मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ३१

3
रुद्रसंहिता · पार्वतीखण्डः · 31

तयोर्भक्तिं शिवे ज्ञात्वा परामव्यभिचारिणीम्

ब्रह्मोवाच

तयोर्भक्तिं शिवे ज्ञात्वा परामव्यभिचारिणीम् ।

सर्वे शक्रादयो देवाश्चिचिन्तुरिति नारद

॥१॥

देवा ऊचुः

एकान्तभक्त्या शैलश्चेत्कन्यां तस्मै प्रदास्यति ।

ध्रुवं निर्वाणता सद्यस्स प्राप्स्यति च भारते

॥२॥

अनन्तरत्नाधारश्चेत्पृथ्वी त्यक्त्वा प्रयास्यति ।

रत्नगर्भाभिधा भूमिर्मिथ्यैव भविता ध्रुवम्

॥३॥

स्थावरत्वं परित्यज्य दिव्यरूपं विधाय सः ।

कन्यां शूलभृते दत्त्वा शिवलोकं गमिष्यति

॥४॥

महादेवस्य सारूप्यं लप्स्यते नात्र संशयः ।

तत्र भुक्त्वा वरान्भोगांस्ततो मोक्षमवाप्स्यति

॥५॥

ब्रह्मोवाच

इत्यालोच्य सुरास्सर्वे कृत्वा चामन्त्रणं मिथः ।

प्रस्थापयितुमैच्छंस्ते गुरुं तत्र सुविस्मिताः

॥६॥

ततः शक्रादयो देवास्सर्वे गुरुनिकेतनम् ।

जग्मुः प्रीत्या सविनया नारद स्वार्थसाधकाः

॥७॥

गत्वा तत्र गुरुं नत्वा सर्वे देवास्सवासवाः ।

चक्रुर्निवेदनं तस्मै गुरवे वृत्तमादरात्

॥८॥

देवा ऊचुः

गुरो हिमालयगृहं गच्छास्मत्कार्य्यसिद्धये ।

तत्र गत्वा प्रयत्नेन कुरु निन्दाञ्च शूलिनः

॥९॥

पिनाकिना विना दुर्गा वरं नान्यं वरिष्यति ।

अनिच्छया सुतां दत्त्वा फलं तूर्णं लभिष्यति

॥१०॥

कालेनैवाधुना शैल इदानीं भुवि तिष्ठतु ।

अनेकरत्नाधारं तं स्थापय त्वं क्षितौ गुरौ

॥११॥

ब्रह्मोवाच

इति देववचः श्रुत्वा प्रददौ कर्णयोः करम् ।

न स्वीचकार स गुरुस्स्मरन्नाम शिवेति च

॥१२॥

अथ स्मृत्वा महादेवं बृहस्पतिरुदारधीः ।

उवाच देववर्यांश्च धिक्कृत्वा च पुनः पुनः

॥१३॥

बृहस्पतिरुवाच

सर्वे देवास्स्वार्थपराः परार्थध्वंसकारकाः ।

कृत्वा शंकरनिंदा हि यास्यामि नरकं ध्रुवम्

॥१४॥

कश्चिन्मध्ये च युष्माकं गच्छेच्छैलान्तिकं सुराः ।

संपादयेत्स्वाभिमतं शैलेन्द्रं प्रतिबोध्य च

॥१५॥

अनिच्छया सुतां दत्त्वा सुखं तिष्ठतु भारते ।

तस्मै भक्त्या सुतां दत्त्वा मोक्षं प्राप्स्यति निश्चितम्

॥१६॥

पश्चात्सप्तर्षयस्सर्वे बोधयिष्यन्ति पर्वतम् ।

पिनाकिना विना दुर्गा वरं नान्यं वरिष्यति

॥१७॥

अथवा गच्छत सुरा ब्रह्मलोकं सवासवाः ।

वृत्तं कथयत स्वं तत्स वः कार्यं करिष्यति

॥१८॥

ब्रह्मोवाच

तच्छ्रुत्वा ते समालोच्याजग्मुर्मम सभां सुराः ।

सर्वे निवेदयांचक्रुर्नत्वा तद्गतमादरात्

॥१९॥

देवानां तद्वचः श्रुत्वा शिवनिन्दाकरं तदा ।

वेदवक्ता विलप्याहं तानवोचं सुरान्मुने

॥२०॥

ब्रह्मोवाच

नाहं कर्तुं क्षमो वत्साः शिवनिन्दां सुदुस्सहाम् ।

संपद्विनाश रूपाञ्च विपदां बीजरूपिणीम्

॥२१॥

सुरा गच्छत कैलासं सन्तोषयत शंकरम् ।

प्रस्थापयत तं शीघ्रं हिमालयगृहं प्रति

॥२२॥

स गच्छेदुपशैलेशमात्मनिन्दां करोतु वै ।

परनिन्दाविनाशाय स्वनिन्दा यशसे मता

॥२३॥

ब्रह्मोवाच

श्रुत्वेति मद्वचो देवा मां प्रणम्य मुदा च ते ।

कैलासं प्रययुः शीघ्रं शैलानामधिपं गिरिम्

॥२४॥

तत्र गत्वा शिवं दृष्ट्वा प्रणम्य नतमस्तकाः ।

सुकृतांजलयस्सर्वे तुष्टुवुस्तं सुरा हरम्

॥२५॥

देवा ऊचुः

देवदेव महादेव करुणाकर शंकर ।

वयं त्वां शरणापन्नाः कृपां कुरु नमोऽस्तु ते

॥२६॥

त्वं भक्तवत्सलः स्वामिन्भक्तकार्यकरस्सदा ।

दीनोद्धरः कृपासिन्धुर्भक्तापद्विनिमोचकः

॥२७॥

ब्रह्मोवाच

इति स्तुत्वा महेशानं सर्वे देवास्सवासवाः ।

सर्वं निवेदयांचक्रुस्तद्वृत्तं तत आदरात्

॥२८॥

तच्छ्रुत्वा देववचनं स्वीचकार महेश्वरः ।

देवान् सुयापयामास तानाश्वास्य विहस्य सः

॥२९॥

देवा मुमुदिरे सर्वे शीघ्रं गत्वा स्वमंदिरम् ।

सिद्धं मत्वा स्वकार्य्यं हि प्रशंसन्तस्सदाशिवम्

॥३०॥

ततः स भगवाञ्छम्भुर्महेशो भक्तवत्सलः ।

प्रययौ शैलभूपञ्च मायेशो निर्विकारवान्

॥३१॥

यदा शैलस्सभामध्ये समुवास मुदान्वितः ।

बन्धुवर्गैः परिवृतः पार्वतीसहितस्स्वयम्

॥३२॥

एतस्मिन्नन्तरे तत्र ह्याजगाम सदाशिवः ।

दण्डी छत्री दिव्यवासा बिभ्रत्तिलकमुज्ज्वलम्

॥३३॥

करे स्फटिकमालाञ्च शालग्रामं गले दधत् ।

जपन्नाम हरेर्भक्त्या साधुवेषधरौ द्विजः

॥३४॥

तं च दृष्ट्वा समुत्तस्थौ सगणोऽपि हिमालयः ।

ननाम दण्डवद्भूमौ भक्त्यातिथिमपूर्वकम्

॥३५॥

ननाम पार्वती भक्त्या प्राणेशं विप्ररूपिणम् ।

ज्ञात्वा तं मनसा देवी तुष्टाव परया मुदा

॥३६॥

आशिषं युयुजे विप्रस्सर्वेषां प्रीतितश्शिवः ।

शिवाया अधिकं तात मनोभिलषितं हृदा

॥३७॥

मधुपर्कादिकं सर्वं जग्राह ब्राह्मणो मुदा ।

दत्तं शैलाधिराजेन हिमांगेन महादरात्

॥३८॥

पप्रच्छ कुशलं चास्य हिमाद्रिः पर्वतोत्तमः ।

तं द्विजेन्द्रं महाप्रीत्या सम्पूज्य विधिवन्मुने

॥३९॥

पुनः पप्रच्छ शैलेशस्तं ततः को भवानिति ।

उवाच शीघ्रं विप्रेन्द्रो गिरीद्रं सादरं वचः

॥४०॥

विप्रेन्द्र उवाच

ब्राह्मणोऽहं गिरिश्रेष्ठ वैष्णवो बुधसत्तमः ।

घटिकीं वृतिमाश्रित्य भ्रमामि धरणीतले

॥४१॥

मनोयायी सर्व गामी सर्वज्ञोहं गुरोर्बलात् ।

परोपकारी शुद्धात्मा दयासिन्धुर्विकारहा

॥४२॥

मया ज्ञातं हराय त्वं स्वसुतां दातुमिच्छसि ।

इमां पद्मसमां दिव्यां वररूपां सुलक्षणाम्

॥४३॥

निराश्रयायासंगाय कुरूपायागुणाय च ।

श्मशानवासिने व्यालग्राहिरूपाय योगिने

॥४४॥

दिग्वाससे कुगात्राय व्यालभूषणधारिणे ।

अज्ञातकुलनाम्ने च कुशीलायाविहारिणे

॥४५॥

विभूतिदिग्धदेहाय संक्रुद्धायाविवेकिने ।

अज्ञातवयसेऽतीव कुजटाधारिणे सदा

॥४६॥

सर्वाश्रयाय भ्रमिणे नागहाराय भिक्षवे कुमार्गनिरतायाथ वेदाऽध्वत्यागिने हठात्

॥४७॥

इयं ते बुद्धिरचल न हि मंगलदा खलु ।

विबोध ज्ञानिनां श्रेष्ठ नारायणकुलोद्भव

॥४८॥

न ते पात्रानुरूपश्च पार्वतीदानकर्मणि ।

महाजनः स्मेरमुखः श्रुतमात्राद्भविष्यति

॥४९॥

पश्य शैलाधिप त्वं च न तस्यैकोस्ति बान्धवः ।

महारत्नाकरस्त्वञ्च तस्य किञ्चिद्धनं न हि

॥५०॥

बान्धवान्मेनकां कुध्रपते शीघ्रं सुतांस्तथा ।

सर्वान्पृच्छ प्रयत्नेन पण्डितान्पार्वती विना

॥५१॥

रोगिणो नौषधं शश्वद्रोचते गिरिसत्तम ।

कुपथ्यं रोचतेऽभीक्ष्णं महादोषकरं सदा

॥५२॥

ब्रह्मोवाच

इत्युक्त्वा ब्राह्मणः शीघ्रं स वै भुक्त्वा मुदान्वितः ।

जगाम स्वालयं शान्तो नानालीलाकर श्शिवः

॥५३॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवमायावर्णनं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥