मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वैशाखमासमाहात्म्यम्, अध्याय २

3
वैष्णवखण्डः · वैशाखमासमाहात्म्यम् · 2

दाननिरूपणम्

नारद उवाच

न माधवसमो मासो न कृतेन युगं समम् ॥

न च वेदसमं शास्त्रं न तीर्थं गंगया समम्

॥१॥

न जलेन समं दानं न सुखं भार्यया समम् ॥

न कृषेस्तु समं वित्तं न लाभो जीवितात्परः

॥२॥

न तपोऽनशनात्तुल्यं न दानात्परमं सुखम् ॥

न धर्मस्तु दयातुल्यो न ज्योतिश्चक्षुषा समम्

॥३॥

न तृप्तिरशनात्तुल्या न वाणिज्यं कृषेः समम् ॥

न धर्मेण समं मित्रं न सत्येन समं यशः

॥४॥

नारोग्यसममुत्थानं न त्राता केशवात्परः ॥

न माधवसमं लोके पवित्रं कवयो विदुः

॥५॥

माधवः परमो मासः शेषशायिप्रियः सदा ॥

अव्रतेन क्षिपेद्यस्तु मासं माधववल्लभम्

॥६॥

तिर्यग्योनिं स यात्याशु सर्वधर्मबहिष्कृतः ॥

अव्रतेन गतो येषां माधवो मर्त्यधर्मिणाम्

॥७॥

इष्टापूर्ते वृथा तेषां धर्मोधर्मभृतां वरः ॥

प्रवृत्तानां तु भक्ष्याणां माधवेऽनियमे कृते

॥८॥

अवश्यं विष्णुसायुज्यं प्राप्नोत्येव न संशयः ॥

संतीह बहुवित्तानि व्रतानि विविधानि च

॥९॥

देहाऽऽयासकराण्येव पुनर्जन्मप्रदानि च ॥

वैशाखस्नानमात्रेण न पुनर्जायते भुवि

॥१०॥

सर्व दानेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ॥

तत्फलं समवाप्नोति माधवे जलदानतः

॥११॥

जलदानासमर्थेन परस्यापि प्रबोधनम् ॥

कर्तव्यं भूतिकामेन सर्वदानाधिकं हितम्

॥१२॥

एकतः सर्वदानानि जलदानं हि चैकतः ॥

तुलामारोपितं पूर्वं जलदानं विशिष्यते

॥१३॥

मार्गेऽध्वगानां यो मर्त्यः प्रपादानं करोति हि ॥

स कोटिकुलमुद्धृत्य विष्णुलोके महीयते

॥१४॥

देवानां च पितॄणां च ऋषीणां राजसत्तम ॥

अत्यंत प्रीतिदं सत्यं प्रपादानं न संशयः

॥१५॥

प्रपादानेन संतुष्टा येनाऽध्वश्रमकर्षिताः ॥

तोषितास्तेन देवाश्च ब्रह्मविष्णुशिवादय

॥१६॥

सलिलं सलिलेच्छूनां छत्रं छायामपीच्छताम् ॥

व्यजनं व्यजनेच्छूना वैशाखे मासि भूमिप

॥१७॥

जलं छत्रं च व्यजनं दानं येषां विशिष्यते ॥

माधवे मासि संप्राप्ते ब्राह्मणाय कुटुम्बिने

॥१८॥

अदत्त्वोदककुम्भं च चातको जायते भुवि

॥१९॥

यो दद्याच्छीतलं तोयं तृषार्ताय महात्मने ॥

तावन्मात्रेण राजेंद्र राजसूयायुतं लभेत्

॥२०॥

घर्मश्रमार्तविप्राय वीजयेद्व्यजनेन यः ॥

तावन्मात्रेण निष्पापो विहगाधिपतिर्भवेत

॥२१॥

अदत्त्वा व्यजनं भूप वैशाखे तु द्विजातये ॥

वातरोगशताकीर्णो नरकानेव विंदति

॥२२॥

यो वीजयेत्पटेनाऽपि पथि श्रांतं द्विजोत्तमम् ॥

तावताथ विमुक्तोऽसौ विष्णुसायुज्यमाप्नुयात्

॥२३॥

यास्तालव्यजनं वाऽपि दत्त्वा शुद्धेन चेतसा ॥

विधूय सर्वपापानि ब्रह्मलोकं स गच्छति

॥२४॥

सद्यः श्रमहरं पुण्यं न दद्याद्व्यजनं नरः ॥

नारकीं यातनां भुक्त्वा कश्मलो जायते भुवि

॥२५॥

आध्यात्मिकादिदुःखानां शांतये मनुजेश्वर ॥

छत्रं दद्यात्प्रयत्नेन वैशाखे मासि वासकृत्

॥२६॥

अच्छत्रदो नरो यस्तु वैशाखे माधवप्रिये ॥

छायाहीनो महाक्रूरः पिशाचो भुवि जायते

॥२७॥

यो दद्यात्पादुके दिव्ये माधवे माधवप्रिये ॥

यमदूतौ तिरस्कृत्य विष्णुलोकं स गच्छति

॥२८॥

पादत्राणं तु यो दद्याद्वैशाखे माधवागमे ॥

न तस्य नारको लोको न क्लेशा ऐहिकाश्च ये

॥२९॥

पादुके याचमानाय यो दद्याद्ब्राह्मणाय च ॥

स भूपालो भवेद्भूमौ कोटिजन्मस्वसंशयम्

॥३०॥

अनाथमंडपं मार्गे श्रमहारि करोति यः ॥

तस्य पुण्यफलं वक्तुं ब्रह्मणाऽपि न शक्यते

॥३१॥

मध्याह्ने ब्राह्मणं प्राप्तमतिथिं भोजयेद्यदि ॥

न तस्य फलविश्रांतिर्ब्रह्मणाऽपि निरूपिता

॥३२॥

सद्यः स्वाप्यायनं नृणामन्नदानं नराधिप ॥

तस्मान्नान्नेन सदृशं दानं लोकेषु विद्यते

॥३३॥

मार्गश्रांताय विप्राय प्रश्रयं प्रददाति यः ॥

तस्य पुण्यफलं वक्तुं ब्रह्मणाऽपि न शक्यते

॥३४॥

दारापत्यगृहादीनि वासोऽलंकारभूषणम् ॥

असह्यं नाश्नतः पुंसः सह्यं भुक्तवतो ध्रुवम्

॥३५॥

तस्मादन्नसमं दानं न भूतं न भविष्यति ॥

वैशाखे येन चादत्तं मार्गश्रांते च भूसुरे

॥३६॥

स पिशाचो भवेद्भूमौ स्वमांसान्येव खादति ॥

यथाविभूति दातव्यं तस्मादन्नं द्विजातये

॥३७॥

अन्नदो मातृपित्रादीन्विस्मारयति भूमिप ॥

तस्मादन्नं प्रशंसंति लोकास्त्रैलोक्यवर्तिनः

॥३८॥

मातरः पितरश्चापि केवलं जन्महेतवः ॥

अन्नदं पितरं लोके वदन्ति च मनीषिणः

॥३९॥

अन्नदे सर्वतीर्थानि अन्नदे सर्वदेवताः ॥

अन्नदे सर्वधर्माश्च तिष्ठंत्यरिधराजय

॥४०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे दाननिरूपणंनाम द्वितीयोऽध्यायः ॥ २ ॥