मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

अष्टावक्रगीता — अध्यायः १७

3
अष्टावक्रगीता · अध्यायाः · 17

सम्प्रदायतः अष्टावक्रसम्बद्धम् — अष्टावक्रजनकसंवादः

अष्टावक्र उवाच॥

तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा।

तृप्तः स्वच्छेन्द्रियो नित्यं एकाकी रमते तु यः

॥१॥

न कदाचिज्जगत्यस्मिन् तत्त्वज्ञा हन्त खिद्यति।

यत एकेन तेनेदं पूर्णं ब्रह्माण्डमण्डलम्

॥२॥

न जातु विषयाः केऽपि स्वारामं हर्षयन्त्यमी।

सल्लकीपल्लवप्रीतमिवेभं निंबपल्लवाः

॥३॥

यस्तु भोगेषु भुक्तेषु न भवत्यधिवासिता।

अभुक्तेषु निराकांक्षी तदृशो भवदुर्लभः

॥४॥

बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते।

भोगमोक्षनिराकांक्षी विरलो हि महाशयः

॥५॥

धर्मार्थकाममोक्षेषु जीविते मरणे तथा।

कस्याप्युदारचित्तस्य हेयोपादेयता न हि

॥६॥

वांछा न विश्वविलये न द्वेषस्तस्य च स्थितौ।

यथा जीविकया तस्माद् धन्य आस्ते यथा सुखम्

॥७॥

कृतार्थोऽनेन ज्ञानेनेत्येवं गलितधीः कृती।

पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्नस्ते यथा सुखम्

॥८॥

शून्या दृष्टिर्वृथा चेष्टा विकलानीन्द्रियाणि च।

न स्पृहा न विरक्तिर्वा क्षीणसंसारसागरे

॥९॥

न जगर्ति न निद्राति नोन्मीलति न मीलति।

अहो परदशा क्वापि वर्तते मुक्तचेतसः

॥१०॥

सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः।

समस्तवासना मुक्तो मुक्तः सर्वत्र राजते

॥११॥

पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन् गृण्हन् वदन् व्रजन्।

ईहितानीहितैर्मुक्तो मुक्त एव महाशयः

॥१२॥

न निन्दति न च स्तौति न हृष्यति न कुप्यति।

न ददाति न गृण्हाति मुक्तः सर्वत्र नीरसः

॥१३॥

सानुरागां स्त्रियं दृष्ट्वा मृत्युं वा समुपस्थितं।

अविह्वलमनाः स्वस्थो मुक्त एव महाशयः

॥१४॥

सुखे दुःखे नरे नार्यां संपत्सु विपत्सु च।

विशेषो नैव धीरस्य सर्वत्र समदर्शिनः

॥१५॥

न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता।

नाश्चर्यं नैव च क्षोभः क्षीणसंसरणे नरे

॥१६॥

न मुक्तो विषयद्वेष्टा न वा विषयलोलुपः।

असंसक्तमना नित्यं प्राप्ताप्राप्तमुपाश्नुते

॥१७॥

समाधानसमाधानहिताहितविकल्पनाः।

शून्यचित्तो न जानाति कैवल्यमिव संस्थितः

॥१८॥

निर्ममो निरहंकारो न किंचिदिति निश्चितः।

अन्तर्गलितसर्वाशः कुर्वन्नपि करोति न

॥१९॥

मनःप्रकाशसंमोहस्वप्नजाड्यविवर्जितः।

दशां कामपि संप्राप्तो भवेद् गलितमानसः

॥२०॥