उपीरचरवसुमोक्षनिरूपणम्
स्कन्द उवाच
भूमध्यगः स राजाऽथ स्वकृतं कर्म गर्हयन् ॥
अनुतप्यमानश्च भृशं मानयंस्ताबृहन्मुनीन् ॥
जजाप भगवन्मन्त्रं त्र्यक्षरं मनसा सदा
॥१॥तत्रापि परया भक्त्या पञ्चकालं स्वचेतसा ॥
अयजद्धरिं सुरपतिं भूमेर्विवर आदरात्
॥२॥ततोऽस्य तुष्टो भगवान्वासुदेवो जगत्पतिः ॥
आपद्यपि यथाकालं यथाशास्त्रं स्वमर्चतः
॥३॥वरदो भगवान्विष्णुः समीपस्थं द्विजोत्तमम् ॥
गरुत्मन्तं महावेगमाबभाषे स्वयं ततः
॥४॥श्रीभगवानुवाच
द्विजोत्तम महाभाग गम्यतां वचनान्मम ॥
सम्राड्राजा वसुर्नाम धर्मात्मा मां समाश्रितः
॥५॥ब्रह्मातिक्रमदोषेण प्रविष्टो वसुधातलम् ॥
तन्मानना कृता तेन तद्गच्छाद्य तदन्तिकम्
॥६॥भूमेर्विवरसंगुप्तं गरुडैनं ममाज्ञया ॥
अधश्चरं नृपश्रेष्ठं खेचरं कुरु मा चिरम्
॥७॥स्कन्द उवाच
गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान् ॥
विवेश विवरं भूम्या यत्रास्ते वाग्यतो वसुः
॥८॥तत एनं समुत्क्षिप्य स्वचञ्च्वा विनता सुतः ॥
उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत
॥९॥तस्मिन्मुहूर्त्ते संजज्ञे राजोपरिचरः पुनः ॥
सशरीरो गतः स्वर्गं परमं सुखमाप्तवान्
॥१०॥एवं तेनापि ब्रह्मर्षे वाग्दोषात्सदवज्ञया ॥
प्राप्ता गतिरयज्वार्हा धर्मज्ञेन महात्मना
॥११॥केवलं पुरुषस्तेन सेवितो हरिरीश्वरः ॥
ततः शीघ्रं जहौ पापं स्वर्गलोकमवाप च
॥१२॥भुञ्जानो विविधं सौख्यं मनोभीष्टं च तत्र सः ॥
उवासान्यो यथा शक्रो गीयमानयशाः सुरैः
॥१३॥तमेकदा विमानेन चरन्तं सूर्यसन्निभम् ॥
अद्रिकाप्सरसा युक्तमच्छोदा समवैक्षत
॥१४॥सा हि सोमपदस्थानां पितॄणां मानसी सुता ॥
अग्निष्वात्ताभिधानानाममूर्त्तानां महात्मनाम्
॥१५॥अमूर्त्तत्वात्पितॄन्स्वान्सा न जानन्ती शुचिस्मिता ॥
तं वसुं पितरं मेने स च तामात्मजामिव
॥१६॥तौ ततः पितरः शेपुर्भावं दृष्ट्वेदृशं तयोः ॥
कन्ये त्वमस्य नृपतेर्भुवि कन्या भविष्यसि
॥१७॥वसो त्वं मानुषो भूत्वा सुतामेनां स्वयोषिति ॥
अस्यामेवाप्सरायां त्वं जनयिष्यसि निश्चितम्
॥१८॥इत्थं तौ पितृभिः शप्तौ शापमोक्षाय तास्ततः ॥
प्रार्थयामासतुर्न्नत्वा तदोचुस्ते कृपालवः
॥१९॥अवश्यमित्थं भावित्वाद्युवाभ्यामुपलम्भितः ॥
शापोऽयं तत्र युवयोः श्रेय एव भविष्यति
॥२०॥अष्टाविंशे द्वापरे तु वसो त्वं भुवि भूपतेः ॥
कृतयज्ञस्य तनयो भवितासि महात्मनः
॥२१॥तत्रापि च यथेदानीं तथा त्वं सकलैर्गुणैः ॥
जुष्टश्च खचरो भाव्यो महाभागवताग्रणीः
॥२२॥पञ्चरात्रोक्तविधिना विष्णुमभ्यर्च्य भक्तितः ॥
तच्छेषेण सुरांश्चास्मानर्चयिष्यसि सप्रजः
॥२३॥ततस्त्वं दिव्यदेहेन स्वर्गलोकमवाप्स्यसि ॥
दिव्यान्भोगांस्तत्र भुक्त्वा प्राप्स्यसे वैष्णवं पदम्
॥२४॥अच्छोदे त्वमपि क्षोण्यां नाम्ना कालीति विश्रुता ॥
स्वांशेन मत्स्यदेहायामद्रिकायां जनिष्यसे
॥२५॥पराशरात्तत्र सुतं कन्येव प्राप्स्यसे हरिम् ॥
प्रसादादेव तस्य त्वं भुक्तिं मुक्तिं च लप्स्यसे
॥२६॥स्कन्द उवाच
इत्थं स पितृभिः शप्तोऽनुगृहीतश्च भूपतिः ॥
कृतयज्ञादिह जनिं प्राप्याऽभूद्विश्रुतो गुणैः
॥२७॥यथा पूर्वं कृष्णभक्तो दैवपित्र्यविधानवित् ॥
सख्ये तस्मै महेन्द्रश्च प्रादात्प्रचुरसंपदः
॥२८॥श्वेतद्वीपे वासुदेवात्प्राप्तो यो विजयध्वजः ॥
पुरा स्वेनारिनाशार्थं तस्मा इन्द्रस्तमप्यदात्
॥२९॥अन्तरिक्षगती राजा भौमान्भोगान्सुदुर्लभान् ॥
भुक्त्वान्ते स्वर्गलोकं च दिव्यदेहेन लब्धवान्
॥३०॥प्राक्पुण्यशेषस्य फलं भुञ्जन्स्वमनसेप्सितान् ॥
तत्र भोगान्बहुविधांस्तीव्रं वैराग्यमाप्तवान्
॥३१॥मेरोः शृङ्गेऽथ विजने शुचिः कृतदृढासनः ॥
दध्यौ स्वहृदयाम्भोजे स्वेष्टदेवं रमापतिम्
॥३२॥त्यक्त्वा देववपुः सोऽथ योगधारणया मुनिः ॥
ततः सूक्ष्मशरीरेण प्राप भास्करमण्डलम् ॥
यदाहुर्नैष्ठिकानां च मुक्तिद्वारं हि योगिनाम्
॥३३॥तत्तेजोदग्धसूक्ष्माङ्गः सच्चिदूपोऽतिनिर्मलः ॥
स बभूव महाभागः संक्षीणाशेषवासनः
॥३४॥ततस्तन्मण्डलगतैरातिवाहिकदैवतैः ॥
स निन्ये वैष्णवं धाम श्वेतद्वीपाख्यमद्भुतम्
॥३५॥स हि द्वीपो भुविस्थोपि भवत्यप्राकृतो मुने ॥
हरिभक्तजनावासः प्राप्य एकान्तभक्तिभिः
॥३६॥स गोलोकब्रह्मपुरवैकुण्ठानां च सुव्रत ॥
द्वारभूतोस्ति भक्तानां तल्लिप्सूनां महात्मनाम्
॥३७॥यस्य यद्धाम्न इच्छा स्याद्भजतस्तं तदेव हि ॥
प्रापयन्ति श्वेतमुक्ता मुने प्रागुक्तलक्षणाः
॥३८॥दिव्यदेहोऽभवत्तत्र धाम्न्यऽसौ श्वेतमुक्तवत् ॥
प्राप्य गोलोकधामाऽथ परमानन्दमाप्तवान्
॥३९॥इत्थमेकान्तिकेनैव धर्मेणाराधयन्ति ये ॥
नारायणं परं ब्रह्म श्वेतमुक्ता भवंति ते
॥४०॥एतत्ते सर्वमाख्यातं पृष्टवान्यद्भवान्मुने ॥
स्थितिरेकांतभक्तानां श्वेतधाम्नश्च लक्षणम्
॥४१॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्य उपीरचरवसुमोक्षनिरूपणं नाम सप्तमोऽध्यायः ॥ ७ ॥