मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

अष्टावक्रगीता — अध्यायः २०

3
अष्टावक्रगीता · अध्यायाः · 20

सम्प्रदायतः अष्टावक्रसम्बद्धम् — अष्टावक्रजनकसंवादः

जनक उवाच॥

क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः।

क्व शून्यं क्व च नैराश्यं मत्स्वरूपे निरंजने

॥१॥

क्व शास्त्रं क्वात्मविज्ञानं क्व वा निर्विषयं मनः।

क्व तृप्तिः क्व वितृष्णात्वं गतद्वन्द्वस्य मे सदा

॥२॥

क्व विद्या क्व च वाविद्या क्वाहं क्वेदं मम क्व वा।

क्व बन्ध क्व च वा मोक्षः स्वरूपस्य क्व रूपिता

॥३॥

क्व प्रारब्धानि कर्माणि जीवन्मुक्तिरपि क्व वा।

क्व तद् विदेहकैवल्यं निर्विशेषस्य सर्वदा

॥४॥

क्व कर्ता क्व च वा भोक्ता निष्क्रियं स्फुरणं क्व वा।

क्वापरोक्षं फलं वा क्व निःस्वभावस्य मे सदा

॥५॥

क्व लोकं क्व मुमुक्षुर्वा क्व योगी ज्ञानवान् क्व वा।

क्व बद्धः क्व च वा मुक्तः स्वस्वरूपेऽहमद्वये

॥६॥

क्व सृष्टिः क्व च संहारः क्व साध्यं क्व च साधनं।

क्व साधकः क्व सिद्धिर्वा स्वस्वरूपेऽहमद्वये

॥७॥

क्व प्रमाता प्रमाणं वा क्व प्रमेयं क्व च प्रमा।

क्व किंचित् क्व न किंचिद् वा सर्वदा विमलस्य मे

॥८॥

क्व विक्षेपः क्व चैकाग्र्यं क्व निर्बोधः क्व मूढता।

क्व हर्षः क्व विषादो वा सर्वदा निष्क्रियस्य मे

॥९॥

क्व चैष व्यवहारो वा क्व च सा परमार्थता।

क्व सुखं क्व च वा दुखं निर्विमर्शस्य मे सदा

॥१०॥

क्व माया क्व च संसारः क्व प्रीतिर्विरतिः क्व वा।

क्व जीवः क्व च तद्ब्रह्म सर्वदा विमलस्य मे

॥११॥

क्व प्रवृत्तिर्निर्वृत्तिर्वा क्व मुक्तिः क्व च बन्धनं।

कूटस्थनिर्विभागस्य स्वस्थस्य मम सर्वदा

॥१२॥

क्वोपदेशः क्व वा शास्त्रं क्व शिष्यः क्व च वा गुरुः।

क्व चास्ति पुरुषार्थो वा निरुपाधेः शिवस्य मे

॥१३॥

क्व चास्ति क्व च वा नास्ति क्वास्ति चैकं क्व च द्वयं।

बहुनात्र किमुक्तेन किंचिन्नोत्तिष्ठते मम

॥१४॥

॥ॐ तत्सत्॥