मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वैशाखमासमाहात्म्यम्, अध्याय २०

3
वैष्णवखण्डः · वैशाखमासमाहात्म्यम् · 20

भागवतधर्मकथनम्

"वाल्मीके:पूर्वजन्मस्यकथा "व्याध-उवाच

किं जीवा विभुना सृष्टाः कोटिशोऽथ सहस्रशः ॥

दृश्यन्ते भिन्नकर्माणो नानामार्गाः सनातनाः

॥१॥

नैकस्वभावा एते हि कुत एव महामते ॥

सर्वं तत्पृच्छते मह्यं विस्तरात्तत्त्वतो वद

॥२॥

"शंख उवाच

त्रिविधा जीवसंघा हि रजःसत्त्वतमोगुणाः ॥

राजसा राजसं कर्म तामसास्तामसं तथा

॥३॥

सात्त्विकाः सात्त्विकं कर्म कुर्वंत्येते यथाक्रमम् ॥

क्वचिच्च गुणवैषम्यमेतेषां संसृतौ भवेत्

॥४॥

तेनैवोच्चावचं कर्म कुर्वंतः फलभागिनः ॥

क्वचित्सुखं क्वचिद्दुःखं क्वचिच्चोभयमेव च

॥५॥

गुणानामेव वैषम्यात्प्राप्नुवन्ति नरा इमे ॥

प्रकृतिस्था इमे जीवा बद्धा एतैर्गुणैस्त्रिभिः

॥६॥

गुणकर्माऽनुरूपेण कर्मणां व्यत्ययः फलम् ॥

गुणानुगुण्यं भूयस्ते प्रकृतिं यान्त्यमी जनाः

॥७॥

प्रकृतिस्थाः प्राकृतिका गुणकर्माऽभिमूर्छिताः ॥

गतिं प्राकृतिकीं यांति व्यत्ययः प्रकृतेर्न हि

॥८॥

तामसा दुःखबहुलाः सदा तामसवृत्तयः ॥

निर्दया निष्ठुरा लोके सदा द्वेषैकजीविनः

॥९॥

राक्षसाद्याः पिशाचांतास्तामसीं यांति वै गतिम् ॥

राजसा मिश्रमतयः कर्तारः पुण्यपापयोः

॥१०॥

पुण्यात्स्वर्गं प्राप्नुवन्ति क्वचित्पापाच्च यातनाम् ॥

अत एते मन्दभाग्या आवर्तंते पुनः पुनः

॥११॥

धर्मशीला दयावन्तः श्रद्धावन्तोऽनसूयकाः ॥

सात्त्विकाः सात्त्विकीं वृत्तिमनुतिष्ठंत आसते

॥१२॥

ते चोर्ध्वं यांति विमला गुणापाये महौजसः ॥

विभिन्नकर्मणां चातः पृथग्भावाः पृथग्विधाः

॥१३॥

गुणकर्मानुरूपेण तेषां विष्णुर्महाप्रभुः ॥

कर्माणि कारयत्यद्धा स्वस्वरूपाप्तये विभुः

॥१४॥

विष्णोर्वैषम्यनैर्घृण्ये पूर्णकामस्य वै नहि ॥

सृष्टिं स्थितिं हृतिं चैव समामेव करोत्ययम्

॥१५॥

स्वगुणादेव ते सर्वे कर्मणः फलभागिनः ॥

आरामोप्तान्यथा सर्वान्समं वर्षयति द्रुमान्

॥१६॥

एककुल्याजला ह्यंग द्रुमाश्च प्रकृतिं गताः ॥

नारामोप्तरि वैषम्यं नैर्घृण्यं वा कथंचन

॥१७॥

"व्याध उवाच

जनानां पूर्णभोगानां कदा मुक्तिर्भवेन्मुने ॥

सृष्टिकालेऽथवा ह्यंतकाले वा स्थापनस्य च

॥१८॥

क्वचिच्च सृष्टिकालस्य संहारस्याऽपि वै स्थितेः ॥

एतद्विस्तार्य मे ब्रह्मन्भगवच्चेष्टितं वद

॥१९॥

शंख उवाच

चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ॥

रात्रिश्च तावती तस्य ह्यहोरात्रं दिनं भवेत्

॥२०॥

दशपञ्चदिनान्याहुः पक्षं मासो द्वयात्मकः ॥

मासद्वयमृतुं प्राहुरयनं च ऋतुत्रयम्

॥२१॥

अयने द्वे वत्सरः स्यात्तादृक्च्छतसमा यदि ॥

गच्छंति ब्रह्मणो ह्यस्य ब्रह्मकल्पं तदा विदुः

॥२२॥

तावान्हि प्रलयः काल इति वेदविदां मतम् ॥

प्रलयस्त्रिविधः प्रोक्तो मानवो मानवात्यये

॥२३॥

दैनंदिनो द्वितीयो हि ब्रह्मणो दिवसात्यये ॥

ब्रह्मणोऽथ लये पश्चाद्ब्राह्मं च प्रलयं विदुः ॥

ब्रह्मणस्तु मुहूर्ते तु मनोस्तु प्रलयं विदुः ॥

प्रलयेषु व्यतीतेषु चतुर्दशसु वै क्रमात्

॥२५॥

दैनंदिनलयं प्राहुः प्रलयानां स्थितिं पुनः ॥

त्रयाणामेव लोकानां लयो मन्वंतरे भवेत्

॥२६॥

चेतनानां तदा नाशो न लोकानां क्षयो भवेत् ॥

उदकैरेव पूर्तिश्च यथा पूर्वं तथा पुनः

॥२७॥

मन्वंतरांते भूयात्तु चेतनानां पुनर्भवः ॥

दैनंदिनलये व्याध सर्वस्यापि क्षयो भवेत्

॥२८॥

सत्यलोकं विना सर्वे लोका नश्यंति साधिपाः ॥

सचेतनाः साधिभूताः प्रसुप्ते चतुरानने

॥२९॥

तत्त्वाभिमानिनो देवाः केचिच्च मुनयस्तथा ॥

शिष्यंति सुप्ताः सर्वेऽपि सत्यलोकव्यवस्थिताः

॥३०॥

तिष्ठंति सुप्तिमापन्ना यावत्कल्पमतींद्रियाः ॥

पुनर्निशात्यये ब्रह्मा यथापूर्वमकल्पयत्

॥३१॥

ऋषीन्देवान्पितॄँल्लोकान्धर्मान्वर्णान्पृथक्पृथक् ॥

पुनर्दशावतारा हि विष्णोर्देवस्य चक्रिणः

॥३२॥

नियमेन भवंत्येते तथान्येऽपि च भूरिशः ॥

देवता ऋषयश्चैव आकल्पं च गिरां पतेः

॥३३॥

पुनरेवाऽभिवर्तंते ब्रह्मणा सह मुक्तिगाः ॥

भूपाश्च साधवो ये च सिद्धिं प्राप्ताः परंगताः

॥३४॥

तेनैव चाभिवर्तंते सत्यलोकव्यवस्थिताः ॥

तद्राशिगाः पुनर्यांति तन्नाम्ना श्रुतिसंस्थिताः

॥३५॥

तत्तद्गोत्रेषु जायंते तत्तत्कर्मरताः सदा ॥

दैत्यानामपि सर्वेषां यदा कलियुगात्ययः

॥३६॥

कलिना सह गच्छंति स्वां गतिं निरयालयाः ॥

तेषां च राशिसंस्था ये तन्नामानोऽपरेऽपि च

॥३७॥

जायन्ते कर्मणा स्वेन तत्तत्कर्मविधायकाः ॥

सृष्टिकालं प्रवक्ष्यामि मुक्तिकालं तथैव च

॥३८॥

ब्रह्मादीनां च देवानां समाहितमना भव ॥

निमेषो देवदेवस्य ब्रह्मकल्पसमो मतः

॥३९॥

तस्यावसाने चोन्मेषो देवदेवशिखामणेः ॥

निमेषांऽते भवेदिच्छा स्रष्टुं लोकांश्च कुक्षिगान्

॥४०॥

सोऽपश्यत्स्वोदरे सर्वाञ्जीवसंघाननेकशः ॥

सृज्यान्मुक्तानमृन्सर्वाँ लिंगभंगमुपागतान्

॥४१॥

सुप्ताः सृतिस्थाः सर्वेऽपि तमोगा अपि सर्वशः ॥

पूर्वकल्पे लिंगभंगमापन्ना विधिपूर्वकाः

॥४२॥

मानवांता जीवकोशा जीवन्मुक्ताश्च मुक्तिगाः ॥

पूर्वकल्पे विमुक्ताश्च ब्रह्माद्या मानवांतकाः

॥४३॥

ध्यानसंस्था हि तिष्ठंति विष्णुकुक्षिगता अपि ॥

उन्मेषस्यादिमे भागे चतुर्व्यूहात्मको विभुः

॥४४॥

भूत्वा तु पूर्वसाद्गुण्याद्वासुदेवाच्च व्यूहगात् ॥

दत्त्वा तु ब्रह्मणो मुक्तिं सायुज्याख्यां महाविभुः

॥४५॥

दत्त्वा तदनु सायुज्यं तत्त्वज्ञानं महात्मनाम् ॥

सारूप्यं चैव केषांचित्सामीप्यं च तथा विभुः

॥४६॥

सालोक्यं च तथाऽन्येषां दत्त्वा देवो जनार्दनः ॥

अनिरुद्धवशे सर्वान्स्थिताँल्लोकानलोकयत्

॥४७॥

प्रद्युम्नस्य वशे दत्त्वा सृष्टिं कर्तुं मनो दधे ॥

मायां जयां कृतिं शांतिमुपयेमे स्वयं हरिः ॥

चतुर्व्यूहैः पूर्णगुणैर्वासुदेवादिकैः क्रमात् ॥

ताभिर्युक्तो महाविष्णुश्चतुर्व्यूहात्मको विभुः

॥४९॥

भिन्नकर्माशयं लोकं पूर्णकामो व्यजीजनत् ॥

उन्मेषांते पुनर्विष्णुर्योगमायां समाश्रितः

॥५०॥

संकर्षणाद्व्यूहगाच्च हरत्येतच्चराचरम् ॥

तदेतत्सर्वमाख्यातं कार्यं चिंत्यं महात्मनः

॥५१॥

यदचिंत्यं दुर्विभाव्यं ब्रह्माद्यैरपि योगिभिः ॥

"व्याध उवाच ॥

के वा भागवता धर्माः कैर्विष्णुश्च प्रसीदति

॥५२॥

तानहं श्रोतुमिच्छामि सांप्रतं वद नो मुने ॥

शंख उवाच ॥

येन चित्तविशुद्धिः स्याद्यः सतामुपकारकः

॥५३॥

तं विद्धि सात्त्विकं धर्मं यश्च केनाप्य निंदितः ॥

श्रुतिस्मृत्युदितो यस्तु यदि निष्कामिको भवेत्

॥५४॥

यस्तु लोकाऽविरुद्धोऽपि तं धर्मं सात्त्विकंविदुः ॥

चतुर्विधा हि ते धर्मा वर्णाश्रमविभागतः

॥५५॥

नित्यनैमित्तिकाः काम्या इति ते च त्रिधा मताः।

ते सर्वे स्वस्वधर्माश्च यदा विष्णोः समर्पिताः

॥५६॥

तदा वै सात्त्विका ज्ञेया धर्मा भागवताः शुभाः ॥

देवतांतरदैवत्याः सकामा राजसा मताः

॥५७॥

यक्षरक्षःपिशाचादिदैवत्या लोकनिष्ठुराः ॥

हिंसात्मका निंदिताश्च धर्मास्ते तामसाः स्मृताः

॥५८॥

सत्त्वस्थाः सात्त्विकान्धर्मान्विष्णुप्रीतिकराञ्च्छुभान्।

कुर्वंत्यनीहया नित्यं ते वै भागवताः स्मृताः ॥

येषां चित्तं सदा विष्णौ जिह्वायां नाम वै विभोः।

पादौ च हृदये येषां ते वै भागवताः स्मृताः

॥६०॥

सदाचार रता ये च सर्वेषामुपकारकाः ॥

सदैव ममताहीनास्ते वै भागवताः स्मृताः

॥६१॥

येषां च शास्त्रे विश्वासो गुरौ साधुषु कर्मसु ॥

ये विष्णु भक्ताः सततं ते वै भागवताः स्मृताः

॥६२॥

येषां हि संमता धर्माः शाश्वता विष्णुवल्लभाः ॥

श्रुतिस्मृत्युदिता ये च ते धर्माः शाश्वता मताः

॥६३॥

अटनं सर्वदेशेषु वीक्षणं सर्वकर्मणाम् ॥

श्रवणं सर्वधर्माणां विषयाऽऽसक्तचेतसाम् ॥

अकिंचित्करमेतेषां षंढस्येव वरस्त्रियः ॥

साधूनां दर्शनेनैव मनो द्रवति वै सताम् ॥

चंद्रस्य कौमुदीसंगाच्चंद्रकांतशिला यथा ॥

क्वचित्सच्छास्त्रश्रवणाद्विषयै रहितं मनः

॥६६॥

तिष्ठत्येव सतां पुंसां तेजोरूपं ह्यकल्मषम् ॥

पद्मबन्धोः प्रभासंगात्सूर्यकांतशिला यथा

॥६७॥

निष्कामैर्हि जनैर्यैस्तु श्रद्धया समुपाश्रितः ॥

यो विष्णुवल्लभो नित्यं धर्मो भागवतो मतः

॥६८॥

तैर्दृष्टा वहवो धर्मा इहाऽमुत्र फलप्रदाः ॥

विष्णुप्रीतिकराः सूक्ष्माः सर्वदुःखविमोचकाः

॥६९॥

दध्नः सारमिवोद्धृत्य धर्मं वैशाखसंभवम् ॥

रमायै भगवानाह क्षीराब्धौ हितकाम्यया

॥७०॥

मार्गच्छायाविनिर्माणं प्रपादानं च वै तथा ॥

व्यजनैर्व्यजनं चैव प्रश्रयाणां समर्पणम्

॥७१॥

छत्रस्योपानहोर्दानं दानं कर्पूरगन्धयोः ॥

वापीकूपतडागानां निर्माणं विभवे सति

॥७२॥

सायाह्ने पानकस्यापि दानं तु कुसुमस्य च ॥

तांबूलदानं पापघ्नं गोरसानां विशेषतः

॥७३॥

लवणान्विततक्रस्य दानं श्रांताय वै पथि ॥

अभ्यंगकरणं चैव द्विजपादावनेजनम्

॥७४॥

कटकम्बलपर्यंकदानं गोदानमेव च ॥

मधुयुक्ततिलानां च दानं पापविनाशनम्

॥७५॥

सायाह्ने चेक्षुदण्डानां दानमुर्वारुकस्य च ॥

रसायनप्रदानं च पितृनिर्वापणं तथा

॥७६॥

एते धर्मापि शिष्योक्ता मासेऽस्मिन्माधवप्रिये ॥

प्रातः सूर्योदये स्नात्वा शृण्वन्द्विजकुलेरितम्

॥७७॥

नित्यकर्माणि कृत्वैवं मधुसूदनमर्चयेत् ॥

कथां माधवमासीयां शृणुयाच्च समाहितः

॥७८॥

तैलाभ्यंगं वर्जयेच्च कांस्यपात्रे तु भोजनम् ॥

निषिद्धभक्षणं चैव वृथाऽऽलापं तु वर्जयेत्

॥७९॥

अलाबुं गृंजरं चैव लशुनं तिलपिष्टकम् ॥

आरनालं भिस्सटं च घृतकोशातकीं तथा

॥८०॥

उपोदकीं कलिंगं च शिग्रुशाकं च वर्जयेत् ॥

निष्पावानि कुलित्थानि मसूराणि च वर्जयेत्

॥८१॥

वृंताकानि कलिंगानि कोद्रवाणि च वर्जयेत् ॥

तंदुलीयकशाकं च कौसुम्भं मूलकं तथा

॥८२॥

औदुंबरं बिल्वफलं तथा श्लेष्मा तकीफलम् ॥

सर्वथा वर्जयेद्विद्वान्मासेऽस्मिन्माधवप्रिये

॥८३॥

एतेष्वन्यतमं भुक्त्वा स चंडालो भवेद्ध्रुवम् ॥

तिर्यग्योनिशतं याति नात्र कार्या विचारणा

॥८४॥

एवं मासव्रतं कुर्यात्प्रीतये मधुघातिनः ॥

एवं व्रते समाप्ते तु प्रतिमां कारयेद्विभोः

॥८५॥

मधुसूदनदैवत्यां सवस्त्रां च सदक्षिणाम् ॥

स्वर्चितां विभवैः सर्वैर्ब्राह्मणाय निवेदयेत्

॥८६॥

वैशाखसितद्वादश्यां दद्याद्दध्यन्नमंजसा ॥

सोदकुम्भं सतांबूलं सफलं च सदक्षिणम्

॥८७॥

ददामि धर्मराजाय तेन प्रीणातु वै यमः ॥

अपसव्यात्समुच्चार्य नामगोत्रे पितुस्ततः

॥८८॥

दद्याद्दध्यन्नमक्षय्यं पितॄणां तृप्तिहेतवे ॥

गुरुभ्यश्च तथा दद्यात्पश्चाद्दद्याच्च विष्णवे

॥८९॥

शीतलोदकदध्यन्नं कांस्यपात्रस्थमुत्तमम् ॥

सदक्षिणं सतांबूलं सभक्ष्यं च फलान्वितम्

॥९०॥

ददामि विष्णवे तुभ्यं विष्णुलोकजिगीषया ॥

इति दत्त्वा यथाशक्त्या गां च दद्यात्कुटुंबिने

॥९१॥

एवं मासव्रतं कुर्याद्यो दंभेन विवर्जितः ॥

स सर्वैः पातकैर्हीनः कुलमुद्धृत्य वै शतम्

॥९२॥

पश्यतामेव भूतानां भित्त्वा वै सूर्यमंडलम् ॥

याति विष्णोः परं धाम योगिनामपि दुर्लभम्

॥९३॥

व्याख्यात्येवं द्विजकुलवरे माधवीयांश्च ॥

धर्मान्विष्ण्वादीष्टानतिमहितरान्व्याधपृष्टान्समस्तान्

॥९४॥

वटः सद्यः पश्यतामेव भूमौ पपाताहो पञचशाखी द्रुमोऽयम् ॥

वृक्षात्तस्मात्कोटरे संस्थितो हि व्यालः कश्चिद्दीर्घदेही करालः ॥

हित्वा देहं पापयोनिं च सद्यः स वै तस्थौ प्रांजलिर्नम्रमूर्धा

॥९५॥

_____________________________

॥९६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखंडे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे भागवतधर्मकथनंनाम विंशोऽध्यायः ॥ २० ॥