मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय १४

3
रुद्रसंहिता · पार्वतीखण्डः · 14

वज्रांगोत्पत्तितपोवर्णनम्

नारद उवाच

विष्णुशिष्य महाशैव सम्यगुक्तं त्वया विधे ।

चरितं परमं ह्येतच्छिवायाश्च शिवस्य च

॥१॥

कस्तारकासुरो ब्रह्मन्येन देवाः प्रपीडिताः ।

कस्य पुत्रस्य वै ब्रूहि तत्कथां च शिवाश्रयाम्

॥२॥

भस्मी चकार स कथं शंकरश्च स्मरं वशी ।

तदपि ब्रूहि सुप्रीत्याद्भुतं तच्चरितं विभोः

॥३॥

कथं शिवा तपोऽत्युग्रं चकार सुखहेतवे ।

कथं प्राप पतिं शंभुमादिशक्तिर्जगत्परा

॥४॥

एतत्सर्वमशेषेण विशेषेण महाबुध ।

ब्रूहि मे श्रद्दधानाय स्वपुत्राय शिवात्मने

॥५॥

ब्रह्मोवाच

पुत्रवर्य महाप्राज्ञ सुरर्षे शंसितव्रतः ।

वच्म्यहं शंकरं स्मृत्वा सर्वं तच्चरितं शृणु

॥६॥

प्रथमं तारकस्यैव भवं संशृणु नारद ।

यद्वधार्थं महा यत्नः कृतो दैवैश्शिवाश्रयैः

॥७॥

मम पुत्रो मरीचिर्यः कश्यपस्तस्य चात्मजः ।

त्रयोदशमितास्तस्य स्त्रियो दक्षसुताश्च याः

॥८॥

दितिर्ज्येष्ठा च तत्स्त्री हि सुषुवे सा सुतद्वयम् ।

हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः

॥९॥

तौ हतौ विष्णुना दैत्यौ नृसिंहक्रोडरूपतः ।

सुदुःखदौ ततो देवाः सुखमापुश्च निर्भयाः ।

दितिश्च दुःखितासीत्सा कश्यपं शरणं गता ।

पुनस्संसेव्य तं भक्त्या गर्भमाधत्त सुव्रता ।

तद्विज्ञाय महेंद्रोऽपि लब्धच्छिद्रो महोद्यमी ।

तद्गर्भं व्यच्छिनत्तत्र प्रविश्य पविना मुहुः

॥१२॥

तद्व्रतस्य प्रभावेण न तद्गर्भो ममार ह ।

स्वपंत्या दैवयोगेन सप्त सप्ताभवन्सुताः

॥१३॥

देवा आसन्सुतास्ते च नामतो मरुतोऽखिलाः ।

स्वर्गं ययुस्तदेन्द्रेण देवराजात्मसात्कृताः

॥१४॥

पुनर्दितिः पतिं भेजेऽनुतप्ता निजकर्मतः ।

चकार सुप्रसन्नं तं मुनिं परमसेवया ऽ १५ ।

कश्यप उवाच ।

तपः कुरु शुचिर्भूत्वा ब्रह्मणश्चायुतं समाः ।

चेद्भविष्यति तत्पूर्वं भविता ते सुतस्तदा

॥१६॥

तथा दित्या कृतं पूर्णं तत्तपश्श्रद्धया मुने ।

ततः पत्युः प्राप्य गर्भं सुषुवे तादृशं सुतम्

॥१७॥

वजांगनामा सोऽभूद्वै दितिपुत्रोऽमरोपमः ।

नामतुल्यतनुर्वीरस्सुप्रताप्युद्भवाद्बली

॥१८॥

जननीशासनात्सद्यस्स सुतो निर्जराधिपम् ।

बलाद्धृत्वा ददौ दंडं विविधं निर्जरानपि

॥१९॥

दितिस्सुखमतीवाप दृष्ट्वा शक्रादिदुर्दशाम् ।

अमरा अपि शक्राद्या जग्मुर्दुःखं स्वकर्मतः

॥२०॥

तदाहं कश्यपेनाशु तत्रागत्य सुसामगीः ।

देवानत्याजयंस्तस्मात्सदा देवहिते रतः

॥२१॥

देवान्मुक्त्वा स वज्रांगस्ततः प्रोवाच सादरम् ।

शिवभक्तोऽतिशुद्धात्मा निर्विकारः प्रसन्नधीः

॥२२॥

वज्रांग उवाच

इंद्रो दुष्टः प्रजाघाती मातुर्मे स्वार्थसाधकः ।

स फलं प्राप्तवानद्य स्वराज्यं हि करोतु सः

॥२३॥

मातुराज्ञावशाद्ब्रह्मन्कृतमेतन्मयाखिलम् ।

न मे भोगाभिलाषो वै कस्यचि द्भुवनस्य हि

॥२४॥

तत्त्वसारं विधे सूत मह्यं वेदविदाम्वर ।

येन स्यां सुसुखी नित्यं निर्विकारः प्रसन्नधीः

॥२५॥

तच्छ्रुत्वाहं मुनेऽवोचं सात्त्विको भाव उच्यत ।

तत्त्वसार इति प्रीत्या सृजाम्येकां वरां स्त्रियम्

॥२६॥

वरांगीं नाम तां दत्त्वा तस्मै दितिसुताय वै ।

अयां स्वधाम सुप्रीतः कश्यपस्तत्पितापि च

॥२७॥

ततो दैत्यस्य वज्रांगस्सात्विकं भावमाश्रितः ।

आसुरं भावमुत्सृज्य निर्वैरस्सुखमाप्तवान्

॥२८॥

न बभूव वरांग्या हि हृदि भावोथ सात्विकः ।

सकामा स्वपतिं भेजे श्रद्धया विविधं सती

॥२९॥

अथ तत्सेवनादाशु संतुष्टोऽभून्महाप्रभुः ।

स वज्रांगः पतिस्तस्या उवाच वचनं तदा

॥३०॥

वज्रांग उवाच

किमिच्छसि प्रिये ब्रूहि किं ते मनसि वर्तते ।

तच्छुत्वानम्य तं प्राह सा पतिं स्वमनोरथम्

॥३१॥

वरांग्युवाच

चेत् प्रसन्नोऽभवस्त्वं वै सुतं मे देहि सत्पते ।

महाबलं त्रिलोकस्य जेतारं हरिदुःखदम्

॥३२॥

ब्रह्मोवाच

इति श्रुत्वा प्रियावाक्यं विस्मितोऽभूत्स आकुलः ।

उवाच हृदि स ज्ञानी सात्विको वैरवर्जितः

॥३३॥

प्रियेच्छति विरोधं वै सुरैर्मे न हि रोचते ।

किं कुर्यां हि क्व गच्छेयं कथं नश्ये न मे पणः

॥३४॥

प्रियामनोरथश्चैव पूर्णस्स्यात्त्रिजगद्भवेत् ।

क्लेशयुङ्नितरा भूयो देवाश्च मुनयस्तथा

॥३५॥

न पूर्णस्स्यात्प्रियाकामस्तदा मे नरको भवेत् ।

द्विधापि धर्महानिर्वै भवतीत्यनुशुश्रुवान्

॥३६॥

वज्रांग इत्थं बभ्राम स मुने धर्मसंकटे ।

बलाबलं द्वयोस्तत्र विचिचिंत च बुद्धितः

॥३७॥

शिवेच्छया स हि मुने वाक्यं मेने स्त्रियो बुधः ।

तथास्त्विति वचः प्राह प्रियां प्रति स दैत्यराट्

॥३८॥

तदर्थमकरोत्तीव्रं तपोन्यद्दुष्करं स तु ।

मां समुद्दिश्य सुप्रीत्या बहुवर्षं जितेंद्रियः

॥३९॥

वरं दातुमगां तस्मै दृष्ट्वाहं तत्तपो महत् ।

वरं ब्रूहि ह्यवोचं तं सुप्रसन्नेन चेतसा

॥४०॥

वज्रांगस्तु तदा प्रीतं मां दृष्ट्वा स्थितं विभुम् ।

सुप्रणम्य बहुस्तुत्वा वरं वव्रे प्रियाहितम्

॥४१॥

वज्रांग उवाच

सुतं देहि स्वमातुर्मे महाहितकरं प्रभो ।

महाबलं सुप्रतापं सुसमर्थं तपोनिधिम्

॥४२॥

ब्रह्मोवाच

इत्याकर्ण्य च तद्वाक्यं तथास्त्वित्यब्रवं मुने ।

अया स्वधाम तद्दत्त्वा विमनास्सस्मरच्छिवम्

॥४३॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे तारकोत्पत्तौ वज्रांगोत्पत्तितपोवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥