मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

अष्टावक्रगीता — अध्यायः १९

3
अष्टावक्रगीता · अध्यायाः · 19

सम्प्रदायतः अष्टावक्रसम्बद्धम् — अष्टावक्रजनकसंवादः

जनक उवाच॥

तत्त्वविज्ञानसन्दंशमादाय हृदयोदरात्।

नाविधपरामर्शशल्योद्धारः कृतो मया

॥१॥

क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता।

क्व द्वैतं क्व च वाऽद्वैतं स्वमहिम्नि स्थितस्य मे

॥२॥

क्व भूतं क्व भविष्यद् वा वर्तमानमपि क्व वा।

क्व देशः क्व च वा नित्यं स्वमहिम्नि स्थितस्य मे

॥३॥

क्व चात्मा क्व च वानात्मा क्व शुभं क्वाशुभं यथा।

क्व चिन्ता क्व च वाचिन्ता स्वमहिम्नि स्थितस्य मे

॥४॥

क्व स्वप्नः क्व सुषुप्तिर्वा क्व च जागरणं तथा।

क्व तुरियं भयं वापि स्वमहिम्नि स्थितस्य मे

॥५॥

क्व दूरं क्व समीपं वा बाह्यं क्वाभ्यन्तरं क्व वा।

क्व स्थूलं क्व च वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे

॥६॥

क्व मृत्युर्जीवितं वा क्व लोकाः क्वास्य क्व लौकिकं।

क्व लयः क्व समाधिर्वा स्वमहिम्नि स्थितस्य मे

॥७॥

अलं त्रिवर्गकथया योगस्य कथयाप्यलं।

अलं विज्ञानकथया विश्रान्तस्य ममात्मनि

॥८॥