मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

अष्टावक्रगीता — अध्यायः ११

3
अष्टावक्रगीता · अध्यायाः · 11

सम्प्रदायतः अष्टावक्रसम्बद्धम् — अष्टावक्रजनकसंवादः

अष्टावक्र उवाच॥

भावाभावविकारश्च स्वभावादिति निश्चयी।

निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति

॥१॥

ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी।

अन्तर्गलितसर्वाशः शान्तः क्वापि न सज्जते

॥२॥

आपदः संपदः काले दैवादेवेति निश्चयी।

तृप्तः स्वस्थेन्द्रियो नित्यं न वान्छति न शोचति

॥३॥

सुखदुःखे जन्ममृत्यू दैवादेवेति निश्चयी।

साध्यादर्शी निरायासः कुर्वन्नपि न लिप्यते

॥४॥

चिन्तया जायते दुःखं नान्यथेहेति निश्चयी।

तया हीनः सुखी शान्तः सर्वत्र गलितस्पृहः

॥५॥

नाहं देहो न मे देहो बोधोऽहमिति निश्चयी।

कैवल्यं इव संप्राप्तो न स्मरत्यकृतं कृतम्

॥६॥

आब्रह्मस्तंबपर्यन्तं अहमेवेति निश्चयी।

निर्विकल्पः शुचिः शान्तः प्राप्ताप्राप्तविनिर्वृतः

॥७॥

नाश्चर्यमिदं विश्वं न किंचिदिति निश्चयी।

निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति

॥८॥