मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वैशाखमासमाहात्म्यम्, अध्याय १४

3
वैष्णवखण्डः · वैशाखमासमाहात्म्यम् · 14

पिशाचमुक्तिप्राप्तिर्

श्रुतदेव उवाच

यः प्रातः स्नाति वैशाखे मेषसंस्थे दिवाकरे ॥

मधुसूदनमभ्यर्च्य कथां श्रुत्वा हरेरिमाम्

॥१॥

स तु पापविनिर्मुक्तो याति विष्णोः परं पदम् ॥

वाच्यमानां कथां हित्वा योऽन्यां सेवेत मूढधीः

॥२॥

रौरवं नरकं प्राप्य पैशाचीं योनिमाप्नुयात् ॥

अत्रैवोदाहरन्तीममितिहासं पुरातनम्

॥३॥

पापघ्नं पावनं धर्म्यं सद्यो वंद्यं पुरातनम् ॥

पुरा गोदावरीतीरे क्षेत्रे ब्रह्मेश्वरे शुभे

॥४॥

दुर्वासशिष्यौ परमहंसौ ब्रह्मैकनिष्ठितौ ॥

सदैवोपनिषद्विद्यानिष्ठितौ निरपेक्षितौ

॥५॥

भिक्षामात्राशिनौ पुण्यौ तौ गुहावासिनावुभौ ॥

सत्यनिष्ठतपोनिष्ठाविति ख्यातौ जगत्त्रये

॥६॥

तयोर्मध्ये सत्यनिष्ठः सदा विष्णुकथापरः ॥

श्रोतॄणामप्यभावे च व्याख्यातॄणां तथा नृप

॥७॥

तदा कर्मकला नित्याः करोत्यद्धा मुनीश्वरः ॥

श्रोता चेदस्ति यः कश्चित्तस्मै व्याख्या त्यहर्निशम्

॥८॥

यदि व्याख्याति कश्चिद्वा पुण्यां विष्णुकथां शुभाम् ॥

तदा संकुच्य कर्माणि शृणोति श्रवणे रतः

॥९॥

अतिदूरस्थतीर्थानि देवतायतनानि च ॥

हित्वा कथाविरोधीनि तथा कर्माणि भूरिशः

॥१०॥

शृणोति च कथां दिव्यां श्रोतृभ्यो वक्ति वै स्वयम् ॥

विना कथां न जानाति सेव्यमन्यन्नरेश्वर

॥११॥

व्याख्याति च गृहे स्वस्य वक्ता रोगाद्युपद्रुतः ॥

कूपस्नानपरो भूत्वा शृणोत्येव कथां मुनिः

॥१२॥

कथायाश्च विरामे तु स्वकृत्यं साधयत्यलम् ॥

कथां वै शृण्वतः पुंसो जन्ममबन्धो न विद्यते

॥१३॥

सत्त्वशुद्धिस्ततो विष्णावरतिश्चैव गच्छति ॥

रतिश्च जायते विष्णौ सौहृदं चैव साधुषु

॥१४॥

नीरजं निर्गुणं ब्रह्म सद्यो हृद्यवरुध्यते ॥

ज्ञानहीनस्य वै पुंसः कर्म वै निष्फलं भवेत्

॥१५॥

बहुधा चरितं चाऽपि यथैवांधकदर्पणम् ॥

कर्माणि क्रियमाणानि बहुधा शोचितात्मभिः

॥१६॥

सत्त्वशुद्ध्यै भवंत्येव सत्त्वशुद्ध्या श्रुतिं व्रजेत् ॥

श्रुतेस्तु ज्ञानमासाद्य ज्ञात्वा ध्यानाय कल्पते

॥१७॥

बहुधा श्रवणं ध्यानं मननं श्रुतिचोदितम् ॥

यत्र विष्णुकथा नास्ति यत्र साधुजना नहि

॥१८॥

साक्षाद्गंगातटं वाऽपि त्याज्यमेव न संशयः ॥

यद्देशे तुलसी नास्ति वैष्णवं धाम वा शुभम्

॥१९॥

यत्र विष्णुकथा नास्ति मृतस्तत्र तमो व्रजेत् ॥

यद्ग्रामे वैष्णवं धाम नास्ति कृष्णमृगोऽपि वा

॥२०॥

यत्र विष्णुकथा नास्ति साधवो वा तदाश्रयाः ॥

मृतस्तत्र पुमान्क्षिप्रं श्वानयोनिशतं व्रजेत्

॥२१॥

विचार्योपनिषद्विद्यामिति निश्चित्य वै मुनिः ॥

सदा विष्णुकथाऽऽसक्तो विष्णुस्मृतिपरायणः

॥२२॥

न किंचिदधिकं जातु मन्यते श्रवणात्परम् ॥

इतरस्तु तपोनिष्ठः कर्मनिष्ठो दुराग्रही

॥२३॥

न व्याख्याति स्वयं वाऽपि न शृणोति च सत्कथाम् ॥

वाच्यमानां कथां हित्वा तीर्थस्नानाय गच्छति

॥२४॥

तीर्थेऽपि च प्रवृत्तायां कथायां भूमिपालक ॥

कर्मलोपभयाद्दूरं याति चांचल्यशक्तितः

॥२५॥

व्रजंति गृहकृत्यार्थं संगमात्परतो जनाः ॥

न श्रोतारो न वक्तारस्तस्य पार्श्वे तु कर्मिणः

॥२६॥

दुरात्मनस्तु दुर्बुद्धेः काल एवं क्षयं गते ॥

जिह्वां श्रुतिं च न क्वापि संप्राप्ता हि कथा विभोः

॥२७॥

अश्रोतृत्वादवक्तृत्वाद्दुर्बुद्धित्वाद्दुराग्रहात् ॥

पश्चात्पंचत्वमासाद्य सद्यो धर्मेण वै मुनिः

॥२८॥

पिशाचोऽभूच्छमीवृक्षे च्छिन्नकर्णाह्वयोऽबलः ॥

निराश्रयो निराहारः शुष्ककण्ठोष्ठतालुकः

॥२९॥

एवं वै खिद्यमानस्य समा दिव्यायुता गताः ॥

नापश्यत्स्वस्य त्रातारं निराहारोऽतिदुःखितः

॥३०॥

स्वकृतं चिंतयानश्च मत्तोन्मत्त इवाभ्रमत् ॥

क्षुधया पर्यटन्वाऽपि निर्वृतिं नाप मूढधीः

॥३१॥

कृशानुसदृशो वायुरंगं स्पृष्ट्वा कृतात्मनः ॥

कालाग्नितुल्या आपश्च फलपुष्पादिकं विषम्

॥३२॥

न क्वापि सुखमापेदे कर्मठो दीनधीरयम् ॥

एवं व्यवसिते तस्मिन्नरण्ये जनवर्जिते

॥३३॥

कथया रहिते क्षेत्रे स्वाश्रये साधुवर्जिते ॥

दैवादायात्सत्यनिष्ठस्तदा पैठिनसीं पुरीम्

॥३४॥

गच्छन्मार्गे ददर्शाऽसौ छिन्नकर्णं वहुव्यथम् ॥

दृष्ट्वाऽऽत्मानं द्रावयन्तं रुदंतं क्षुधयाऽऽतुरम्

॥३५॥

मा भैषीरिति चाभाष्य कोऽसीत्याह मुनीश्वरः ॥

दशेदृशी च कस्मात्ते न ते दुःखमतः परम्

॥३६॥

इत्याश्वस्तोऽमुना च्छिन्नकर्णः प्राहातिविह्वलः ॥

तपोनिष्ठो यतिरहं शिष्यो दुर्वाससः परम्

॥३७॥

ब्रह्मेश्वरक्षेत्रवासी कर्मनिष्ठो दुराग्रही ॥

कर्मलोपभयान्मौढ्यान्मया दुर्बुद्धिना मुने

॥३८॥

साधुभिर्वाच्यमानाऽपि नादृता विष्णुसत्कथा ॥

न व्याख्याता च श्रोतृभ्यः कथा कर्मनिकृतंनी

॥३९॥

तेन कर्मविपाकेन महताऽहं मृतिं गतः ॥

छिन्नकर्णोऽभवं नाम्ना पिशाचो दुःखविह्वलः

॥४०॥

न पश्यामि च त्रातारं दुःखादस्मात्कथंचन ॥

तव दृष्टिपथं यातो दिष्टयाऽहं गतकल्मषः

॥४१॥

अद्य मे देवतास्तुष्टा गुरवः साधवश्च ये ॥

हरिश्च मे प्रसन्नोऽभूद्यतस्ते दर्शनं मम

॥४२॥

पपात पादयोर्भूमौ त्राहित्राहीति वै रुदन् ॥

ततस्तु कृपयाऽऽविष्टः सत्यनिष्ठो महायशाः

॥४३॥

दोर्भ्यामुत्थापयामास शंतमाभ्यां मुनीश्वरः ॥

ततस्त्वप उपस्पृश्य ददौ पुण्यमनुत्तमम्

॥४४॥

वैशाखमासमाहात्म्यश्रवणस्य मुहूर्तजम् ॥

तेन पुण्यप्रभावेन सद्यो ध्वस्ताखिलाशुभः

॥४५॥

पिशाचदेहनिर्मुक्तो दिव्यदेहधरोऽभवत् ॥

दिव्यं विमानमारुह्य तं प्रणम्य महामुनिम्

॥४६॥

आमंत्र्य च परिक्रम्य ययौ विष्णोः परं पदम् ॥

सत्यनिष्ठस्ततो धीमान्ययौ पैठिनसीं पुरीम्

॥४७॥

माहात्म्यश्रवणस्यैवं चिंतयानः पुनःपुनः ॥

श्रुतदेव उवाच ॥

यत्र विष्णुकथा पुण्या शुभा लोकमलाऽपहा

॥४८॥

तत्र सर्वाणि तीर्थानि क्षेत्राणि विविधानि च ॥

यत्र प्रवहते पुण्या शुभा विष्णुकथाऽऽपगा

॥४९॥

तद्देशवासिनां मुक्तिः करसंस्था न संशयः

॥५०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे नारदाम्बरीषसंवादे कथाप्रशंसायां पिशाचमुक्तिप्राप्तिर्नाम चतुर्दशोऽध्यायः ॥ १४ ॥