वरागमादिवर्णनम्
ब्रह्मोवाच
अथ शंभुः प्रसन्नात्मा सदूतं स्वगणैस्सुरैः ।
सर्वैरन्यैर्गिरेर्द्धाम जगाम सकुतूहलम्
॥१॥मेनापि स्त्रीगणैस्तैश्च हिमाचलवरप्रिया ।
तत उत्थाय स्वगृहा भ्यंतरं सा जगाम ह
॥२॥नीराजनार्थं शम्भोश्च दीपपात्रकरा सती ।
सर्वर्षिस्त्रीगणैस्साकमगच्छद्द्वारमादरात्
॥३॥तत्रागतं महेशानं शंकरं गिरिजावरम् ।
ददर्श प्रीतितो मेना सेवितं सकलैस्सुरैः
॥४॥चारुचंपकवर्णाभं ह्येकवक्त्रं त्रिलोचनम् ।
ईषद्धास्यप्रसन्नास्यं रत्नस्वर्णादिभूषितम्
॥५॥मालतीमालया युक्तं सद्रत्नमुकुटोज्ज्वलम् ।
सत्कंठाभरणं चारुवलयांगदभूषितम्
॥६॥वह्निशौचेनातुलेन त्वतिसूक्ष्मेण चारुणा ।
अमूल्यवस्त्रयुग्मेन विचित्रेणातिराजितम्
॥७॥चन्दनागरुकस्तूरीचारुकुंकुम भूषितम् ।
रत्नदर्पणहस्तं च कज्जलोज्ज्वललोचनम्
॥८॥सर्वस्वप्रभयाच्छन्नमतीवसुमनोहरम् ।
अतीव तरुणं रम्यं भूषितांगैश्च भूषितम्
॥९॥कामिनीकांतमव्यग्रं कोटिचन्द्राननांबुजम् ।
कोटिस्मराधिकतनुच्छविं सर्वांगसुंदरम्
॥१०॥ईदृग्विधं सुदेवं तं स्थितं स्वपुरतः प्रभुम् ।
दृष्ट्वा जामातरं मेना जहौ शोकम्मुदाऽन्विता
॥११॥प्रशशंस स्वभाग्यं सा गिरिजां भूधरं कुलम् ।
मेने कृतार्थमात्मानं जहर्ष च पुनः पुनः
॥१२॥नीराजनं चकारासौ प्रफुल्लवदना सती ।
अवलोकपरा तत्र मेना जामातरं मुदा
॥१३॥गिरिजोक्तमनुस्मृत्य मेना विस्मयमागता ।
मनसैव ह्युवाचेदं हर्षफुल्लाननाम्बुजा
॥१४॥यद्वै पुरोक्तं च तया पार्वत्या मम तत्र च ।
ततोधिकं प्रपश्यामि सौन्दर्य्यं परमेशितुः
॥१५॥महेशस्य सुलावण्यमनिर्वाच्यं च संप्रति ।
एवं विस्मयमापन्ना मेना स्वगृहमाययौ
॥१६॥प्रशशंसुर्युवतयो धन्या धन्या गिरेः सुता ।
दुर्गा भगवतीत्येवमूचुः काश्चन कन्यकाः
॥१७॥न दृष्टो वर इत्येवमस्माभिर्द्दानगोचरः ।
धन्या हि गिरिजा देवीमूचुः काश्चन कन्यकाः
॥१८॥जगुर्गन्धर्व्वप्रवरा ननृतुश्चाप्सरोगणाः ।
दृष्ट्वा शंकररूपं च प्रहृष्टास्सर्वदेवताः
॥१९॥नानाप्रकारवाद्यानि वादका मधुराक्षरम् ।
नानाप्रकारशिल्पेन वादयामासुरादरात्
॥२०॥हिमाचलोऽपि मुदितो द्वाराचारमथाकरोत् ।
मेनापि सर्वनारीभिर्महोत्सवपुरस्सरम्
॥२१॥परपुच्छां चकारासौ मुदिता स्वगृहं ययौ ।
शिवो निवेदितं स्थानं जगाम गणनिर्जरैः
॥२२॥एतस्मिन्नन्तरे दुर्गां शैलान्तःपुरचारिका ।
बहिर्जग्मुस्समादाय पूजितुं कुलदेवताम्
॥२३॥तत्र तां ददृशुर्देवा निमेषरहिता मुदा ।
सुनीलांजनवर्णाभां स्वांगैश्च प्रतिभूषिताम्
॥२४॥त्रिनेत्रादृतनेत्रांतामन्यवारितलोचनाम् ।
ईषद्धास्यप्रसन्नास्यां सकटाक्षां मनोहराम्
॥२५॥सुचारुकबरीभारां चारुपत्रक शोभिताम् ।
कस्तूरीबिन्दुभिस्सार्द्धं सिन्दूरबिन्दुशोभिताम्
॥२६॥रत्नेन्द्रसारहारेण वक्षसा सुविराजिताम् ।
रत्नकेयूरवलयां रत्नकङ्कणमंडिताम्
॥२७॥सद्रत्नकुण्डलाभ्यां च चारुगण्डस्थलोज्ज्वलाम् ।
मणिरत्नप्रभामुष्टिदन्तराजिविराजिताम्
॥२८॥मधुबिम्बाधरोष्ठां च रत्नयावकसंयुताम् ।
रत्नदर्प्पणहस्तां च क्रीडापद्मविभूषिताम्
॥२९॥चन्दनागुरुकस्तूरीकुंकुमेनाति च र्चिताम् ।
क्वणन्मंजीरपादां च रक्तांघ्रितलराजिताम्
॥३०॥प्रणेमुश्शिरसा देवीं भक्तियुक्ताः समेनकाम् ।
सर्वे सुरादयो दृष्ट्वा जगदाद्यां जगत्प्रसूम्
॥३१॥त्रिनेत्रो नेत्रकोणेन तां ददर्श मुदान्वितः ।
शिवः सत्याकृतिं दृष्ट्वा विजहौ विरहज्वरम्
॥३२॥शिवस्सर्वं विसस्मार शिवासंन्यस्तलोचनः ।
पुलकांचितसर्वाङ्गो हर्षाद्गौरीविलोचनः
॥३३॥अथ कालीबहिः पुर्य्यां गत्वा पूज्य कुलाम्बिकाम् ।
विवेश भवनं रम्यं स्वपितुस्सद्विजाङ्गना
॥३४॥शङ्करोपि सुरैस्सार्द्धं हरिणा ब्राह्मणा तथा ।
हिमाचलसमुद्दिष्टं स्वस्थानमगमन्मुदा
॥३५॥तत्र सर्वे सुखं तस्थुस्सेवन्तश्शङ्करं यथा ।
सम्मानिता गिरीशेन नानाविधसुसम्पदा
॥३६॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वरागमादिवर्णनं नाम षट्चत्शरिंशोऽध्यायः ॥ ४६ ॥