभेत्
॥७॥दुर्बुद्ध्या हेतुवादैश्च न जलं दत्तवान्द्विजे ॥
अलभ्यदाने पुण्यं स्यादिति वाक्यं सुयुक्तिमत्
॥८॥स आनर्च द्विजान्व्यङ्गान्दरिद्रान्वृत्तिकर्शितान् ॥
नार्चयच्छ्रोत्रियान्विप्रांस्तत्त्वज्ञान्ब्रह्मवादिनः
॥९॥प्रख्यातान्पूजयिष्यंति सर्वे लोका महार्हणाः ॥
अनाथानामविद्यानां व्यंगानां च द्विजन्मनाम्
॥१०॥दरिद्राणां गतिः का वा तस्मात्ते मे दयास्पदम् ॥
इति दुर्धीरपात्रेषु दत्तवान्किमपि स्वयम्
॥११॥तेन दोषेण महता चातकत्वं त्रिजन्मसु ॥
एकजन्मनि गृध्रत्वं श्वाऽभवत्सप्तजन्मसु
॥१२॥पश्चान्नृपगृहे जातो भूपोऽयं गृहगोधिका ॥
श्रुतकीर्त्याख्यभूपस्य मिथिलाधिपतेर्नृप
॥१३॥गृहद्वारप्रतोल्यां च वर्तते कीटकाशना ॥
सप्ताशीतिषु वर्षेषु स्थितं तेन दुरात्मना
॥१४॥विदेहाधिपतेर्गेहे कदाचिदृषिसत्तमः ॥
श्रुतदेव इति ख्यातः श्रौतो मध्याह्न आगतः
॥१५॥तं दृष्ट्वा सहसोत्थाय जातहर्षो नराधिपः ॥
मधुपर्कादिभिः पूज्य तस्य पादावनेजनीः
॥१६॥अपो मूर्ध्ना वहन्क्षिप्रं तदोत्सिक्तैश्च बिंदुभिः ॥
दैवोपदिष्टकालेन प्रोक्षिता गृहगोधिका
॥१७॥सद्यो जातस्मृतिरभूत्स्मृतकर्मादिदुःखिता ॥
त्राहित्राहीति चुक्रोश ब्राह्मणं गृहमागतम्
॥१८॥तिर्यग्जंतुरवं श्रुत्वा ब्राह्मणो विस्मितोऽवदत् ॥
कुतः क्रोशसि गोधे त्वं दशेयं केन कर्मणा
॥१९॥त्वं देवः पुरुषः कश्चिन्नृपो वाऽथ द्विजोऽथ वा ॥
कस्त्वं ब्रूहि महाभाग त्वामद्याहं समुद्धरे
॥२०॥इत्युक्तः स नृपः प्राह श्रुतदेवं महामतिम् ॥
अहमिक्ष्वाकुकुलजो वेदशास्त्रविशारदः
॥२१॥यावत्यो भूमिकणिका यावन्तस्तोयबिंदवः ॥
यावंत्युडूनि गगने तावतीरददं स्म गाः
॥२२॥सर्वे यज्ञा मया चेष्टाः पूर्तान्याचरितानि मे ॥
दानन्यपि च दत्तानि धर्मराजस्त्वनुष्ठितः
॥२३॥तथापि दुर्गतिर्जाता मम चोर्ध्वगतिं विना ॥
त्रिवारं चातकत्वं मे गृध्रत्वं चैकजन्मनि
॥२४॥सप्तजन्मस्वलर्कत्वं प्राप्तं पूर्वं मया द्विज ॥
सिंचताऽनेन भूपेन त्वपः पादावनेजनीः
॥२५॥बिंदवो दूरमुत्क्षिप्तास्तैः सिक्तोऽहं कथंचन ॥
तेन जन्मस्मृतिरभूत्सर्वपाप्मा हतश्च मे
॥२६॥गोधा जन्मानि भाव्यानि ह्यष्टा विंशतिकानि मे ।
दृश्यन्ते दैवसृष्टानि बिभ्ये तैर्जन्मभिर्भृशम्
॥२७॥न कारणं प्रपश्याभि तन्मे विस्तरतो वद ॥
इत्युक्तः स ऋषिः प्राह ज्ञात्वा विज्ञानचक्षुषा
॥२८॥शृणु भूप प्रवक्ष्यामि तव दुर्योनिकारणम् ॥
न जलं तु त्वया दत्तं वैशाखे माधवप्रिये
॥२९॥तज्जलं सुलभं मत्वा ह्यमूल्यमिति निश्चितम् ॥
नाध्वगानां द्विजातीनां घर्मकालेऽप्यजानता
॥३०॥तथा पात्रं समुत्सृज्य ह्यपात्रे प्रतिदत्तवान् ॥
ज्वलन्तमग्निमुत्सृज्य नहि भस्मनि हूयते
॥३१॥बहुधा वर्णितस्याऽपि सौगन्ध्यादियुतस्य च ॥
कण्टकान्वितवृक्षस्य न कुर्वंति समर्चनम्
॥३२॥विशिष्टानां पादपानामश्वत्थः सेव्यतां गतः ॥
तुलसीं तु समुत्सृज्य बृहती पूज्यते नु किम्
॥३३॥अनाथत्वं पूज्यतायां न प्रयोजकतामियात् ॥
पंग्वाद्या येऽप्यनाथा हि दयापात्रं हि केवलम्
॥३४॥तपोनिष्ठा ज्ञाननिष्ठाः श्रुतिशास्त्रविशारदाः ॥
विष्णुरूपाः सदा पूज्या नेतरे तु कदाचन
॥३५॥तत्रापि ज्ञानिनोऽत्यर्थं विप्रा विष्णोः सदैव हि ॥
ज्ञानिनामपि भूपाल विष्णुरेव सदा प्रियः ॥
तस्माज्ज्ञानी सदा पूज्यः पूज्यात्पूज्यतरः स्मृतः
॥३६॥अवज्ञा साधुवृत्तानामिहाऽमुत्र च दुःखदा ॥
सेवा वै महतां पुंसां पुमर्थानां हि कारणम्
॥३७॥कोटयोऽप्यन्धजातीनां न पश्यंति यथाऽयथम् ॥
एवं मन्दायुतानां तु संगतिर्नार्थदा भवेत्
॥३८॥नह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ॥
ते पुनंत्युरुकालेन दर्शनादेव साधवः
॥३९॥न साधुसेवनात्क्वापि सीदन्ते तैः सुशिक्षिताः ॥
जन्ममृत्युजराद्यैर्वा सुधयाऽऽप्यायिता यथा
॥४०॥न जलं तु त्वया दत्तं साधवो वा न सेविताः ॥
तेन ते दुर्गतिश्चेयं प्राप्ता चेक्ष्वाकुनंदन
॥४१॥वैशाखे मत्कृतं पुण्यं तुभ्यं दास्यामि शान्तये ॥
भूतं भव्यं भवद्येन कर्मजातं विजे ष्यसि
॥४२॥इत्युक्त्वाऽप उपस्पृश्य ददौ पुण्यमनुत्तमम्
॥४३॥यदा दत्तं ब्राह्मणेन स्नानं चैकदिने कृतम् ॥
तेन ध्वस्ताऽखिलाघस्तु त्यक्त्वा तां गृहगोधिकाम्
॥४४॥दिव्यं विमानमारुह्य दिव्यस्रग्वस्त्रभूषणः ॥
पश्यतामेव भूतानां मैथिलस्य गृहांतरे
॥४५॥बद्धाञ्जलिपुटो भूत्वा परिक्रम्य प्रणम्य च ॥
अनुज्ञातो ययौ राजा स्तूयमानोऽमरैर्दिवम्
॥४६॥तत्र भुक्त्वा महाभोगान्वर्षायुतमतन्द्रितः ॥
स एव चेक्ष्वाकुकुले काकुत्स्थोऽभून्महाप्रभुः
॥४७॥सप्तद्वीपवतीपालो ब्रह्मण्यः साधुसंमतः ॥
देवेन्द्रस्य सखा विष्णोरंश एव महाप्रभुः
॥४८॥बोधितस्तु वसिष्ठेन वैशाखोक्तान्मनोरमान् ॥
अनुष्ठायाखिलान्धर्मांस्तेन ध्वस्ताखिलाऽशुभः
॥४९॥दिव्यं ज्ञानं समासाद्य विष्णोः सायुज्यमाप्तवान् ॥
वैशाखः शुभदस्तस्मात्पुंभिः सर्वैरनुष्ठितः
॥५०॥आयुर्यशःपुष्टिदोऽयं महापापौघनाशनः ॥
पुमर्थानां निदानं च विष्णुः प्रीणात्यनेन तु
॥५१॥चातुर्वर्ण्यनरैः सर्वैश्चतुराश्रमवर्तिभिः ॥
अनुष्ठेयो महाधर्मो वैशाखे माधवागमे
॥५२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे गृहगोधिकाख्यानं नाम षष्ठोऽध्यायः ॥ ६ ॥