भवताऽनुगृहीतोऽस्मि मुने पापोऽतिदुष्टधीः
वाल्मिके:पूर्व जन्मस्य कथा "व्याध उवाच
भवताऽनुगृहीतोऽस्मि मुने पापोऽतिदुष्टधीः ॥
दयालवो महांतो हि स्वभावादेव साधवः
॥१॥क्व व्याधश्चाऽकुलीनोऽहं क्व च वा मतिरीदृशी ॥
केवलं भवतामेव मन्येऽनुग्रहमुत्तमम्
॥२॥अथ साधो च शिष्योस्मि कृपापात्रोस्मि मानद ॥
अनुग्राह्योऽस्मि पुत्रोऽस्मि कृपां कुरु दयानिधे
॥३॥यथा मे न पुनर्भूयादसन्मतिरनर्थदा ॥
सद्भिस्तु संगतेः क्वापि नभूयो दुःखमश्नुते
॥४॥तस्माद्बोधय मां विप्र सूक्तैस्तैर्वृजिनापहैः ॥
येन चाद्धा तरिष्यंति संसाराब्धिं मुमुक्षवः
॥५॥साधूनां समचित्तानां तथा भूतदयावताम् ॥
न च हीनोत्तमः क्वापि नात्मीयो हि परस्तथा
॥६॥ऐकाग्र्येण विचिंत्याथ चित्तशुद्धिं च पृच्छति ॥
सर्वदोषयुतो वापि सर्वधर्मोज्झितोऽपि वा
॥७॥कृतानुतापश्च यदा यदा पृच्छति वै गुरून् ॥
तदैवोपदिशंत्यद्धा ज्ञानं संसारमोचकम्
॥८॥यथा गंगा मनुष्याणां पापनाशस्य भाविनी ॥
तथा मन्दसमुद्धारस्वभावाः साधवः स्मृताः
॥९॥मा विचारय मां बोद्धुं दयालो भक्तवत्सल ॥
शुश्रूषुत्वान्नतत्वाच्च शुद्धत्वात्तव संगतेः
॥१०॥इति व्याधवचः श्रुत्वा पुनर्विस्मितमानसः ॥
साधुसाध्विति संभाष्य धर्मानेतानुवाच ह
॥११॥शंख-उवाच
विष्णुप्रीतिकरान्दिव्यान्संसाराब्धिविमोचकान् ॥
कुरु धर्मांश्च वैशाखे यदि व्याध शमिच्छसि
॥१२॥आतपो बाधते घोरो न च्छाया नांबु चात्र च ॥
तस्मात्स्थलांतरं यावो यत्र च्छाया तु वर्तते
॥१३॥तत्र गत्वा जलं पीत्वा सुच्छायां च समाश्रितः ॥
तत्र ते वर्णयिष्यामि माहात्म्यं पापनाशनम्
॥१४॥विष्णोर्माधवमासस्य यथादृष्टं यथाश्रुतम् ॥
इत्युक्तो मुनिना तेन व्याधः प्राह कृताञ्जलिः
॥१५॥इतो विदूरे सलिलं वर्तते च सरोवरे ॥
कपित्थास्तत्र वै सन्तिफलभारेण पीडिताः
॥१६॥गच्छावस्तत्र संतुष्टिर्भविता नात्र संशयः ॥
व्याधेनैवं समादिष्टस्तेन साकं ययौ मुनिः
॥१७॥कियद्दूरं ततो गत्वा ददर्शाग्रे सरोवरम् ॥
बक कारण्डवाकीर्णं चक्रवाकोपशोभितम्
॥१८॥हंससारसक्रौंचाद्यैः समंतात्परिशोभितम् ॥
कीचकैश्च सुघोषैश्च कूजितं भ्रमरैरपि
॥१९॥नक्रकच्छपमीनाद्यैर्वगाह्यं सुमनोहरम् ॥
कुमुदोत्पलकह्लार पुंडरीकादिभिर्महत्
॥२०॥शतपत्रैः कोकनदैः समन्तात्परिशोभितम् ॥
पक्षिणां च कलारावैर्मुखर नयनोत्सवम्
॥२१॥तटे कीचकगुल्मैश्च तथा वृक्षैश्च शोभितम् ॥
वटैः करंजैर्नीपैश्च चिंचिणीभिस्तथैव च
॥२२॥निम्बप्लक्षप्रियालैश्च चम्पकैर्बकुलैः शुभैः ॥
पुन्नागैस्तुम्बरैश्चैव कपित्थामलकैरपि
॥२३॥निष्पेषणैश्च जम्बूभिः समंतात्परिशोभितम् ॥
वन्यमातंगसारंग वराहमहिषादिभिः
॥२४॥शशैश्च शल्लकैश्चैव गवयैरुपशोभितम् ॥
खङ्गनाभिमृगाद्यैश्च व्याघ्रैः सिंहैर्वृकैरपि
॥२५॥खरान्तकैश्च शरभैश्च मरीभिः सुमण्डितम् ॥
शाखाशाखान्तरं शीघ्रं प्लवमानैः प्लवंगमैः
॥२६॥मार्जारैश्चैव भल्लूकैर्भीषणं रुरुभिस्तथा ॥
झिल्लीशब्दैश्च क्रेंकारैः कीचकानां रवैस्तथा
॥२७॥घोरवायुविनिर्घातदारुभारैः समन्वितम् ॥
एतादृशं सरो दिव्यं व्याधेनैव प्रदर्शितम्
॥२८॥ददर्श मुनिशार्दूलस्तृषया बाधितो भृशम् ॥
स्नात्वा मध्याह्नवेलायां सरस्यस्मिन्मनोरमे
॥२९॥वाससी परिधायाऽथ कृत्वा माध्याह्निकीःक्रियाः ॥
देवपूजां ततः कृत्वा भुक्त्वा फलमतन्द्रितः
॥३०॥व्याधोपनीतं सुस्वादु कपित्थं श्रमहारि च ॥
सुखोपविष्टः पप्रच्छ व्याधं धर्मरतं पुनः
॥३१॥किं वक्तव्यं मया ह्यद्य तवादौ धर्मतत्पर ॥
धर्माश्च बहवः संति नानामार्गाः पृथग्विधाः
॥३२॥तत्र वैशाखमासोक्ताः सूक्ष्मा अपि महार्थदाः ॥
सर्वेषामेव जन्तूनामिहाऽमुत्र फलप्रदाः
॥३३॥यत्प्रष्टव्यं मनसि ते यच्चादौ तच्च पृच्छताम् ॥
इत्युक्तो मुनिना तेन व्याधः प्रांजलिरब्रवीत्
॥३४॥व्याध उवाच
केन वा कर्मणा चाऽऽसीद्व्याधजन्म तमोमयम् ॥
केन वा चेदृशी बुद्धिः संगतिर्वा महात्मनः
॥३५॥एतच्चान्यत्समाचक्ष्व यदि मां मन्यसे प्रभो ॥
इत्युक्तः पुनरप्याह शंखो नाम महामुनिः
॥३६॥मेघगंभीरया वाचा स्मयमानमुखांबुजः ॥
शंख उवाच ॥
शाकले नगरे पूर्वं द्विजस्त्वं वेदपारगः
॥३७॥स्तम्बो नाम महातेजास्तथा श्रीवत्सगोत्रजः ॥
तवेष्टा गणिका काचिदासीत्तत्संगदोषतः
॥३७॥त्यक्त्वा नित्यक्रिया नित्यं शूद्रवद्गृहमागतः ॥
शून्याचारस्य दुष्टस्य परित्यक्तक्रियस्य च
॥३९॥ब्राह्मणी च तदा चाऽऽसीद्भार्या कांतिमती तव ॥
सा त्वां पर्यचरत्सुभ्रूः सवेश्यं ब्राह्मणाधमम्
॥४०॥उभयोः क्षालयंती च पादांस्त्वत्प्रियकारिणी ॥
उभयोरप्यधः शेते उभयोर्वचने रता
॥४१॥वेश्यया वार्यमाणाऽपि पातिव्रत्यव्रतस्थिता ॥
एवं शुश्रूषयंत्या हि भर्तारं वेश्यया सह
॥४२॥जगाम सुमहान्कालो दुःखिताया महीतले ॥
अपरस्मिन्दिने भर्ता माषं च मूलकान्वितम्
॥४३॥अभक्षयच्छूद्रधर्मान्निपावांस्तिलमिश्रितान् ॥
तदपथ्यमशित्वा तु वमंश्चैव विरेचयन्
॥४४॥अपथ्याद्दारुणो रोगो व्यजायत भगंदरः ॥
स दह्यमानो रोगेण दिवारात्रं तु भूरिशः
॥४५॥यावदास्ते गृहे वित्तं तावद्वेश्या च संस्थिता ॥
गृहीत्वा तस्य सा वित्तं पश्चान्नोवास मंदिरे
॥४६॥अन्यस्य पार्श्वमासाद्य गता घोरा सुनिर्घृणा ॥
ततः स दीनवचनो व्याधिबाधासुपीडितः
॥४७॥उक्तवान्स रुदन्भार्यां रुजा व्याकुलमानसः ॥
परिपालय मां देवि वेश्याऽऽसक्तं सुनिष्ठुरम् ॥
न मयोपकृतं किंचित्त्वयि सुंदरि पावनि ॥
को भार्यां प्रणतां पापो नानुमन्येत गर्हितः
॥४९॥स षंढो भविता भद्रे दश जन्मसु पंचसु ॥
दिवारात्रं महाभागे निमदितः साधुभिर्जनैः
॥५०॥पापयोनिमवाप्स्यामि त्वां साध्वीमवमन्य वै ॥
अहं क्रोधेन दग्धोऽस्मि तवापमानजेन वै
॥५१॥एवं ब्रुवाणं भर्तारं कृताञ्जलिपुटाऽब्रवीत् ॥
न दैन्यं भवता कार्यं न व्रीडा कांत मां प्रति
॥५२॥न चाऽपि त्वयि मे क्रोधो येन दग्धो वदस्यथ ॥
पुरा कृतानि पापानि दुःखानीह भवंति हि
॥५३॥तानि या क्षमते साध्वी पुरुषो वा स उत्तमः ॥
यन्मया पापया पापं कृतं वै पूर्वजन्मनि
॥५४॥तद्भुंजत्या न मे दुःखं न विषादः कथंचन ॥
इत्येवमुक्त्वा भर्तारं सा सुभ्रूस्तमपालयत्
॥५५॥आनीय जनकाद्वित्तं बन्धुभ्यो वरवर्णिनी ॥
क्षीरोदवासिनं देवं भर्त्तारं सा त्वचिंतयत्
॥५६॥शोधयन्ती दिवारात्रौ पुरीषं मूत्रमेव च ॥
नखेन कर्षती भर्त्तुः कृमीन्कष्टाच्छनैःशनैः
॥५७॥न सा स्वपिति रात्रौ तु न दिवा वरवर्णिनी ॥
भर्त्तुर्दुःखेन संतप्ता दुःखितेदमवोचत
॥५८॥देवाश्च पातु भर्तारं पितरो ये च विश्रुताः ॥
कुर्वंतु रोगहीनं मे भर्त्तारं गतकल्मषम्
॥५९॥चण्डिकायै प्रदास्यामि रक्तमांससमुद्भवम् ॥
सुष्ठवन्नं माहिषोपेतं भर्त्तुरारोग्यहेतवे
॥६०॥मोदकान्कारयिष्यामि विघ्नेशाय महात्मने ॥
मन्दवारे करिष्यामि चोपवासान्दशैव तु
॥६१॥नोपभुंजामि मधुरं नोपभुंजामि वै घृतम् ॥
तैलाभ्यंगविहीनाहं स्थास्ये नैवात्र संशयः
॥६२॥जीवताद्रोगहीनोऽयं भर्त्ता मे शरदां शतम् ॥
एवं सा व्याहरद्देवी वासरे वासरे गते
॥६३॥तदा चाऽऽगान्मुनिः कश्चिन्महात्मा देवलाह्वयः ॥
वैशाखे मासि घर्मार्तः सायाह्ने तस्य वै गृहम्
॥६४॥तदा वै भार्यया चोक्तं भिषग्वै गृहमागतः ॥
तेन वै रोगहानिः स्यात्तस्याऽऽतिथ्य करोम्यहम्
॥६५॥ज्ञात्वा त्वां धर्मविमुखं भिषग्व्याजेन वंचितः ॥
पादावनेजनं कृत्वा तज्जलं मूर्ध्नि साक्षिपत्
॥६६॥पानकं च ददौ तस्मै घर्मार्ताय महात्मने ॥
त्वयाऽनुमोदिता सायं घर्मतापनिवारकम्
॥६७॥स प्रातरुदिते सूर्ये मुनिः प्रायाद्यथाऽऽगतः ॥
अथ चाल्पेन कालेन सन्निपातोऽभवत्तव
॥६८॥त्रिकट्व्यां नीयमानायां भर्त्तांगुलिमखंडयत् ॥
उभयोर्दंतयोः श्लेषः सहसा समपद्यत
॥६९॥तत्खंडमंगुलेर्वक्त्रे स्थितं भर्तुः सुकोमलम् ॥
खण्डयित्वागुलिं भर्ता पञ्चत्वमगमत्तदा
॥७०॥शय्यायां सुमनोज्ञायां स्मरंस्तां पुंश्चली शुभाम् ॥
मृतं विज्ञाय भर्त्तारं भार्या कांतिमती तव
॥७१॥विक्रीय चाऽपि वलयं गृहीत्वा चेन्धनं बहु ॥
चक्रे चितिं तेन साध्वी मध्ये कृत्वा पतिं तदा
॥७२॥अवगुह्य भुजाभ्यां च पादौ चाश्लिष्य पादयोः ॥
मुखे मुखं विनिक्षिप्य हृदयं हृदये तथा
॥७३॥जघने जघनं देवी ह्यात्मानं सन्निवेश्य च ॥
दाहयामास कल्याणी भर्तृदेहं रुजान्वितम् ॥
आत्मना सह कल्याणी ज्वलिते जातवेदसि
॥७४॥विमुच्य देहं सहसा जगाम पतिं समालिंग्य मुरारिलोकम् ॥
पानीयदानेन च माधवेऽस्मिन्पादावनेजादपि योगिगम्यम्
॥७५॥त्वमंतकाले गणिकाविचिंतया देहं त्यक्त्वा मुक्तसमस्तकिल्बिषः ॥
जन्म व्याध्यं प्राप्यसे घोररूपं हिंसासक्तः सर्वदोद्वेगकारी
॥७६॥दत्ता त्वया पानकस्याऽपि दाने मासेऽनुज्ञा माधवे साधुजाने ॥
व्याधो जातस्तेन जाता सुबुद्धिर्धर्मान्प्रष्टुं सर्वसौख्यैकहेतून्
॥७७॥धृतं मूर्ध्ना पादशौचावशिष्टं जलं मुनेः सर्वपापापहारि ॥
तेनेयं ते संगतिर्मे वनेऽस्मिन्यया भूयः संपदः सन्ततिश्च
॥७८॥इत्येतत्सर्वमाख्यातं पूर्वजन्मनि यत्कृतम् ॥
कर्म पुण्यं पापकं च दृष्टं दिव्येन चक्षुषा
॥७९॥गोप्यं वा ते प्रवक्ष्यामि यद्भवाञ्छ्रोतुमिच्छति ॥
जाता ते चित्तशुद्धिर्वै स्वस्ति भूयान्महामते
॥८०॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीष संवादे व्याधोपाख्याने व्याधस्य पूर्वजन्मकथनंनामाष्टादशोऽध्यायः ॥ १८ ॥