मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

अष्टावक्रगीता — अध्यायः १४

3
अष्टावक्रगीता · अध्यायाः · 14

सम्प्रदायतः अष्टावक्रसम्बद्धम् — अष्टावक्रजनकसंवादः

जनक उवाच॥

प्रकृत्या शून्यचित्तो यः प्रमादाद् भावभावनः।

निद्रितो बोधित इव क्षीणसंस्मरणो हि सः

॥१॥

क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः।

क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा

॥२॥

विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे।

नैराश्ये बंधमोक्षे च न चिंता मुक्तये मम

॥३॥

अंतर्विकल्पशून्यस्य बहिः स्वच्छन्दचारिणः।

भ्रान्तस्येव दशास्तास्तास्तादृशा एव जानते

॥४॥