देवस्तुतिः
नारद उवाच
विधे प्राज्ञ महाधीमन्वद मे वदतां वर ।
ततः परं किमभवच्चरितं विष्णुसद्गुरो
॥१॥अद्भुतेयं कथा प्रोक्ता मेना पूर्वगतिः शुभा ।
विवाहश्च श्रुतस्सम्यक्परमं चरितं वद
॥२॥मेनां विवाह्य स गिरिः कृतवान्किं ततः परम् ।
पार्वती कथमुत्पन्ना तस्यां वै जगदम्बिका
॥३॥तपस्सुदुस्सहं कृत्वा कथं प्राप पतिं हरम् ।
एतत्सर्वं समाचक्ष्व विस्तराच्छांकरं यशः
॥४॥ब्रह्मोवाच
मुने त्वं शृणु सुप्रीत्या शांकरं सुयशः शुभम् ।
यच्छ्रुत्वा ब्रह्महा शुद्ध्येत्सर्वान्कामानवाप्नुयात्
॥५॥यदा मेनाविवाहन्तु कृत्वागच्छद्गिरिर्गृहम् ।
तदा समुत्सवो जातस्त्रिषु लोकेषु नारद
॥६॥हिमाचलोऽपि सुप्रीतश्चकार परमोत्सवम् ।
भूसुरान्बंधुवर्गांश्च परानानर्च सद्धिया
॥७॥सर्वे द्विजाश्च सन्तुष्टा दत्त्वाशीर्वचनं वरम् ।
ययुस्तस्मै स्वस्वधाम बंधुवर्गास्तथापरे
॥८॥हिमाचलोऽपि सुप्रीतो मेनया सुखदे गृहे ।
रेमेऽन्यत्र च सुस्थाने नन्दनादिवनेष्वपि
॥९॥तस्मिन्नवसरे देवा मुने विष्ण्वादयोऽखिलाः ।
मुनयश्च महात्मानः प्रजग्मुर्भूधरान्तिके
॥१०॥दृष्ट्वा तानागतान्देवान्प्रणनाम मुदा गिरिः ।
संमानं कृतवान्भक्त्या प्रशंसन्स्व विधिं महान्
॥११॥साञ्जलिर्नतशीर्षो हि स तुष्टाव सुभक्तितः ।
रोमोद्गमो महानासीद्गिरेः प्रेमाश्रवोऽपतन्
॥१२॥ततः प्रणम्य सुप्रीतो हिमशैलः प्रसन्नधीः ।
उवाच प्रणतो भूत्वा मुने विष्ण्वादिकान्सुरान्
॥१३॥हिमाचल उवाच
अद्य मे सफलं जन्म सफलं सुमहत्तपः ।
अद्य मे सफलं ज्ञानमद्य मे सफलाः क्रियाः
॥१४॥धन्योऽहमद्य संजातो धन्या मे सकला क्षितिः ।
धन्यं कुलं तथा दारास्सर्वं धन्यं न संशयः
॥१५॥यतः समागता यूयं मिलित्वा सर्व एकदा ।
मां निदेशयत प्रीत्योचितं मत्त्वा स्वसेवकम्
॥१६॥ब्रह्मोवाच
इति श्रुत्वा महीध्रस्य वचनं ते सुरास्तदा ।
ऊचुर्हर्यादयः प्रीताः सिद्धिं मत्वा स्वकार्यतः
॥१७॥देवा ऊचुः
हिमाचल महाप्राज्ञ शृण्व स्मद्वचनं हितम् ।
यदर्थमागतास्सर्वे तद्ब्रूमः प्रीतितो वयम्
॥१८॥या पुरा जगदम्बोमा दक्षकन्याऽभवद्गिरे ।
रुद्रपत्नी हि सा भूत्वा चिक्रीडे सुचिरं भुवि
॥१९॥पितृतोऽनादरं प्राप्य संस्मृत्य स्वपणं सती ।
जगाम स्वपदं त्यक्त्वा तच्छरीरं तदाम्बिका
॥२०॥सा कथा विदिता लोके तवापि हिमभूधर ।
एवं सति महालाभो भवेद्देवगणस्य हि
॥२१॥सर्वस्य भवतश्चापि स्युस्सर्वे ते वशास्सुराः
॥२२॥ब्रह्मोवाच
इत्याकर्ण्य वचस्तेषां हर्यादीनां गिरीश्वरः ।
तथास्त्विति प्रसन्नात्मा प्रोवाच न च सादरम्
॥२३॥अथ ते च समादिश्य तद्विधिम्परमादरात् ।
स्वयं जग्मुश्च शरणमुमायाश्शंकर स्त्रियः
॥२४॥सुस्थले मनसा स्थित्वा सस्मरुर्जगदम्बिकाम् ।
प्रणम्य बहुशस्तत्र तुष्टुवुः श्रद्धया सुराः
॥२५॥देवा ऊचुः
देव्युमे जगतामम्ब शिवलोकनिवासिनी ।
सदाशिवप्रिये दुर्गे त्वां नमामो महेश्वरि
॥२६॥श्रीशक्तिं पावनां शान्तां पुष्टिम्परमपावनीम् ।
वयन्नामामहे भक्त्या महदव्यक्तरूपिणीम्
॥२७॥शिवां शिवकरां शुद्धां स्थूलां सूक्ष्मां परायणाम् ।
अन्तर्विद्यासुविद्याभ्यां सुप्रीतां त्वां नमामहे
॥२८॥त्वं श्रद्धा त्वं धृतिस्त्वं श्रीस्त्वमेव सर्वगोचरा ।
त्वन्दीधितिस्सूर्य्यगता स्वप्रपञ्चप्रकाशिनी
॥२९॥या च ब्रह्माण्डसंस्थाने जगज्जीवेषु या जगत् ।
आप्याययति ब्रह्मादितृणान्तं तां नमामहे
॥३०॥गायत्री त्वं वेदमाता त्वं सावित्री सरस्वती
॥७०॥त्वं वार्ता सर्वजगतां त्वं त्रयी धर्मरूपिणी
॥३१॥निद्रा त्वं सर्वभूतेषु क्षुधा तृप्तिस्त्वमेव हि ।
तृष्णा कान्तिश्छविस्तुष्टिस्सर्वानन्दकरी सदा
॥३२॥त्वं लक्ष्मीः पुण्यकर्तॄणां त्वं ज्येष्ठा पापिनां सदा ।
त्वं शान्तिः सर्वजगतां त्वं धात्री प्राणपोषिणी
॥३३॥त्वन्तस्वरूपा भूतानां पञ्चानामपि सारकृत् ।
त्वं हि नीतिभृतां नीतिर्व्यवसायस्वरूपिणी
॥३४॥गीतिस्त्वं सामवेदस्य ग्रन्थिस्त्वं यजुषां हुतिः ।
ऋग्वेदस्य तथा मात्राथर्वणस्य परा गतिः
॥३५॥समस्तगीर्वाणगणस्य शक्तिस्तमोमयी धातृगुणैकदृश्या ।
रजः प्रपंचात्तु भवैकरूपा या न श्रुता भव्यकरी स्तुतेह
॥३६॥संसारसागरकरालभवाङ्गदुःखनिस्तारकारितरणिश्च निवीतहीना ।
अष्टाङ्गयोगपरिपालनकेलिदक्षां विन्ध्यागवासनिरतां प्रणमाम तां वै
॥३७॥नासाक्षि वक्त्रभुजवक्षसि मानसे च धृत्या सुखानि वितनोषि सदैव जन्तोः ।
निद्रेति याति सुभगा जगती भवा नः सा नः प्रसीदंतु भवस्थितिपालनाय
॥३८॥ब्रह्मोवाच
इति स्तुत्वा महेशानीं जगदम्बामुमां सतीम् ।
सुप्रेयमनसः सर्वे तस्थुस्ते दर्शनेप्सवः
॥३९॥इति श्रीशिवमहापुराणे दितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे देवस्तुतिर्नाम तृतीयोऽध्यायः ॥ ३ ॥