मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ५४

3
रुद्रसंहिता · पार्वतीखण्डः · 54

पतिव्रताधर्मवर्णनम्

ब्रह्मोवाच

अथ सप्तर्षयस्ते च प्रोचुर्हिमगिरीश्वरम् ।

कारय स्वात्मजा देव्या यात्रामद्योचितां गिरे

॥१॥

इति श्रुत्वा गिरीशो हि बुद्ध्वा तद्विरहम्परम् ।

विषण्णोभून्महाप्रेम्णा कियत्कालं मुनीश्वर

॥२॥

कियत्कालेन सम्प्राप्य चेतनां शैलराट् ततः ।

तथास्त्विति गिरामुक्त्वा मेनां सन्देशमब्रवीत्

॥३॥

शैलसन्देशमाकर्ण्य हर्षशोकवशा मुने ।

मेना संयापयामास कर्त्तुमासीत्समुद्यता

॥४॥

श्रुतिस्वकुलजाचारं चचार विधिवन्मुने ।

उत्सवम्विविधन्तत्र सा मेना क्षितिभृत्प्रिया

॥५॥

गिरिजाम्भूषयामास नानारत्नांशुकैर्वरैः ।

द्वादशाभरणैश्चैव शृंगारैर्नृपसम्मितैः

॥६॥

मेनामनोगम्बुद्ध्वा साध्व्येका द्विजकामिनी ।

गिरिजां शिक्षयामास पातिव्रत्यव्रतम्परम्

॥७॥

द्विजपत्न्युवाच

गिरिजे शृणु सुप्रीत्या मद्वचो धर्मवर्द्धनम् ।

इहामुत्रानन्दकरं शृण्वतां च सुखप्रदम्

॥८॥

धन्या पतिव्रता नारी नान्या पूज्या विशेषतः ।

पावनी सर्वलोकानां सर्वपापौघनाशिनी

॥९॥

सेवते या पतिम्प्रेम्णा परमेश्वरवच्छिवे ।

इह भुक्त्वाखिलाम्भोगान न्ते पत्या शिवां गतिम्

॥१०॥

पतिव्रता च सावित्री लोपामुद्रा ह्यरुन्धती ।

शाण्डिल्या शतरूपानुसूया लक्ष्मीस्स्वधा सती

॥११॥

संज्ञा च सुमतिश्श्रद्धा मेना स्वाहा तथैव च ।

अन्या बह्व्योऽपि साध्व्यो हि नोक्ता विस्तरजाद्भयात्

॥१२॥

पातिव्रत्यवृषेणैव ता गतास्सर्वपूज्यताम् ।

ब्रह्मविष्णुहरैश्चापि मान्या जाता मुनीश्वरैः

॥१३॥

सेव्यस्त्वया पतिस्तस्मात्सर्वदा शङ्करः प्रभुः ।

दीनानुग्रहकर्ता च सर्वसेव्यस्सतां गतिः

॥१४॥

महान्पतिव्रताधर्म्मश्श्रुतिस्मृतिषु नोदितः ।

यथैष वर्ण्यते श्रेष्ठो न तथान्योऽस्ति निश्चितम्

॥१५॥

भुंज्याद्भुक्ते प्रिये पत्यौ पातिव्रत्यपरायणा ।

तिष्ठेत्तस्मिंञ्छिवे नारी सर्वथा सति तिष्ठति

॥१६॥

स्वप्यात्स्वपिति सा नित्यं बुध्येत्तु प्रथमं सुधीः ।

सर्वदा तद्धितं कुर्यादकैतवगतिः प्रिया

॥१७॥

अनलंकृतमात्मानन्दर्शयेन्न क्वचिच्छिवे ।

कार्यार्थम्प्रोषिते तस्मिन्भवेन्मण्डनवर्जिता

॥१८॥

पत्युर्नाम न गृह्णीयात् कदाचन पतिव्रता ।

आक्रुष्टापि न चाक्रोशेत्प्रसीदेत्ताडितापि च ।

हन्यतामिति च ब्रूयात्स्वामिन्निति कृपां कुरु

॥१९॥

आहूता गृह कार्याणि त्यक्त्वा गच्छेत्तदन्तिकम् ।

सत्वरं साञ्जलिः प्रीत्यां सुप्रणम्य वदेदिति

॥२०॥

किमर्थं व्याहृता नाथ स प्रसादो विधीयताम् ।

तदादिष्टा चरेत्कर्म सुप्रसन्नेन चेतसा

॥२१॥

चिरन्तिष्ठेन्न च द्वारे गच्छेन्नैव परालये ।

आदाय तत्त्वं यत्किंचित्कस्मै चिन्नार्पयेत्क्वचित्

॥२२॥

पूजोपकरणं सर्वमनुक्ता साधयेत्स्वयम् ।

प्रतीक्षमाणावसरं यथाकालोचितं हितम्

॥२३॥

न गच्छेत्तीर्थयात्रां वै पत्याज्ञां न विना क्वचित् ।

दूरतो वर्जयेत्सा हि समाजोत्सवदर्शनम्

॥२४॥

तीर्थार्थिनी तु या नारी पतिपादोदकम्पिबेत् ।

तस्मिन्सर्वाणि तीर्थानि क्षेत्राणि च न संशयः

॥२५॥

भुंज्यात्सा भर्तुरुच्छिष्टमिष्टमन्नादिकं च यत् ।

महाप्रसाद इत्युक्त्वा पतिदत्तम्पतिव्रता

॥२६॥

अविभज्य न चाश्नीयाद्देव पित्रतिथिष्वपि ।

परिचारकवर्गेषु गोषु भिक्षुकुलेषु च ।

संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ।

भवेत्सा सर्वदा देवी पतिव्रतपरायणा

॥२८॥

कुर्यात्पत्यननुज्ञाता नोपवासव्रतादिकम् ।

अन्यथा तत्फलं नास्ति परत्र नरकम्व्रजेत्

॥२९॥

सुखपूर्वं सुखासीनं रममाणं यदृच्छया ।

आन्तरेष्वपि कार्येषु पतिं नोत्थापयेत्क्वचित्

॥३०॥

क्लीबम्वा दुरवस्थम्वा व्याधितं वृद्धमेव च ।

सुखितं दुःखितं वापि पतिमेकं न लंघयेत्

॥३१॥

स्त्रीधर्मिणी त्रिरात्रं च स्वमुखं नैव दर्शयेत् ।

स्ववाक्यं श्रावयेन्नापि यावत्स्नानान्न शुध्यति

॥३२॥

सुस्नाता भर्तृवदनमीक्षेतान्यस्य न क्वचित् ।

अथवा मनसि ध्यात्वा पतिम्भानुम्विलोकयेत

॥३३॥

हरिद्राकुङ्कुमं चैव सिन्दूरं कज्जलादिकम् ।

कूर्पासकञ्च ताम्बूलं मांगल्याभरणादिकम्

॥३४॥

केशसंस्कारकबरीकरकर्णादिभूषणम् ।

भर्तुरायुष्यमिच्छन्ती दूरयेन्न पतिव्रता

॥३५॥

न रजक्या न बन्धक्या तथा श्रवणया न च ।

न च दुर्भगया क्वापि सखित्वं कारयेत्क्वचित्

॥३६॥

पतिविद्वेषिणीं नारीं न सा संभाषयेत्क्वचित् ।

नैकाकिनी क्वचित्तिष्ठेन्नग्ना स्नायान्न च क्वचित्

॥३७॥

नोलूखले न मुसले न वर्द्धन्यां दृषद्यपि ।

न यंत्रके न देहल्यां सती च प्रवसेत्क्वचित्

॥३८॥

विना व्यवायसमयं प्रागल्भ्यं नाचरेत्क्वचित् ।

यत्रयत्र रुचिर्भर्तुस्तत्र प्रेमवती भवेत्

॥३९॥

हृष्टाहृष्टे विषण्णा स्याद्विषण्णास्ये प्रिये प्रिया ।

पतिव्रता भवेद्देवी सदा पतिहितैषिणी

॥४०॥

एकरूपा भवेत्पुण्या संपत्सु च विपत्सु च ।

विकृतिं स्वात्मनः क्वापि न कुर्याद्धैर्य्यधारिणी

॥४१॥

सर्पिर्लवणतैलादिक्षयेपि च पतिव्रता ।

पतिं नास्तीति न ब्रूयादायासेषु न योजयेत्

॥४२॥

विधेर्विष्णोर्हराद्वापि पतिरेकोधिको मतः ।

पतिव्रताया देवेशि स्वपतिश्शिव एव च

॥४३॥

व्रतोपवासनियमम्पतिमुल्लंघ्य या चरेत् ।

आयुष्यं हरते भर्तुर्मृता निरयमृच्छति

॥४४॥

उक्ता प्रत्युत्तरन्दद्याद्या नारी क्रोधतत्परा ।

सरमा जायते ग्रामे शृगाली निर्जने वने

॥४५॥

उच्चासनं न सेवेत न व्रजेद्दुष्टसन्निधौ ।

न च कातरवाक्यानि वदेन्नारी पतिं क्वचित्

॥४६॥

अपवादं न च ब्रूयात्कलहं दूरतस्त्यजेत् ।

गुरूणां सन्निधौ क्वापि नोच्चैर्ब्रूयान्न वै हसेत्

॥४७॥

बाह्यादायान्तमालोक्य त्वरितान्नजलाशनैः ।

ताम्बूलैर्वसनैश्चापि पादसम्वाहनादिभिः

॥४८॥

तथैव चाटुवचनैः स्वेदसन्नोदनैः परैः ।

या प्रियं प्रीणयेत्प्रीता त्रिलोकी प्रीणता तया

॥४९॥

मितन्ददाति जनको मितं भ्राता मितं सुतः ।

अमितस्य हि दातारं भर्तारम्पूजयेत्सदा

॥५०॥

भर्ता देवो गुरुर्भर्ता धर्मतीर्थव्रतानि च ।

तस्मात्सर्वम्परित्यज्य पतिमेकं समर्चयेत्

॥५१॥

या भर्तारम्परित्यज्य रहश्चरति दुर्मतिः ।

उलूकी जायते क्रूरा वृक्ष कोटरशायिनी

॥५२॥

ताडिता ताडितुं चेच्छेत्सा व्याघ्री वृषदंशिका ।

कटाक्षयति यान्यम्वै केकराक्षी तु सा भवेत्

॥५३॥

या भर्तारम्परित्यज्य मिष्टमश्नाति केवलम् ।

ग्रामे वा सूकरी भूयाद्वल्गुर्वापि स्वविड्भुजा

॥५४॥

या तुकृत्य प्रियम्ब्रूयान्मूका सा जायते खलु ।

या सपत्नी सदेर्ष्येत दुर्भगा सा पुनः पुनः

॥५५॥

दृष्टिम्विलुप्य भर्त्तुर्या कश्चिदन्यं समीक्षते ।

काणा च विमुखी चापि कुरूपापि च जायते

॥५६॥

जीवहीनो यथा देहः क्षणादशुचिताम्व्रजेत् ।

भर्तृहीना तथा योषित्सुस्नाताप्यशुचिस्सदा

॥५७॥

सा धन्या जननी लोके स धन्यो जनकः पिता ।

धन्यस्स च पतिर्यस्य गृहे देवी पतिव्रता

॥५८॥

पितृवंश्याः मातृवंश्याः पतिवंश्यास्त्रयस्त्रयः ।

पतिव्रतायाः पुण्येन स्वर्गे सौख्यानि भुंजते

॥५९॥

शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् ।

पितुर्मातुस्तथा पत्युरिहामुत्रापि दुःखिताः

॥६०॥

पतिव्रतायाश्चरणो यत्र यत्र स्पृशेद्भुवम् ।

तत्र तत्र भवेत्सा हि पापहन्त्री सुपावनी

॥६१॥

विभुः पतिव्रतास्पर्शं कुरुते भानुमानपि ।

सोमो गन्धवहश्चापि स्वपावित्र्याय नान्यथा

॥६२॥

आपः पतिव्रतास्पर्शमभिलष्यन्ति सर्वदा ।

अद्य जाड्यविनाशो नो जातस्त्वद्यान्यपावनाः

॥६३॥

भार्या मूलं गृहस्थास्य भार्या मूलं सुखस्य च ।

भार्या धर्मफलावाप्त्यै भार्या सन्तानवृद्धये

॥६४॥

गृहे गृहे न किं नार्य्यो रूपलावण्यगर्विताः ।

परम्विश्वेशभक्त्यैव लभ्यते स्त्री पतिव्रता

॥६५॥

परलोकस्त्वयं लोको जीयते भार्य या द्वयम् ।

देवपित्रतिथीज्यादि नाभार्यः कर्म चार्हति

॥६६॥

गृहस्थस्स हि विज्ञेयो यस्य गेहे पतिव्रता ।

ग्रस्यतेऽन्यान्प्रतिदिनं राक्षस्या जरया यथा

॥६७॥

यथा गंगावगाहेन शरीरं पावनं भवेत् ।

तथा पतिव्रतां दृष्ट्वा सकलम्पावनं भवेत्

॥६८॥

न गङ्गाया तया भेदो या नारी पतिदेवता ।

उमाशिवसमौ साक्षात्तस्मात्तौ पूजयेद्बुधः

॥६९॥

तारः पतिश्श्रुतिर्नारी क्षमा सा स स्वयन्तपः ।

फलम्पतिः सत्क्रिया सा धन्यौ तौ दम्पती शिवे

॥७०॥

एवम्पतिव्रताधर्मो वर्णितस्ते गिरीन्द्रजे ।

तद्भेदाञ् शृणु सुप्रीत्या सावधानतयाऽद्य मे

॥७१॥

चतुर्विधास्ताः कथिता नार्यो देवि पतिव्रताः ।

उत्तमादिविभेदेन स्मरतां पापहारिकाः

॥७२॥

उत्तमा मध्यमा चैव निकृष्टातिनिकृष्टिका ।

ब्रुवे तासां लक्षणानि सावधानतया शृणु

॥७३॥

स्वप्नेपि यन्मनो नित्यं स्वपतिं पश्यति ध्रुवम् ।

नान्यम्परपतिं भद्रे उत्तमा सा प्रकीर्तिता

॥७४॥

या पितृभ्रातृसुतवत् परम्पश्यति सद्धिया ।

मध्यमा सा हि कथिता शैलजे वै पतिव्रता

॥७५॥

बुद्ध्वा स्वधर्मं मनसा व्यभिचारं करोति न ।

निकृष्टा कथिता सा हि सुचरित्रा च पार्वति

॥७६॥

पत्युः कुलस्य च भयाद्व्यभिचारं करोति न ।

पतिव्रताऽधमा सा हि कथिता पूर्वसूरिभिः

॥७७॥

चतुर्विधा अपि शिवे पापहन्त्र्यः पतिव्रताः ।

पावनास्सर्वलोकानामिहामुत्रापि हर्षिताः

॥७८॥

पातिव्रत्यप्रभावेणात्रिस्त्रिया त्रिसुरार्थनात् ।

जीवितो विप्र एको हि मृतो वाराहशापतः

॥७९॥

एवं ज्ञात्वा शिवे नित्यं कर्तव्यम्पतिसेवनम् ।

त्वया शैलात्मज प्रीत्या सर्वकामप्रदं सदा

॥८०॥

जगदम्बा महेशी त्वं शिवस्साक्षात्पतिस्तव ।

तव स्मरणतो नार्यो भवन्ति हि पतिव्रताः

॥८१॥

त्वदग्रे कथनेनानेन किं देवि प्रयोजनम् ।

तथापि कथितं मेऽद्य जगदाचारतः शिवे

॥८२॥

ब्रह्मोवाच

इत्युक्त्वा विररामासौ द्विजस्त्री सुप्रणम्य ताम् ।

शिवा मुदमतिप्राप पार्वती शङ्करप्रिया

॥८३॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्म वर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ ५४ ॥