मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय १

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 1

सावर्णिप्रश्नः

श्रीकृष्णाय नमोनमः ॥

अथ श्रीवासुदेवमाहात्म्यं प्रारभ्यते ॥

शौनक उवाच ॥

जीवानां श्रेयसे सौते बहुधा साधनानि ते ॥

धर्मो ज्ञानं च वैराग्यं योगादीन्युदितानि नः

॥१॥

इतिहासैर्बहुविधैर्विस्पष्टार्थानि तानि च ॥

सर्वाण्यपि महाबुद्धे श्रुतान्यस्माभिरादरात्

॥२॥

सर्वेषां मनुजानां तु दुष्कराण्येव तानि तु ॥

बाहुल्याच्चान्तरायाणां तत्सिद्धिरपि दुर्ल्लभा

॥३॥

प्रयत्नेनाति महता पुरुषैद्धेंर्य्यशालिभिः ॥

साधितान्यपि सिध्यन्ति तानि कालेन भूयसा

॥४॥

अतो भवान्द्विजातीनामाश्रमाणां च सर्वशः ॥

ब्रवीतु सुकरोपायं स्त्रीशूद्रादेरपीह नः

॥५॥

कृतेन येनाप्यल्पेन येन केनापि देहिना ॥

अन्तरायैरविहतं महदेव फलं भवेत्

॥६॥

मोक्षस्य साधनं तादृक्सुविचार्य्य महामते ॥

हिताय सर्वजीवानां कृपया वक्तुमर्हसि

॥७॥

प्रसादाद्बलदेवस्य व्यासस्य जनकस्य च ॥

जानासि सर्वमेव त्वं तन्नो ब्रूहि बुभुत्सतः

॥८॥

सौतिरुवाच

महर्षिरपि सावर्णिरेवमेव हि शौनक ॥

विनीतः स्कन्दमप्राक्षीत्पुनः शङ्करनन्दनम्

॥९॥

सावर्णिरुवाच

श्रुता नानाविधा धर्म्माः साङ्ख्यज्ञानं च नैकधा ॥

योगादीनि त्वदुक्तानि साधनानि मया गुह

॥१०॥

सुदुष्कराणि मन्येऽहं तानि त्वस्मादृशां किल ॥

महतामपि चान्येषां कृच्छ्रसाध्यानि वै चिरात्

॥११॥

अतो वर्णाश्रमवतां श्रेयस्कृत्सुकरं च यत् ॥

साधनं तच्छ्रेष्ठतमं वक्तुमर्हसि मेऽधुना

॥१२॥

सौतिरुवाच

इति पृष्टो मुनीन्द्रेण तेन जिज्ञासुना गुहः ॥

वासुदेवं हृदि ध्यायन्कार्त्तिकेयः स ऊचिवान्

॥१३॥

स्कन्द उवाच

शृणु ब्रह्मन्प्रवक्ष्येऽहं श्रुतं पितृमुखान्मया ॥

सर्वेषामपि जीवानां सुकरं मोक्षसाधनम्

॥१४॥

देवताप्रीणनसमं स्वेष्टसिद्धिमभीप्सताम् ॥

नास्त्यन्यसाधनं किञ्चिद्वर्णाश्रमवतामिह

॥१५॥

अप्यल्पं सुकृतं कर्म्म देवसंबन्धतः कृतम् ॥

फलं ददाति निर्विघ्नं महदेव हि तन्नृणाम्

॥१६॥

दैवं पित्र्यं स्वधर्म्मश्च काम्यं कर्म्मापि यच्च तत् ॥

देवतायास्तु संबन्धात्सद्यः स्यादिष्टसिद्धिदम्

॥१७॥

साङ्ख्ययोग विरागादि प्रागुक्तं यच्च दुष्करम् ॥

तदपि स्याद्धि सुकरमनेनैवाशु सिद्धिदम्

॥१८॥

देवस्याराधनेनैव यतः सिद्ध्यति वाञ्छितम् ॥

अतः सर्वैर्य्यथाशक्ति प्रीत्याराध्यः स मानवैः

॥१९॥

सावर्णिरुवाच

देवा वहुविधा प्रोक्तास्त्वया षण्मुख मे पुरा ॥

नानाविधा वर्णिताश्च तदाराधनरीतयः

॥२०॥

तत्फलानि च सर्वाणि त्वयोक्तानि पृथक्पृथक् ॥

स्वर्गादिप्राप्तिमुख्यानि कालग्रस्तानि तानि तु

॥२१॥

निवृत्तिधर्म्मिणां ब्रह्मा ह्युपास्तेर्य्योगिनां गुह ॥

जनादिलोकाप्तिफलं द्विपरार्द्धान्तनश्वरम्

॥२२॥

दुष्कराणीह संसाध्य कर्म्माणि पुरुकृच्छ्रतः ॥

क्षयिष्णुफललाभश्चेत्तर्हि किं तदुपार्जनैः

॥२३॥

कालेन नाश्यते येषां वपुः स्थानबलादिकम् ॥

तेषां न रोचते मह्यमुपासाऽत्र दिवौकसाम्

॥२४॥

यः स्वयं निर्भयोऽन्येषां भयहर्त्ता सनातनः ॥

नित्यधामाऽक्षयफलप्रदाता भक्तवत्सलः

॥२५॥

यस्य प्रसादात्सर्वेषां सर्व एव मनोरथाः ॥

सिद्ध्येयुश्चाञ्जसैवाऽत्र तं देवं वद मे गुह

॥२६॥

तदाराधनरीतिं च सुकरां शिष्टसंमताम् ॥

ब्रूहि सर्वां विशेषेण जिज्ञासामीदमञ्जसा

॥२७॥

सौतिरुवाच

इत्थं महर्षिणा तेन संपृष्टो भगवान्गुहः ॥

सुप्रसन्न उवाचेदं मानयंस्तमुदारधीः

॥२८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये सावर्णिप्रश्नो नाम प्रथमोऽध्यायः ॥ १ ॥