मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

अष्टावक्रगीता — अध्यायः १२

3
अष्टावक्रगीता · अध्यायाः · 12

सम्प्रदायतः अष्टावक्रसम्बद्धम् — अष्टावक्रजनकसंवादः

जनक उवाच॥

कायकृत्यासहः पूर्वं ततो वाग्विस्तरासहः।

अथ चिन्तासहस्तस्माद् एवमेवाहमास्थितः

॥१॥

प्रीत्यभावेन शब्दादेरदृश्यत्वेन चात्मनः।

विक्षेपैकाग्रहृदय एवमेवाहमास्थितः

॥२॥

समाध्यासादिविक्षिप्तौ व्यवहारः समाधये।

एवं विलोक्य नियमं एवमेवाहमास्थितः

॥३॥

हेयोपादेयविरहाद् एवं हर्षविषादयोः।

अभावादद्य हे ब्रह्मन्न् एवमेवाहमास्थितः

॥४॥

आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनं।

विकल्पं मम वीक्ष्यैतैरेवमेवाहमास्थितः

॥५॥

कर्मानुष्ठानमज्ञानाद् यथैवोपरमस्तथा।

बुध्वा सम्यगिदं तत्त्वं एवमेवाहमास्थितः

॥६॥

अचिंत्यं चिंत्यमानोऽपि चिन्तारूपं भजत्यसौ।

त्यक्त्वा तद्भावनं तस्माद् एवमेवाहमास्थितः

॥७॥

एवमेव कृतं येन स कृतार्थो भवेदसौ।

एवमेव स्वभावो यः स कृतार्थो भवेदसौ

॥८॥