मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (उत्तरार्धम्), अध्याय २०

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (उत्तरार्धम्) · 20

पार्वतीकृतारुणाचलेश्वरस्तुतिवर्णनम्

मार्कंडेय उवाच

अहो महिषदैत्यस्य दुराचारत्वमीदृशम् ॥

अहो दुरितहारिण्या दुर्गायाश्च पराक्रमः

॥१॥

एवं तया भद्रकाल्या निहते महिषासुरे ॥

किं चकार गिरींद्रस्य नंदिनी तपसि स्थिता

॥२॥

नंदिकेश्वर उवाच

अनंतरं सा हस्तेन दधती दैत्यमस्तकम् ॥

ननाम गौरीमन्येन पाणिना खङ्गधारिणा

॥३॥

अथ हर्षेण नृत्यंतीं तामालोक्य दयार्द्रया ॥

दृष्ट्या देवी जगादैनां दंतांशुद्योतितांबरा

॥४॥

त्वयातिदुष्करं कर्म निर्मितं विंध्यवासिनि ॥

जातं तव प्रभावेन निष्प्रत्यूहं च मे तपः

॥५॥

अथैतन्माहिषं शीर्षमपवित्र भयंकरम् ॥

जगत्पवित्रचारित्रे त्यक्तुमर्हसि हस्ततः

॥६॥

इति गौर्योदिता दुर्गा जुगुप्साकुलमानसा ॥

मूर्ध्नस्तस्य निपाताय व्यधुनोद्बहुशः करम्

॥७॥

तीर्थमुत्पाद्यतां देवि नवं पापविनाशनम् ॥

तस्मिन्निमज्जनाद्दुर्गे प्रायश्चित्तं भविष्यति

॥८॥

इतीरिता गौतमेन दुर्गा दुरितशंकिनी ॥

पाटयामास खङ्गेन शिलापट्टं पटीयसा

॥९॥

पातालावधि निर्भिन्नात्पाषाणतलतस्ततः ॥

उदजृंभत्तरंगांभः सच्चित्तमिव निर्मलम्

॥१०॥

ममज्ज सापि गंभीरे तस्मिन्नंभसि पावने ॥

नमः शोणाद्रिनाथायेत्युक्त्वा मंत्रमनुत्तमम्

॥११॥

तावन्महिषकंठस्थं लिंगं तद्गलितं तले ॥

तटे प्रतिष्ठितं जातं पापनाशनसंज्ञया

॥१२॥

उन्ममज्ज ततो दुर्गा तीर्थांभोधूतकल्मषा ॥

निपपाताथ तत्पाणेर्महिषासुरमस्तकम्

॥१३॥

कृतप्रदक्षिणा नत्वा पापनाशनमीश्वरम् ॥

पुरस्तादस्ति सा गौर्या गौतमेनाभिनंदिता

॥१४॥

एवं प्रत्यक्षनिरतपापां तां वीक्ष्य पार्वती ॥

जगाद दीर्घतपसं जगतीधरनंदिनी

॥१५॥

महिषासुरसंहारेंऽजसा स्वनुमतिः कृता ॥

विंध्यवासिनीयमहो दुष्टमाहिषविग्रहम्

॥१६॥

गृहीत्वा भक्षयामास तस्य लिंगमिदं शिवम् ॥

प्रायश्चित्तं ततो ब्रूहि ममापि मुनिसत्तम

॥१७॥

गौतम उवाच

देवि सर्वजगत्सर्गस्थितिसंहारकारिणि ॥

त्वद्ध्यानमेव जगतां सर्वपातकनाशनम्

॥१८॥

अथापि लौकिकं वृत्तमवलंब्य त्वयेरितम् ॥

स्वकृतापि हि मर्यादा न महद्भिर्विलंघ्यते

॥१९॥

अन्तःकरणकालुष्यक्षालिनी काचन क्रिया ॥

कथ्यतेऽद्य मया मातरवधानं विधीयताम्

॥२०॥

अरुणाद्रिरयं साक्षादनलाद्रिस्तिरोहितः ॥

ज्वलतिज्योतिषा स्वेन कृत्तिकापूर्णिमा निशि

॥२१॥

तत्सपर्यातपश्चर्या कार्या कात्यायनि त्वया ॥

तज्ज्योतिर्दर्शनात्सर्वमभीष्टं तव सिध्यति

॥२२॥

इत्युक्ता गौतमेनांबा तदाप्रभृति दारुणा ॥

इयं च शिवभक्ता हि शिवपूजारता तदा

॥२३॥

तपश्चचार पंचानामग्नीनां मध्यमाश्रिता ॥

चतुर्णां शिखिनां मध्ये स्थिता सूर्यनिविष्टदृक्

॥२४॥

रेजे हैमी शलाकेव द्योतमाना गिरींद्रजा ॥

अथाकृष्टेवपार्वत्याः प्रेमपाशैर्निरायतैः

॥२५॥

सा कार्त्तिकी पौर्णमासी समापेदे शुभा तिथिः ॥

ततस्तस्य दिनस्यांते शृंगे शोणमहीभृतः

॥२६॥

अदर्शि किमपि ज्योतिरनुपाधिकवैभवम् ॥

तदर्थोपगतैर्ब्रह्ममधुभिद्वासवादिभिः

॥२७॥

उपास्यमानमभितो देवैर्दिव्यर्षिसंगतैः ॥

तदनिंधनमस्नेहमदशावर्तिसंभवम्

॥२८॥

महाप्रदीपमालोक्य विस्मयं प्राप पार्वती ॥

कृतप्रदक्षिणा साथ प्रणमंती पदेपदे ॥

अरुणाद्रीश्वरं नाथं तुष्टा तुष्टाव शैलजा

॥२९॥

नमस्ते मेरुचापाय कैलासाचलवासिने ॥

नीहारशैलजामात्रे शोणक्ष्माधररूपिणे

॥३०॥

वरुणादिसुरार्च्याय तरुणादित्यवर्चसे ॥

अरुणाचलनाथाय करुणामूर्त्तये नमः

॥३१॥

जय जह्नुसुताचन्द्र लेखालंकृतशेखर ॥

सौंदर्यमोहिताशेषमुनिपत्नीजनाशय

॥३२॥

जय शैलसुतासंगसंभृतानंगवैभव ॥

माया नारायणाभोगक्रीडाम्रेडनपंडित

॥३३॥

जय संध्यासमोपेतसंभृतानंदतांडव ॥

जय गीर्वाणगंधर्वसिद्धविद्याधरार्चित

॥३४॥

जय हेरंबजनक जय षण्मुखवत्सल ॥

जय हैमवतीप्रार्थ्य जय पार्थिवदुर्लभ

॥३५॥

इति स्तुत्वा मुहुस्तस्मिञ्ज्योतिषि न्यस्तलोचनाम् ॥

दृष्ट्वा देवीं दयाव्याजाद्विलिल्ये वृषभध्वजः

॥३६॥

लयित्वा निजमास्थाय रूपमुत्कटसुन्दरम् ॥

आस्थाय वृषभं दिव्यममूं दृष्ट्वा शिवां शुभाम्

॥३७॥

मानातिरेकादपहाय सर्वमैश्वर्यमेवं तपसि प्रवृत्ताम् ॥

मुग्धां पुनः सांत्वयितुं गिरीशः प्रचक्रमे पर्वतराजपुत्रीम्

॥३८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे पार्वतीकृतारुणाचलेश्वरस्तुतिवर्णनंनाम विंशतितमोऽध्यायः ॥ २० ॥