मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय १२

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 12

चतुर्दशरत्नोत्पत्तिर्

स्कन्द उवाच

ततो हृष्टाः काश्यपेया मन्थस्थानमुपेत्य ते ॥

पुनर्वर्षसहस्रं च मन्थन्ति स्म पयोनिधिम्

॥१॥

मथ्यमानात्तथा सिन्धोः सर्वेस्तैरपि किञ्चन ॥

नासीच्च शिथिला आसन्मंथितारः श्वसन्मुखाः

॥२॥

वासुकिश्च महासर्पः प्राणवैक्लव्यमाप्तवान् ॥

मन्थकाले मन्दरोपि नैकत्रासीत्स्थिरस्थितिः

॥३॥

सर्वान्दृष्ट्वा निरुत्साहान्प्रद्युम्नो विण्वनुज्ञया ॥

देवासुराहिराजेषु प्रविश्य बलमादधौ

॥४॥

अनिरुद्धोपि तर्ह्येव तमाक्रम्य नगाधिपम् ॥

सहस्रबाहुभिस्तस्थौ महाचल इवाऽपरः

॥५॥

ततो ममन्थुस्तरसा संप्राप्तपरमोजसः ॥

सविस्मया महाब्धिं ते सुरासुरगणा मुदा

॥६॥

नारायणानुभावेन नापुर्द्देवादयः श्रमम् ॥

शुशुभे मन्थनं तच्च सममाकर्षणात्तदा

॥७॥

मथ्यमाने महाम्भोधौ सुस्रुवुः परितस्तदा ॥

महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः

॥८॥

तथाभूतादम्बुनिधेराविरासीत्कलानिधिः ॥

कान्त्यौषधीनामध्यक्षः सर्वासां य उदीर्यते

॥९॥

ततो गवामधिष्ठात्री सर्वासामपि कामधुक् ॥

हविर्द्धान्यभवद्धेनुः शीतांशुसदृशद्युतिः

॥१०॥

अश्वः श्वेतोऽथाविरासीद्धयानामधिदेवता ॥

ऐरावतश्च नागेन्द्रश्चतुर्द्दन्तः शशिप्रभः

॥११॥

पारिजातो दिव्यतरुस्तरुराजस्ततोऽभवत् ॥

मणिरत्नं कौस्तुभाख्यं पद्मरागमभूत्ततः

॥१२॥

ततोऽभवन्नप्सरसो रूपलावण्यभूमयः ॥

सुरा देवी ततो जज्ञे सर्वमादकदेवता

॥१३॥

आसीदथ धनुः शार्ङ्गं सर्वशस्त्राधिदैवतम् ॥

वाद्याधिदैवतं शंखः पाञ्चजन्यस्ततोऽभवत्

॥१४॥

तत्र चन्द्रः पारिजातस्तथैवाप्सरसां गणः ॥

आदित्यपथमाश्रित्य तस्थुरेते तु तत्क्षणम्

॥१५॥

वारुणीमश्वराजं च दैत्येशा जगृहुर्द्रुतम् ॥

ऐरावतं देवराजो जग्राहानुमताद्धरेः

॥१६॥

कौस्तुभश्च धनुः शंखो विष्णुमेव प्रपेदिरे ॥

हविर्द्धानीं तु ते सर्वे तापसेभ्यो ददुस्तदा

॥१७॥

मथ्यमानात्पुनः सिन्धोः साक्षाच्छ्रीरभवत्स्वयम् ॥

आनन्दयन्ती स्वदृशा त्रिलोकीं हतवर्चसम्

॥१८॥

तां ग्रहीतुं तु सर्वेपि सुरासुरनरादयः ॥

ऐच्छंस्तस्याः प्रतापात्तु शेकेन्त्येतुं न कश्चन

॥१९॥

ततस्तां पद्महस्तत्वाच्छ्रीं विदित्वैव वासवः ॥

आनन्दं परमं प्राप ब्रह्माद्या ये च तद्विदः

॥२०॥

तावत्तत्राम्बुधिः साक्षादेत्य तां हैम आसने ॥

कन्या ममेयमित्युक्त्वा गृहीत्वाङ्क उपाविशत्

॥२१॥

पुनरब्धेर्मथ्यमानादधिकं बलिभिश्च तैः ॥

सुधार्थिभिर्द्धैर्यवद्भिरपि नैवाभवत्सुधा

॥२२॥

तदा शिथिलयत्नास्ते निराशा अमृतोद्भवे ॥

प्रम्लानवक्त्राः खिन्नाश्च बभूवुः काश्यपा मुने

॥२३॥

दृष्ट्वा तथाविधांस्तांश्च भगवान्करुणानिधिः ॥

उद्युक्तोभूत्स्वयं ब्रह्मन्मन्थनाय हसन्विभुः

॥२४॥

रत्नकाञ्चीदृढाबद्धकक्षपीताम्बरद्युतिः ॥

द्वाभ्यां द्वाभ्यामहिं मध्ये दोर्भ्यामुभयतोग्रहीत्

॥२५॥

धृताहिवदना दैत्यास्तस्थुरेकत एव ते ॥

एकतो धृततत्पुच्छा देवास्तस्थुस्तदाखिलाः

॥२६॥

तन्मध्यगश्च भगवान्ममन्थाब्धिं स लीलया ॥

ददानो नयनानन्द चञ्चत्करविभूषणः

॥२७॥

ब्रह्मा सहर्षिप्रवरैरन्तरिक्षस्थितस्तदा ॥

अवाकिरत्तं कुसुमैः कुर्वञ्जयजयध्वनिम्

॥२८॥

मथ्यमानात्ततः सिन्धोर्ज्जज्ञे धन्वन्तरिः पुमान् ॥

विष्णोरंशेन गौरांगः सुधाकुम्भं करे दधत्

॥२९॥

घृतादीनां हि सर्वेषां रसानां सारमुत्तमम् ॥

अमृतं तद्गृहीत्वाऽसौ श्रियोन्तिकमुपाययौ

॥३०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्येऽमृतमन्थने चतुर्दशरत्नोत्पत्तिर्नाम द्वादशोऽध्यायः ॥ १२ ॥